________________ अजरक्खिय 213 - अभिधानराजेन्द्रः - भाग 1 अजरक्खिय चतुर्दशाऽपि तत्राऽसौ, विद्यास्थानान्यधीतवान्। अथाऽगच्छदशपुरं, राजाऽगात् तस्य संमुखम्॥७७।। उत्तम्भितपताकेऽत्र, ब्रह्मेति ब्राह्मणैः स्तुतः। अधिरूढः करिस्कन्धे, प्रविवेशोत्सर्वन सः॥७८|| स्वगृहे बाह्यशालायां, स्थितो लोकार्थमग्रहीत्। पुरोधसः सूनुरिति, न वा कैः कैरपूज्यत ? ||76 / / सुवर्णरत्नवस्त्राद्यैस्तद्गृहं प्राभृतैर्भूतम्। अथान्तर्भवनं गत्वा, जननीमभ्यवादयत्।।८।। वत्स! स्वागतमित्युक्त्वा, मध्यस्थेव स्थिता प्रसूः। सोऽवदत् किं न ते मातस्तुष्टिमद्विद्ययाऽभवत् ? ||81 / / सत्त्वानां वधकृद्वत्साऽधीतं बह पि पाप्मने! तुष्याम्यहं दृष्टिवाद, पठित्वा चेत् त्वमागमः।।२।। सदध्यौ तमधीत्याऽम्बां, तोषये किं ममाऽपरैः? दृष्टिवादस्य नामाऽपि, तावदाह्रादयत्यलम्।।८३॥ अस्य क्वाऽध्यापका मातः!, साऽऽख्यदिक्षुगृहे निजे। सन्ति तोसलिपुत्राख्याः, आचार्याः श्वेतवाससः॥८४|| तं प्रगेऽध्येतुमारप्स्ये, मातर्मवाऽधृतिं कृथाः। अथोत्थाय प्रभातेऽपि, नत्वाऽम्बां प्रस्थितः सुधीः // 85|| रक्षितं द्रष्टुमागच्छत् , ग्रामात् प्रियसुहृत् पितुः। नवेक्षुयष्टिकाः सार्धा, बिभ्रत्प्राभृतहेतवे // 86 // पुरस्तं प्रेक्ष्य सोऽप्राक्षीत्, कस्त्वं भोः ! रक्षितोऽस्म्यहम्। तमथालिङ्गय सस्नेहमूचे त्वां द्रष्टुमागमम्॥८७|| सोऽवदद्याम्यहं कार्याद्यायास्त्वं मद्गृहे पुनः। रक्षितः प्रेक्षतादौ मामिति मातुर्निवेदयेः / / 8 / / तेन तत्कथितं गत्वा, मातादध्याविदं ततः। नवपूर्वाणि सार्द्धानि, मत्पुत्रोऽध्येष्यते स्फुटम्॥८६॥ सोऽपि दध्यौ नवाऽध्यायान्, शकलं दशमस्य तु। अध्येष्ये दृष्टिवादस्य,ज्ञायते शकुनादतः / / 60|| ततः सेक्षुगृहे यातो, दध्यौ यामि किमज्ञवत्? एतद्भक्तेन केनापि, समं गत्वा नमामि तान् // 11 // इति यावद् बहिः सोऽस्थात्, तावदागादुपाश्रयम्। ढडुरश्रावको गाढं, व्यधात् नैषेधिकीत्रयम्।।२।। ईर्यादिवंदनं सर्वं, सचकार खरस्वरम्। अनुगस्तस्य तत्सर्वं, मेधावी सोऽपि निर्ममे // 63| श्राद्धेनावन्दितेनेति, ज्ञातो नव्यः स सूरिभिः। पृष्टोऽथ भोः ! कुतो धर्माऽऽप्तिस्ते सोऽप्यब्रवीदिति // 64|| साधुभिः कथितं पूज्याः!, रक्षितः श्राविकासुतः। ह्यः प्रवेशोऽभवद्यस्य, विमर्दैन महीयसा ||5|| आचार्याः स्माहुरस्माकं, दीक्षयाऽधीयते हि सः। परिपाट्या च सोऽवादीद् , अस्त्वेवं नाऽहमुत्सुकः॥६६|| किं त्वत्र स्यात् न मे पूज्याः!, प्रव्रज्या यन्नृपादयः। बलात् मा मोचयेयुस्ता, यामो देशाऽन्तरं ततः / / 67|| अथाऽऽख्यद् रक्षितस्तेषां, जनन्या प्रेषितः प्रभो !! युष्माकं संनिधौ दृष्टिवादमध्येतुमागमम् / / 68!! सोऽदीक्ष्यत तथा कृत्वा, पाठ्याऽसौ शिष्यचौरिका / तेनाऽथैकादशाङ्गानि, पठितान्यचिरादपि // 16 // दृष्टिवादो गुरोः पार्श्वे, योऽभूत् तमपि सोऽपठत्। सोऽथाऽध्येतुं दशपूर्वी, वज्रस्वाम्यन्तिकेऽचलत्।।१००।। याते तेनाऽन्तराले च, श्रीभद्रगुप्तसूरयः। अवन्त्यां वन्दितास्तैः स, धन्य इत्युपबृंहितः।।