SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ अजचंदणा २१०-अभिधानराजेन्द्रः - भाग 1 अजण तन्माऽऽपदापदमसौ, क्वापि हीनकुलंगता // 32 // बालेयं स्वजनैर्जातु, मिलेदस्मद्गृहे स्थिता। पत्त्यर्थितमथ द्रव्यं, दत्त्वा तामग्रहीद्धनः // 33 // नीत्वा सा स्वगृहं पृष्टा, कन्ये ! काऽसीति नावदत्। सुतेत्यथ प्रपन्ना सा, श्रेष्ठिना मूलयाऽपि च // 34 // चिखेल स्वेछया श्रेष्ठिगेहे स्वे वेश्मनीव सा! सुवागविनयशीलाधैर्गृहलोको वशीकृतः॥३५|| सलोकस्तां ततोऽवादीत् , तैर्गुणैश्चन्दनेत्यसौ। ततो द्वितीयमेवैतन्नामाऽभूद्विश्वविश्रुतम् // 36 // ग्रीष्मेऽन्यदा मध्यमाहे, श्रेष्ठी मन्दिरमागमत्। कोऽप्यतिक्षालको नासीत्, तदाऽढौकिष्ट चन्दना / / 37 / / श्रेष्ठिना वार्यमाणाऽपि, बलादक्षालयत् पदौ। क्षालयन्त्यास्तदा तस्याः, छुटिता केशवल्लरी॥३८|| पतन्ती पाणियष्ट्यैव, धृत्वा श्रेष्ठी बबन्ध ताम्। सायां मा पतेद् भूमौ, मूलैक्षत गवाक्षगा ||36 / / अचिन्तयत्ततो मूला, मया कार्य विनाशितम्। यद्येतामुद्हेत् श्रेष्ठी, तदाऽहं पतिता बहिः॥४०|| व्याधिर्यावत्सुकुमारस्तावदेतं छिनदृश्यहम्। गते श्रेष्ठिन्यथाऽऽहूय, नापितं ताममुण्डयत्॥४१।। निगमैर्यन्त्रयित्वाऽङ्ग्री, क्षिप्ता क्यापि गृहान्तरे। श्रेष्ठिनोऽवारि कथयन्, सर्वः परिजनोऽनया।।४२।। मूला मूलगृहेऽयासीद्, भोकुं श्रेष्ठी गृहाऽऽगतः। क्व चन्दनेति पप्रच्छ, मूलाभीतो न कोऽप्यवक् // 43 // सोऽज्ञासीद्रममाणा सा, भविष्यत्यथवोपरि। पृष्टा निश्यपि नाऽऽख्याता, ज्ञातं सुप्ता भविष्यति / / 44 // द्वितीयेऽप्यहि नादर्शि, तृतीयेऽप्यनवेक्ष्यताम्। ऊचे श्रेष्ठी न यो जाननाख्याता स हनिष्यते॥४५॥ ततः स्थविरया दास्यैकया मजीवितेन सा। जीवत्वित्याचचक्षेऽस्य, चन्दनाचारकक्रियाम्॥४६॥ दृषदातालकं भत्वा, तद्द्वारमुदघाटयत्। क्षुत्तृषार्ता निरीक्ष्यैतामाश्वास्याथ धनावहः // 47|| पश्यन् , भोज्यं कृते तस्याः, नापश्यत् किंचनापि सः। कुल्माषान् वीक्ष्य दत्त्वाऽऽस्यै, सूर्पकोणे निधाय तान्॥४८|| निगडानां भञ्जनायाऽगात्कारगृहे स्वयम्। तदा सा कुलमस्मार्षीद्, दुःखपूरेण दुःखिता॥४६|| क्व मे राजकुलं तादृग, दुर्दशा क्वेयमीदृशी? किं मया प्राक् कृतं कर्म, विपाकोऽयं यतोऽभवत् ? / / 50 / / स्वौकसि व्यासनस्यापि, तपसः पारणादिने। साधर्मिकाणां वात्सल्यं, कृत्वा पारणकं व्यधाम्॥