________________ अजरक्खिय 214- अभिवानराजेन्द्रः - भाग 1 अजरक्खिय सुरैस्तन्महिमा चक्रे, किमिदं मुनयोऽवदन् ? // 127 / / आचख्युर्गुरवस्तेषां, क्षुल्लः स्वार्थमसाधयत्। ऊचुस्ते दुष्करं तर्हि, नाऽस्माकं स्वार्थसाधनम् // 128|| प्रत्यनीकाऽमरी तत्र, श्राविका रूपभाग मुनीन्। न्यमन्त्रयद् भक्तपानैः, पारणं क्रियतामिति // 126 // प्रत्यनीकेति तां ज्ञात्वा, गुरवोऽन्यं गिरिं ययुः। कायोत्सर्गमधिष्ठात्र्यै, चक्रुः साऽऽगत्य तानवक् / / 130 // पूज्याः सन्तु सुखेनाऽत्र, ततस्तत्र समाधिना। चक्रुः कालं रथेनैत्य, शक्रस्ताननमत्ततः॥१३१॥ . प्रदक्षिणां रथस्थोऽदाद् , वृक्षादीनप्यनामयत्। ते तथैवाऽस्थुरद्रिः स, तद्-रथावत इत्यभूत्॥१३२॥ (तम्मि भगवंते अद्धनारायंदसपुव्वा वुच्छिन्ना। आ०म०द्वि०) वज्रसेनस्तुयः प्रैषि, स सोपारं पुरंगतः। धान्यमादाय लक्षणाऽपाक्षीत् तत्रेश्वरी तदा / / 133 / / दध्यौ चाऽत्र विषं क्षिप्त्या, स्मृत्वा पञ्चनमस्कृतम्। कुर्मः समाधिना कालमिति तत्प्रगुणीकृतम् // 134|| स चाऽऽगात् तद्गृहे साधुस्तेन तं प्रतिलाभ्य सा। स्वमाख्याचिन्तितं तस्य, सोऽब्रवीत् मा कृथा इदम् // 135 / / यत्र लक्षाऽन्नभिक्षाऽऽप्तिः, स्यात्तत्राऽऽशु सुभिक्षता। वजस्वामीदमूचे मां, नाऽन्यथा भावि तद्वचः / / 136|| तण्डुलानां तदैवाप्त-पोतास्तत्र समागमन्। सुभिक्षं सहसा जातं, कुटुम्बं प्रत्यबोधि तत्॥१३७।। चन्द्रनागेन्द्रविद्याभृद्, असुरैः सममीश्वरीम्। अदीक्षयद्वज्रसेनः, तेभ्योऽभूद् वज्रसन्ततिः॥१३८|| इतश्च रक्षिताचार्यः, गतैर्दशपुरं तदा। प्रव्राज्य स्वजनान् सर्वान्, सौजन्यं प्रकटीकृतम्॥१३६॥ स्नेहात् पिताऽपि तैः सार्द्ध-मास्ते गृह्णाति तद्वतम्। ब्रूते सुतास्नुषादीनां, पुरो नाऽवसरस्त्रपे।।१४०॥ उक्तः पुत्रेण सोऽवादीत्, प्रव्रजिष्याम्यहं परम्। उपानत्कुण्डिकाच्छत्रवस्त्रयुग्मोपवीतभृत्॥१४१।। ददिरे पितुराचार्याः, प्रपद्येदमपिव्रतम्। सच तत्पालयामास, ब्रह्मवेषं तु नाऽमुचत्॥१४२।। अथोचुः शिक्षिता डिम्भाः, सर्वान् वन्दामहे मुनीन्। मुक्त्वा छत्रिणमेकं तु, तत्पराभवतोऽथ सः॥१४३|| ऊचे पुत्रेण पुत्राऽलं, गुरुरप्याह साम्प्रतम्। तापे दद्याः पटीं मौलावेवं सर्वाण्यमोच्यत॥१४४|| अन्यदोपगते साधौ, साधवः पूर्वसंज्ञिताः। अहंपूर्विकया वोढुं, गुरुमूलमुपस्थिताः॥१४५॥ स्थविरोऽप्यचिवान पुत्र!, श्रेयश्चेत्तद् वहाम्यहम्। गुरुः स्माऽहोपसर्गः स्यात् , स सह्यो मेऽन्यथा क्षितिः॥१४६|| तत्रोत्क्षिप्ते स संघानां, गच्छतां पथि डिम्भकैः। कठ्यंशुके हृतेऽप्यस्थात् , तूष्णीं माऽभूद् गुरोः क्षितिः // 147 / / साधुभिश्च तदैवास्य, बद्धश्चोलपटः पुरः। अथाऽऽगतानां गुरवः, शाटकानायनेऽवदन्॥१४८il द्रष्टव्यं दृष्टमेवेदं, स्याचोलपट एव तत्। पितुर्भिक्षाटनार्थ च, गुरुः साधून रहोऽभ्यधात्॥१४६।। भिक्षामानीय भुञ्जीध्वं, मा स्म दत्त पितुर्मम / भक्तिः कार्या पितुर्मद्वत् , साक्षादुक्त्वा मुनीनिति / / 150|| आपछ्यार्यमगाद् ग्राममागन्तास्मि पितः ! प्रगे! सर्वेऽप्यादुर्न तस्याऽदुः, विहृत्यैकैकशोऽथ ते॥