________________ अजव 216 - अभिधानराजेन्द्रः - भाग 1 अजवइर चत्वारोऽपि ययुः सिद्धिमेवं कर्तव्यमार्जवम् / आ०क०। आ०चूल। आवन अञ्जवइर-पुं०पआर्यवज्र (वैर)ब आरात्सर्वहेयधर्मेभ्यो यातः। प्राप्तः सर्वैरुपादेयगुणैरित्यर्थः, स चासौ वज्रश्च / आ०म०वि०। धनगिरेः सुनन्दायां भार्यायामुत्पादिते पुत्रे आर्यसिंहगिरेः शिष्ये / के ते आर्यवैरा इति स्तवद्वारेण तदुत्पत्तिमाहतुंबवणसंनिवेसाउनिग्गय पिउसगासमलीणं / छम्मासिअंछसु जुधे, माऊ असमन्निअं वंदे / / 1 / / तुम्बवनसन्निवेशान्निर्गतं पितृसकाशमालीनं पाण्मासिकं षट् सु जीवनिकायेषु युतं प्रयत्नवन्तं मात्रा च समन्वितं वन्दे / एषगाथाऽक्षरार्थः / भावार्थस्तु कथातोऽवगन्तव्यः। कथा चेयम् - शक्रस्य लोकपः श्रीदस्तस्य सामन्तिकः पुनः। अभूद् वज्रविभोर्जीवः, प्राग्भवे जृम्भकामरः / / 2 / / इतश्च पृष्ठचम्पायां० श्रीवीरः समवासरत्। सुभूमिभाग उद्याने, शालस्तत्र नृपः पुरि // 3 // युवराजो महाशालस्तयोर्यामिर्यशोमती। पिठरो रमणस्तस्याः, गागलिस्तनयः पुनः॥४॥ शालः श्रुत्वा प्रभोधर्म, व्रतायानुजमूचियान्। राज्ये त्वं विश सोऽवादीद् , न व्रतेऽप्यस्मि ते नु किम् ? ||5|| समानीयाथ काम्पिल्या, गागलिं स्वस्वसुः सुतम्। राज्येऽभिषिच्यतं तौ द्वौ, पार्वे प्राबजतां प्रभोः।।६।। साऽपि तद्भगिनी जाता, श्रमणोपासिका ततः। तावप्येकादशाङ्गान्यध्यगीषातां महाऋषी / / 7 / / विहरन्नन्यदा स्वामी, ययौ राजगृहे पुरे। ततोऽपि चम्पां नगरी, प्रति प्रातिष्ठत प्रभुः / / 8 / / मुनी शालमहाशालौ, प्रभुं पप्रच्छतुस्तदा। आवां यावः पृष्ठचम्पां, कोऽपि स्यात्तत्र धर्मवान् // 6 // ज्ञात्वाऽवबोधं तौ तत्र प्रेषयद् गौतमान्वितौ। ततः स्वामी ययौ चम्पा, पृष्ठचम्पांच गौतमः॥१०॥ समातापितृकस्तत्र, गागलिगाँतमान्तिके। श्रुत्वा धर्म सुतं राज्ये, निवेश्य व्रतमग्रहीत्॥११॥ यातां मार्गेऽथ चम्पायां, स्वजनव्रतहर्षतः। प्राप्तौ शालमहाशालौ, निधानमिव केवलम् / / 12 / / समातापितृकस्याथ, गागलेरपि केवलम्। अत्रामुत्रार्थदावेतौ, ममेति ध्यायतोऽभवत्।।१३।। अथ चम्पां ययौ स्वामी, गौतमस्तत्परिच्छदः / प्रभुं प्रदक्षिणीकृत्य, प्रणिनंसुः पुरोऽभवत्॥१४|| इत एव प्रभुंनन्तुं, तानित्याचष्ट गौतमः। प्रभुगौतममूचे मा, केवल्याशातनां कृथाः // 15|| गौतमोऽथ प्रभुं नत्वा, क्षमयामास तान् क्षमी। गौतमं केवलाऽऽनाप्तिखिन्नं मत्वाऽदिशत्प्रभुः // 16 // अष्टापदं तपोलब्ध्याऽऽरोहेद्यः स्यात्स केवली। उद्गच्छदार्त्तयद्देवमुखात् श्रुत्वाऽथ तां गिरम्॥१७॥ अष्टापदोपकण्ठस्थास्तापसास्तपसा कृशाः। कौण्डिन्यदत्तशैवाला, एकद्वित्र्यन्तरेऽहनि॥१८|| आर्द्रकन्दशुष्ककन्दशुष्कशैवालभोजनाः। आरुक्षन् पदिका एकद्वित्रास्तेऽपि तपःक्रमात् / / 16 / / गौतमोऽपि प्रभु पृष्ट्वा ऽष्टापदाद्रिमुपेयिवान्। दृष्ट्वा ते तं मिथः प्राहुः, स्थूलोऽप्येषोऽधिरोक्ष्यति॥