१०१।। तैरुक्तं मम निर्यामो, नाऽस्त्यन्यस्त्वं ततो भव। स तत् प्रतिशृणोति स्म, नोल्लङ्घ्यं गुरुशासनम्॥१०२॥ कालं कुर्वद्भिरूचे तैर्मा वात्सीर्वजसंनिधौ। वसेद्यस्तैः सहैकामप्युषां तैः सह तन्मृतिः।।१०३।। पठेर्भिन्नाऽऽश्रयस्थस्तत्, तथेति स्वीचकार सः। तेषां स्वर्गमने सोऽगात्, श्रीवज्रस्वामिसंनिधौ / / 104|| दृष्टश्व तैरपि स्वप्नः, किंचित् किन्तूद्धृतं पयः। सावशेषश्रुतग्राही, तत्प्रतीच्छ समेष्यति।।१०।। इति यावद् विमृष्ट तैः रक्षितस्तावदागतः। पृष्टस्तोसलिपुत्राणां, किं शिष्योऽस्म्यार्यरक्षितः / / 106 / / एवमुक्तेऽवदद्वजः,स्वागतं तव वत्स! किम् ? / क्व स्थितोऽसि बहिःस्वामिन् !,बहिःस्थोऽध्येष्यसे कथम्?||१०७|| सऊचे भगवन् ! भद्रगुप्ताऽऽदेशाबहिः स्थितः। वज्रस्वाम्युपयुज्योचे, गुरूक्तं युक्तमाचर / / 108 / / ततोऽध्येतुं प्रवृत्तो द्राक्, नव पूर्वाण्यधीतवान्। प्रारेभे दशमं पूर्वमार्यवजस्ततोऽभणत्॥१०६।। यविकानि त्रिशत्युक्तपरिकर्मसमान्यहो / पठाऽऽदौ जिनसंख्यानि, कष्टात्तान्यथ सोऽपठत्॥११०।। इतस्तन्मातापितरौ, शोकार्त्ताविति दध्यतुः। उद्द्योते कर्तुमिष्ट चेदन्धकारान्तरं ह्यद // 111 / / यन्नैत्यद्यापिनः पुत्रोऽथाहूतोऽप्यागमेत्तु सः। अथानुजं तमाहातुं, प्राहेष्टां फल्गुरक्षितम्॥११॥ सोऽभ्यधाद् भातरागच्छ, व्रतार्थी ते जनोऽखिलः। स ऊचे सत्यमेतचे-तत्त्वमादौ परिव्रज // 113 // लग्नः प्रव्रज्य सोऽध्येतुमधीयन रक्षितोऽग्रतः। यविकधूर्णिणतोऽप्राक्षीत, शेषमस्य कियत्प्रभो ! // 114 // स्वाम्यूचे सर्वपं मेरोबिन्दुमब्धेस्त्वमग्रहीः। ततो दध्यौ विषण्णात्मा, दुष्प्रापं पारमस्य मे / / 115 // अथापृच्छत्प्रभो ! यामि, भ्राता मामाहृयत्यलम्। आहुस्तेऽधीष्व तस्याथ, पौनःपुन्येन पृच्छतः।।११६|| उपयुज्य गुरुजी, पूर्व स्थास्यत्यदो मयि। व्यसृजत्तं दशपुरं, सानुजः सोऽथ जग्मिवान् // 117|| वज्रस्वामी तु याति स्म, विहरन् दक्षिणापथम्। श्लेष्मााऽऽनायितां शुण्ठीमेकदा श्रवणे न्यधात्॥११८|| मुखे क्षेप्स्यामि भुक्त्वेति, भोजनान्ते स्मृतान सा। विकाले च प्रतिक्रान्तौ, मुखपोतीहताऽपतत्॥११६॥ उपयोगादथ ज्ञातमाः ! प्रमादोऽन्तिके मृतिः। प्रमादे संयमो नास्ति, युज्यतेऽनशनं ततः॥१२०।। द्वादशाब्दं च दुर्भिक्षं, तदा सन्नवहाः पथाः। विद्यापिण्डं तदानीय, वज्रः साधूनभोजयत्॥१२१।। अथोचे तान्न भिक्षाऽस्ति, विद्यापिण्डेन वर्त्तनम्। ऊचुस्ते व्रतहान्या किं, क्रियतेऽनशनं न भोः!।।१२२।। वज्रसेनोऽन्तिषद् ज्ञात्या, प्राक् प्रैषीत्यनुशिष्य तु। यत्र त्वं लभसे भिक्षा, लक्षजान्नात्तदा मुने! / / 123|| गतंदुर्भिक्षमित्येतद् , विज्ञाय स्थानमाचरेः। वज्रस्वामी पुनर्भक्त, विमोक्तुं सपरिच्छदः / / 124 // लघुः क्षुलक एकस्तु, तिष्ठत्युक्तोऽपि साधुभिः। नास्थादाख्याय भव्याना-मथ व्यामोह्य तं गतः॥१२५।। शैलमेकमथारुक्षत्, क्षुल्लकोऽप्यनु तत्पदैः। नितम्बे तद्गिरेः स्थित्वा, पादपोपगमं व्यधात्॥१२६।। तापेन तु क्षणमिव, विलीय द्यां स जग्मिवान्।