________________ अजरक्खिय 215 - अभिवानराजेन्द्रः - भाग 1 अज्जव कालिकश्रुतमेकादशाङ्गरूपं करणचरणाऽनुयोगः, ऋषि-भाषितानि उत्तराध्ययनानि धर्मकथानुयोगः, सूर्यप्रज्ञप्त्यादीनि गणिताऽनुयोगः, दृष्टिवादश्च, सर्वोऽपि द्रव्यानुयोगः, दृष्टि वादा- दुद्धृत्य ऋषिभिर्भाषितत्वात् / कल्पादीनामपि तर्हि धर्मकथा-ऽनुयोगत्वम् / तन्नेत्याह"जं च महाकप्पसुअं,जाणि असेसाणि छेअसुत्ताणि। चरणकरणाणुओगोत्ति कालिअत्थे उवगयाणि" ||1|| यच महाकल्पश्रुतमेकादशाङ्गरूपम्,यानि च शेषाणि निशीथादीनि छेदसूत्राणि, चरणकरणानुयोग इति चरणकरणाऽनुयोगलक्षणे कालिकाऽर्थे कालिकश्रुतसक्तेऽर्थे उपगतानि सम्बद्धानीत्यर्थः / अथार्यरक्षिताचार्याः, मथुरां नगरीं गताः।। तत्र यक्षगुहायां च, व्यन्तरायतने स्थिताः / / 17 / / ततः शक्रो विदेहान्तः,श्रीसीमन्धरसन्निधौ। निगोदजीवानप्राक्षीद्भगवान् व्याचकार तान् // 176 / / अथोचे भरतेऽप्येवं, निगोदान् वक्ति कश्चन ? / भगवानूचिवानार्यरक्षिताः सन्ति सूरयः // 177|| भिक्षागे साधुवृन्दे च, वृद्धब्राह्मणरूपभाक् / शक्रोऽभ्यागत्य पप्रच्छ, कियदायुः प्रभो ! मम / / 178|| भणितं यवकेष्वायुज्याथ प्राप्तेषु तेषु ते। यावत्तदायुरीक्षन्ते, तावद् द्वे सागरे गते॥१७६। अथोत्पाट्य भुवावूचे, शक्रस्त्वं सोऽब्रवीत्ततः। हेतुं स्वागमने तेऽथ, निगोदान् स्वामिवज्जगुः // 180|| ततस्तुष्टः प्रणम्योचे, शक्रो यामीति तेऽभ्यधुः। तावदागमयस्व त्वं, यावदायान्ति साधवः // 181 // येचला निश्चलास्ते स्युर्येन त्वां वीक्ष्य दीक्षिताः। स ऊचेऽल्पाः करिष्यन्ति, निदानं वीक्ष्य माममी // 182|| तेऽभ्यधुः कुरु तचिह्नमथ यक्षगुहामुखम्। शक्रोऽन्यथा विधायागादाजग्मुश्च तपोधनाः // 183 // ते च द्वारं नवीक्षन्ते, गुरवस्तानथाभ्यधुः। शक्रो द्वारं व्यधादित्थमित एव ततोऽधुना।।१८४॥ ऊचुस्ते किं मुहूर्त न, धृतोऽस्माकं निरीक्षितुम् ? / शक्रोक्तमथ ते तेषामाख्यन् दुःखमथ स्थिताः / / 18 / / अथान्यदा दशपुरं, यान्ति स्म गुरवः क्रमात्। मथुरां नास्तिकस्त्वागात् , सर्व नास्तीति सब्रुवन् / / 186|| सङ्घः सङ्घाटकं प्रैषीद् गुरुं ज्ञापयितुंततः। तैर्गोष्ठामाहिलः प्रेषि, न्यग्रहीतं स वादिनम्॥१८७॥ श्रावकैरथ तत्रैव, चतुर्मासींस कारितः। इतश्चायुर्निजं ज्ञात्वा, गुरवो गच्छमूचिरे॥१८८॥ आचार्यः कोऽस्तुवः स्माहुः, स्वजनाः फल्गुरक्षिताः! स्ब्द् गोष्ठामाहिलो वाऽपि, पुष्पस्त्वभिमतो गुरोः // 186 / / शब्दयित्वा च निःशेषान्, गुरुर्दृष्टान्तमूचिवान्। निष्पावतैलहव्यानां, क्रियन्तेऽधोमुखाः कुटाः // 160|| सर्वे नियन्ति निष्पावास्तैलांशाः सन्ति केचन। तिष्ठत्याज्यं पुनः प्राज्यमेवमेतेष्वहं त्रिषु / / 161|| पुष्पं प्रति श्रुतेनाह, निष्पावकुटसन्निभः। घृतकुम्भः पुनर्गोष्ठामाहिलं मातुलं प्रति!|१६२।। फल्गुरक्षितमाश्रित्य, तैलकुम्भसमस्तथा। तदाचार्योऽस्तुवः पुष्पस्तैरपि प्रत्यपद्यत / / 193 // नवाऽऽचार्य तथा साधूननुशिष्य यथोचितम्। विधायानशनं शुद्धं, स्वर्गलोकमगाद् गुरुः॥