________________ अजवडर 217- अभिवानराजेन्द्रः - भाग 1 अजवइर स्वयम्बराऽथतस्याभूत, सुनन्दा धनपालसूः। विवाहिताऽथ सा तेन, तया रुद्धोऽथ स व्रतात्॥४६॥ अथान्यदा स्वतः स्थानात,सच्युत्वा ज़म्भकामरः। सुनन्दाकुक्षिकासारेऽवातरत्कलहंसवत्॥४७॥ तवाधारोऽभवद्भावीत्युक्त्वा धनगिरिः प्रियाम्। अभूत् सिंहगिरेः शिष्यः, शालकात्संमितादनु॥४८|| जाते च तनये जन्मोत्सवे स्फूर्जति काऽप्यवक्। पिता चेत् प्रावजिष्यन्नास्याभविष्यद्वरं तदा // 46 // स संज्ञी तद्वचः श्रुत्वाऽज्ञासीन्मे व्रत्यभूत्पिता। एवं चिन्तयतस्तस्य, जाता जातिस्मृतिः शिशोः / / 50|| अहर्निशं ततोऽरोदीत्, माता निर्विद्यते यथा। प्रव्रज्याभिमुखं पश्चादेवं षण्मासिकाऽगमत् // 51 / / अन्यदा समवासार्षीत्, तत्र सिंहगिरिगुरुः / समितौ धनगिरिश्च, पश्यावः स्वजनानिति / / 2 / / यावद्यातो गुरुं पृष्ट्वा, शकुनस्तावदूचिवान्। ततस्तौ सूरयोऽवोचन , भावी लाभोऽद्य वां महान्॥५३|| सचित्तं वाप्यचित्तं वा, ग्राह्य तत तौ ततो गतौ। सुनन्दा ससखीवृन्दा, दृष्ट्वा तावित्यवोचत / / 54|| कान्तेयन्ति दिनान्यर्भः,पाल्यते स्म मया तव। त्वमेनं गोपयेदानी, रुदतोच्चाटिताऽमुना // 55 // तेनोचे माऽस्तु ते पश्चात्तापः सोचेऽत्र निःस्पृहा। कृत्वाऽथ साक्षिणोऽग्राहि, सोऽब्दार्द्धः पात्रबन्धने / / 56 / / व्रतप्राप्तं च तत्कालं, रोदनाद्विरराम सः। अथायातो मुनेर्दोष्णाऽदान्नीतोऽधः करं गुरुः // 57 / / अतिभारात्तथाऽऽहैवं, साधो ! वजं किमानयः? आकृष्यालोक्य तं बालं, बाल्यमाप्तमिव स्मरम् // 58|| भाव्येष शासनाधारो, वज्रस्वामी गुरुस्ततः। साध्वीशय्यातरीणां तं, नीविवत्त्रातुमार्पयत् // 56 // प्रहृष्यन्प्रासुकाहारस्नानमण्डनखेलनैः। तत्रावर्द्धिष्ट वजःस, सार्द्ध गुरुमनोरथैः।।६०|| बहिर्व्याहार्दुराचार्याः, सुनन्दाऽमार्गयत्सुतम्। उचुस्ता एष निक्षेपो, गुरूणां नार्थ्यते परैः।।६१।। आगमन् गुरवस्तत्र, वज्रे जाते त्रिवार्षिके। सुनन्दायाचते सूनुं, गुरवस्त्वर्पयन्ति न॥६२।। विवादोऽथाभवद्राजकुले जातश्च निर्णयः। यदग्रतः सुतस्तस्याऽऽहूतो याति यदन्तिके॥६३|| ससंघो गुरुरेकत्र, नन्दाऽन्यत्र सनागरा। अविक्षदभितो भूपं, वज्रस्तु नृपतेः पुरः॥६४॥ राजोचे शब्दयत्वादौ, पिता स्त्रीपाक्षिका जगुः। स्वामिन्नम्बाऽऽह्वयत्वादौ, दयास्थानमियं यतः // 65 // प्राग् राज्ञोक्ताऽऽह्वयन्माता, खाद्यखेलनचाटुभिः / वीक्ष्याप्यम्बां परं सोऽस्थात्, नाचालीकिन्त्वचिन्तयत्॥६६॥ पालनस्थोऽप्युपश्रुत्या, योऽधीतैकादशाङ्गकः। सोऽहं मोहं जनन्याः किं,यामि सङ्घ विलध्य तत् ? // 67 // व्रतस्थे मयि माताऽपि, व्रतमङ्गीकरिष्यति। राज्ञा प्रोक्तः पिताऽवोचत् , वचस्तं प्रति तद्यथा // 6 // "जइसि कयज्झवसाओ, धम्मज्झयमूसिअंइमं वइरं। गिण्ह लहं रयहरणं, कम्मरयप्पमज्जणं धीर!" ||66| तच्छुत्वा तत्क्षणादेत्य,सरजोहृतिमाददे। तदैवादीक्षि गुरुणा, सपौरोऽप्यबुधन्नृपः // 7 // दध्यावथ सुनन्दाऽपि, भ्राता भर्ता सुतश्च मे। प्राव्रजन् किं ममाऽन्येन, साऽपि प्रव्रजिता ततः // 71 / / वज्र तत्रैव संस्थाप्य, साधुभिः पञ्चषैर्वृतम्। व्यहार्षुर्गुरवोऽन्यत्र, यन्नैकत्र यतिस्थितिः 72|| अथाऽष्टवर्षो वज्रर्षिय॑हरद् गुरुभिः समम्। जग्मुश्च गुरवोऽवन्त्यां, वृष्टिश्च प्रावृतत्तदा // 73 // तस्य प्राग्भ्रवमित्राणि, व्रजन्तो जृम्भकामराः। दृष्ट्वा तं तत्र तैः सार्द्ध, कृत्वा तस्थुः परीक्षितुम्॥७४।। राद्धवान्यमन्त्रयद्वजं, विपुषो वीक्ष्य संस्थिताः। पुनराह्नन् स्थिते वर्षे, गतस्तत्रोपयुक्तवान् // 75 / / द्रव्यतः पक्वकूष्माण्डं, क्षेत्रतस्तूजयन्यसौ। कालतः प्रथम वर्षा, भावतो दायकाः पुनः॥७६|| अभूस्पृशो निर्निमेषा, देवा इत्याददे न तत्। तेऽथ तुष्टा निवेद्य स्वं, विद्यां वैकुर्विकी ददुः॥७७।। भूयोऽवन्त्यां पुरिज्येष्ठे, वजे बाह्यभुवं गते। प्राग्वद्विधाय सार्द्ध ते,घृतपूर्णय॑मन्त्रयन्॥७८|| द्रव्यादिकोपयोगेन, ज्ञात्वा नात्तेषु तेष्वपि। तस्याकाशगमां विद्यां, दत्त्वाऽगुः स्वं निरूप्यते // 76 / / नियुक्तिकारोऽप्येतदेवाहजो गुज्झरोहिं बालो, निमंतिओ भोअणेण वासंते। नेच्छा विणीअविणओ, तं वयररिसिं नमसामि।१।। गुह्यकैर्देवैः वासंते वर्षति नेच्छति विनीतविनयोऽभ्यस्तविनयः / तथाउज्जेणीए जो जंभगेहिं आणक्खिऊण थुअमहि। अक्खीणमहानसि, सीहगिरिपसंसिअंवंदे॥१६॥ आणक्खिऊण परीक्ष्य, स्तुतो वचनैः, महितो विद्यादानेन। तच्छिष्यान् पठतः श्रुत्वैकादशाङ्गी स्थिराऽभवत्। श्रुतं पूर्वगमप्यात्तं, यत्किञ्चित्पठता श्रुतम्।।८०|| पठेत्युक्तोऽपठन् नित्यं, तमेवालापकं मुहुः। अपरान्पठतः शृण्वन्,गृहानश्वततः श्रुतम्॥१॥ भिक्षार्थमन्यदा साधु-वाते याते हि मध्यमे। बहिर्भूमौ गुरौ प्राप्ते, तस्थौ वजः प्रतिश्रये // 2 // अथान्यस्यस मण्डल्या, मध्ये त्रियतिवेष्टिकाः। मध्ये स्थितः स्वयमदात्, क्रमेणाङ्गादिवाचनाम्॥८३|| आयाताः सूरयो दध्युर्मुनयो द्राक् किमाययुः? स्वरमाकर्ण्य गम्भीरं, ज्ञातं वज्रविजृम्भितम्॥४|| अपसृत्य क्षणं स्थित्वा, व्यधुनॆषेधिकी ध्वनिम्। यथास्थानेऽपि मुक्त्वा ताः, प्रामाक्षीत्स गुरोः पदौ // 85 / / ज्ञातं त्वमुंश्रुतधरं, माऽवजानन्तु साधवः। इत्याचार्या विहारार्थ, चलिताः पञ्चषान् दिनान्॥८६॥ योगिनः स्माऽऽहुरस्माकं, भावी को वाचनागुरुः ?) गुरवो वज्रमादिक्षस्ते तथेति प्रपेदिरे ||87 / / साधवोऽपि गुरुं वज्रमासयित्वाऽऽसने प्रगे। योगाऽनुष्ठानमाधाय, वाचनार्थमुपाविशन्॥८८|| वाचनां स तथाऽदत्त, मन्दा अप्यपठन् यथा। अधीतमपितैः स्पष्टी-कर्तुं पृष्टं स शिष्टवान् / / 8 / / अथले साधवो दध्युगुरूणां बहवो दिनाः। चेल्लगन्ति तदाऽस्माकं, श्रुतस्कन्धः समाप्यते॥६011 गुरोरधीयतेऽहाय, तत्पौरुष्याऽपि वज्रतः। इत्येवं सर्वसाधूनां, वज्रो बहुमतोऽभवत् / / 1 / /