१५१।। दध्यौ रुष्टोऽथ संप्राप्ते, सूनावाख्यास्यतेऽखिलम्। आचार्याः प्रातरायाताः, पृष्टस्तातोऽखिलं जगौ // 152 / / किं च त्वं नाऽभविष्यश्चेत् , नाइजीविष्यमहोऽप्यहम्। ततः सर्वेऽपि गुरुभिर्निरभत्स्य॑न्त साधवः / / 153 / / पात्रमानय तातान्नमानेष्यामि स्वयं तव। अहमप्येतदानीतं, भोक्ष्ये नैवाऽद्य हे पितः!||१५४॥ सोऽथदध्यौ लोकपूज्यो, भिक्षां यास्यत्यसौ कथम् ? ततोऽहमेव यास्यामीत्युक्त्वा भैक्ष्याय सोऽगमत् / / 155 / / सोऽथैकत्र गृहेऽविक्षदपद्वारेऽवदद् गृही। साधो ! द्वारेण किं नैषि, सोऽवदद् मूर्ख ! वेत्सि नो॥१५६॥ किं द्वारं किमपद्वार, प्रविशन्त्या गृहे श्रियः। तं गृही शकुनं मत्वा, ददौ स्थालेन मोदकान्॥१५७|| आगत्यालोचयत्तान्स, तत्संख्यान्वीक्ष्य सूरयः। ऊचुः शिष्या भविष्यति, द्वात्रिंशन्निजसन्ततौ // 158|| कुटुम्ब मिति साधूनां, लाभं स प्रथमं ददौ। आनीयादात्स्वयं पश्वात् , सखण्डाज्यं सपायसम्॥१५६।। स एवं लब्धिसम्पन्नोऽभूद् बालाद्युपकारकः / तदा दुर्बलिकापुष्पः, पुष्पौ च घृतवस्त्रयोः।।१६०।। गुर्विण्या धिग् यया षभिर्मासैर्यन्मीलितं घृतम्। घृतपुष्पस्य तद्दद्यात्, साऽपि तलब्धिरीदृशी।।१६१॥ निर्वीरा काऽपि कष्टेन, कर्तनात् शाटकं व्यधात्। वस्त्रपुष्पस्य तद्दद्यात्, साऽप्यन्येषां किमुच्यते ? // 162 // तत्र दुर्बलिकापुष्पोऽधिगतां नवपूर्विकाम्। दुर्बलोऽभूत्स्मरन्नित्यं, विस्मारयति चास्मरन् / / 163 / / सौगतै वितास्तस्य, स्वजना गुरुमूचिरे। अस्माकं भिक्षवो ध्यानपरा न ध्यानमस्ति वः / / 164 / / ध्यानाद्दुर्बलिकापुष्पो, दुर्बलोऽयं गुरुर्जगौ। तान्याहुहवासेऽभूत् , स्निग्धाहारादसौ बली।।१६५।। न सवोऽस्ति गुरुः स्माह, घृतपुष्पा बहुः सनः। प्रत्ययश्चेन्न वो नीत्वा, स्वगृहे पोष्यतामयम् // 166 / / ततस्तैः पोषितोऽत्यन्तं, पूर्वध्यानात्तथैव सः। अथाध्यानः कृतः पूज्यैः, प्रान्तभोज्योऽप्यभूद् बली।।१६७।। ततस्तानि प्रबुद्धानि, श्रावकत्वं प्रपेदिरे। तत्र गच्छे चचत्वारो, मुख्यास्तिष्ठन्ति साधवः॥१६८|| आद्यो दुर्बलिकापुष्पो, द्वितीयः फल्गुरक्षितः। विन्ध्यस्तृतीयको गोष्ठामाहिलश्च चतुर्थकः / / 166 / / विन्ध्यस्तेष्वपि मेधावी, सूत्रग्रहणधारणे। गुरूनुवाच मण्डल्यामालापाऽऽप्तिश्चिरान्मम // 17 // गुरुर्दुबलिकापुष्पं, ततोऽस्यालापकं ददौ। दिनानि कतिचिहत्त्वा, वाचनां तस्य सोऽभ्यधात् / / 171 // वाचनां ददतोऽमुष्य, पूर्व मे नवमं प्रभो ! | विस्मरिष्यत्यतः पूज्यादेशोऽस्तु मम कीदृशः ? ||172 / / अथैवं दध्युराचार्याः, यद्यमुष्यापि विस्मृतिः। भविष्यति ध्रुवं प्रज्ञादीनां हानिरतः परम्।।१७३।। चतुर्चकैकसूत्रार्थाख्याने स्यात्कोऽपिन क्षमः। ततोऽनुयोगांश्चतुरः, पार्थक्येन व्यधात् प्रभुः / / 174|| चातुर्विध्यमाह"कालिअसुअंच इसिभासिआइँ तइओ असूरपन्नती। सव्वो उ दिट्ठिवाओ, चउत्थओ होइ अणुओगो" ||