२०॥ तपःकृशा अपि क्यं, शक्नुम इतः परम्। गौतमस्तावदांशूनिश्रां कृत्वाऽऽरुहोह तम्॥२१।। तवृत्तविस्मितास्तेऽथ, दध्युर्यद्येवमेष्यति। ततोऽमुष्य वयं शिष्याः, भविष्यामो महाऋषेः / / 22 / / नत्वाऽर्हतः प्रभुश्चैश्यां, दिश्यशोकतरोस्तले। तत्र पृथ्वीशिलापट्टे, तामवात्सीद्विभावरीम्॥२३|| आगादष्टापदं नन्तुं, तत्र वैश्रवणस्तदा। जृम्भकेण समं सख्या, नत्वा सर्वान् जिनानथ // 24|| स्वाध्यायध्वनिना ज्ञात्वाऽभ्येत्य गौतममानमत्। कुर्वाणः स्वाम्यपि व्याख्या, सुधामधुरगीय॑धात् / / 25 / / अन्ताहारपन्ताहारेत्यादिकं साधुवर्णनम्। तच्छुत्वा मुखमालोक्य, मिथस्तौ हसितौ सुरौ॥२६॥ एवं साधुगुणानाह, स्वयमीदृक् पुनः प्रभुः। ज्ञात्वाऽऽर्यस्तन्मनः पुण्डरीकाध्ययनमूचिवान्।।२७।। न दौर्बल्यं बलित्वं वा, सद्गत्य किं तु भावना। श्रीदोऽथ ध्यानविज्ञानात् , प्रीतो नत्वा प्रतीयवान्॥२८|| जृम्भकस्तु प्रतिबुद्धः, शुद्धं सम्यक्त्वमाददे। सर्वं च प्रज्ञया पुण्डरीकाध्ययनमग्रहीत्॥२६। गौतमस्तु द्वितीयेऽयष्टापदादेरवातरत्। भीतास्ते प्रभुमाहुर्नः, शिष्यं कुरु गुरुर्भव // 30 // स्वाम्यथादाद्व्रतं तेषां, वेशात् शासनदेवताः। पारणे वोऽस्तु किं वस्तु, पृष्टास्ते प्रभुमभ्यधुः / / 31 / / इष्टाप्तिश्चेत्तदस्त्वद्य, पायसंघृतखण्डयुक् / तदैवानीय तत्स्वामी, तानूचे भोक्तुमास्यत / / 3 / / दध्युस्ते नो भविष्यन्ति, नेयतां तिलकान्यपि। परं गुरुवचः कार्य, न विचार्य नृपोक्तवत्॥३३॥ आसीनास्तेऽथ सर्वेऽपि,स्वाम्यक्षीणमहानसः। आतृप्ति भोजयित्वा तानश्नाति स्म स्वयं ततः / / 34 / / शतानां तेषु पञ्चाना, भुजानानां महाशिनाम्। ध्यायतां गौतमी लब्धि, जज्ञे केवलमुज्ज्वलम्॥३५|| गच्छतां च प्रभूपान्ते, विलोक्य प्राभवीं श्रियम्। पञ्चशत्या व्यहभुजां, समजायत केवलम्॥३६।। एकान्तरभुजां चासीत् , श्रीवीरजिनदर्शने। गौतमस्तैः समं भतुर्ददौ तिनः प्रदक्षिणाः / / 37 / / नवीनाः साधवस्तेऽथ, जग्मुः केवलिपर्षदम्। गौतमः स्माऽऽह तानेवं, नमत त्रिजगत्पतिम्॥३८।। स्वाम्याहाशातनामिन्द्रभूते ! केवलिनां व्यधाः। नत्या प्रभुं ददौ मिथ्यादुष्कृतं तेषु गौतमः // 36 // गौतमेऽथाधृतिं सुष्टु, प्रपन्ने स्वाम्यवोचत। अन्ते तुल्या भविष्यामो, मा कार्षी\तमाऽधृतिम् / 4 / / तृणद्विदलचर्मोर्णाकटवत्कस्यचित्पुनः। कोऽपि क्वापि भवेत्स्नेहो, मेषोर्णाकटवत्तु ते // 41 // तत्र स्नेहे चिरभवे, प्रावृषीव व्यपेयुषि। केवलज्ञानहंसस्ते, हृत्सरस्यां स रंस्यते।।४२।। उद्दिश्य गौतमं लोकप्रतिबोधकृते तथा। आदिशद् द्रुमपत्रीयाध्ययनं भगवांस्तदा।।४३।। इतश्चावन्तिदेशोर्वीहदिहारतटोपमः। सन्निवेशस्तुम्बवननामा धामाद्भुतश्रियाम्॥४४॥ तत्रेभ्यसूर्धनगिरिर्वतार्थी पितरौ पुनः। __ तत्कृते वृणुतः कन्या, यस्य तं संन्यषेधयत्॥४५॥