१६४|| तद् गोष्ठामाहिलेनापि, श्रुतंय यामगाद् गुरुः। निष्पावकुटदृष्टान्तात् , पुष्पश्च स्वपदे कृतः।।१६५।। सगोष्ठामाहिलोऽथैत्य, पृथक् तस्थौ तदाश्रयात्। कर्मबन्धविचारेऽभून्निवः सोऽन्यथोक्तितः।।१६६|| आ०क०। देविंदवंदिएहिं, महाणुभावेहि रक्खियजेहिं / जुगमासजविभत्तो, अणुओगो तो कओ चउहा।। देवेन्द्रवन्दितैर्महानुभावैरार्यरक्षितैर्दुईलिकापुष्पमित्रप्राज्ञमप्यतिगुपिलतयाऽनुयोगस्य विस्मृतसूत्रार्थमवलोक्य युगमासाद्य प्रवचनहिताय विभक्तः पृथग व्यवस्थापितोऽनुयोगः, ततः कृतश्चतुर्धा, चतुर्तास्थानेषु नियुक्तः चरणकरणानुयोगादिरिति। आ०म०द्विका उत्त०। आचूला धर०। दर्श०। ती विशेष स्था०। अञ्चलगच्छस्थापके आचार्ये च।अयंच (विक्रमसं०११३६ वर्षे) दन्ताणीनामग्रामेद्रोणश्रेष्ठिनो देदीनाम्या भार्यायाः जातः, (विक्रमसं०११४२ वर्षे) प्रव्रजितः, (विक्रमसं०११६६ वर्षे) विधिपक्ष-(अञ्चल-) गच्छमस्थापयत् , (विक्रमसं०१२२६ वर्षे) 61 वर्षजन्मपर्यायो मृत्वा देवलोकं गतः / जै०३० अजरक्खियमीस-पुं०(आर्यरक्षितमिश्र) अनुयोगचातुर्विध्य-कारके रक्षिताचार्ये, सूत्र०१ अ०१ उ० अजरह-पुं०(आर्यरथ) आर्यवज्रस्वामिनस्तृतीये शिष्ये, कल्प० / अज्जल-पुं०(आद्यल) म्लेच्छभेदे, प्रज्ञा० 1 पद। अज्जव-न०(आर्जव) ऋजोः रागद्वेषवत्त्ववर्जितस्य सामायिकवतः कर्म भावो वा आर्जवम् / संवरे, स्था० 5 ठा०१ उ० ऋजुभाव आर्जवम् / आव०मनोवाकायविक्रियाविरहे मायाराहित्ये, ध०८ अधि०। प्रव०। व्य०। पंचा0। आचा०। कल्प०। आव०। ज्ञा०। परस्मिन्निकृतिपरेऽपि मायापरित्यागे, दश० 10 अ०। एतच वीरेणाभ्यनुज्ञातम्। स्था० 5 ठा० 1 उ०। एतत्तृतीयश्रमणधर्मः / स्था० 2 ठा०१ उ०१ दशमो योगसंग्रहः / स०३१ सम०। आव०"पाए कोसिअज्जो, अंगरिसी रुद्दए अ आणत्ती / पंथगजोइजसा वि अ, अब्भक्खाणे असंबोही' ||1|| चम्पायां कौशिकार्योऽभूदुपाध्यायो महामतिः। तस्याद्योऽङ्गऋषिः शिष्यो, ग्रन्थिच्छिद्द्रकोऽपरः / / 1 / / उपाध्यायेन दार्वर्थ, द्वावपि प्रेषितौ वने। दारुभारं गृहीत्वैति, सायमङ्गऋषिर्वनात्।।२।। रुद्रो रन्त्वा दिवा सायं, स्मृत्वा बहिरधावत। दध्यौ वीक्ष्य तमायान्तं, गुरुर्निःसारयाम्यमुम्॥३॥ इतो ज्योतिर्यशा वत्सपाली नीत्वाऽन्नमात्मनः। पुत्रस्य पञ्चकस्यार्थे, वलन्तीदारुकाष्ठभृत्॥४|| दृष्टा तेनाथ तां हत्वाऽऽदाय तद्दारुभारकम्। शीघ्रं मार्गान्तरेणैत्य, गुरोरणे करौ धुनन् / / 5 / / आख्यद् वः प्रियशिष्येण, ज्योतिर्यशा व्यनाश्यत। आगतः सोऽथ गुरुणा, ययौ निस्सारितोऽटवीम् // 6 / / तत्र शुद्या मनोध्यानात् , जातजातिस्मृतिव्रतम् / सोऽवाप केवलं चाथ, महिमानं व्यधुः सुराः / / 7 / / देवैः कथितमेतस्याऽभ्याख्यानं प्रददेऽमुना। रुद्रको हीलितो लोके, दध्यौ सत्यं मया ददे |8|| अभ्याख्यानमिति ध्यायन् , सोऽगात्प्रत्येकबुद्धताम्। उपाध्यायः सपत्नीकः, प्रव्रज्य प्राप केवलम्॥६॥