५१।। कस्याप्यदत्त्वा किमपि, षष्ठं पारणके कथम्? अश्नामीत्यतिथेगिं , पश्यन्त्याऽऽस्तेऽत्ति सा न तु // 52 // मध्येऽह्निमेकं देहल्याः, बहिष्कृत्वा द्वितीयकम्। द्वारशाखाविलग्नाऽऽस्ते, रुदती मन्दमुन्मनाः॥५३॥ तदाऽगाद्भगवान् वीरो, भिक्षार्थ तमवेक्ष्य सा। अहो ! पात्रं मया प्राप्तं, किञ्चित्पुण्यं ममास्त्यपि / / 54 / / नोचितं वः प्रभो ! देयं, परं कृत्वा कृपां मयि। कल्पते चेदाददीध्वं, ज्ञात्वाऽथावधिना प्रभुः // 55 / / पूर्णोऽद्याभिग्रह इति, पाणिपात्रमधारयत्। कुल्माषांस्तान् ददौ सर्वान्,धन्यं मत्वाऽतिभक्तितः // 56|| सार्द्धद्वादशकोट्यस्तु, पतन्स्वर्णस्य तद्-गृहे। चेलोत्क्षेपः पुष्पगन्धवृष्टयो दुन्दुभिध्वनिः॥५७।। केशपाशस्तथैवाभून्निगडानि च पादयोः। स्वर्णनूपुरतां भेजुर्वपुःकान्तिनवाऽभवत्॥५८|| तत्क्षणाचन्दना चक्रे, सुरैः सर्वाङ्गभूषिता। आययौ देवराट् शक्रः, प्रमोदभरनिर्भरः / / 56|| दुन्दुभिध्वनिमाकर्ण्य, ज्ञात्वा पारणकं प्रभोः। शतानीकः सपत्नीकोऽप्यागमद्धनवेश्मनि // 60 // धात्र्यानीतः संपुलोऽभूद् , दधिवाहनकञ्चुकी। सोऽप्यागात् तत्र तां वीक्ष्य, तदङ्घयोः प्रणिपत्य च / / 61 / / मुक्तकण्ठं रुदन् सोऽथ, कैषेत्यप्रच्छि भूभुजा? सोऽवक् चम्पेशपुत्रीय, वसुमत्यभिधानतः॥६२।। तादृश्यपि कथं प्रेष्यभावं प्राप्तेति रोदिमि। मृगावती तदाकावीचन्मेऽसौ स्वसुः सुता॥६३॥ अमात्योऽपि सपत्नीकस्तत्रैत्यावन्दत प्रभुम्। पञ्चाहन्यूनषण्मास्याः, कृत्वा पारणकं प्रभुः // 64 // निर्ययौ कनकं गृह्णन् , भूपः शक्रेण वारितः। यस्मै दास्यत्यसौ स्वर्णमेतत्तस्य भविष्यति // 65|| सा पृष्टा मत्पितुःस्वर्ण,ततः श्रेष्ठीतदाददे। शक्रेणाऽभाणि राजाऽथ, संगोप्या चन्दना त्वया // 66|| आस्वामिज्ञानमेषा यत् , शिष्याऽऽद्या भाविनी प्रभोः। चन्दनाऽस्थाद्गृहे राज्ञः, शक्राद्याः स्वालयं ययुः।।६७।। लोकनिन्द्याऽभवन्मूला, स्तुता चन्दनया पुनः। दुर्दशैवं न चेन्मे स्यात् , कथं स्यात्पारणा प्रभोः? // 6 // धन्याऽहं कृतपुण्याऽहं, पारणाकारणात् प्रभोः। बभूव दुर्दशाऽपीयं, मम सर्वोत्तमा दशा // 66 // आ०का स्थाका अनयैव काली। अन्त०८ वर्ग। देवानन्दाप्रभृतयः प्रव्राजिताः / भ०६श०३३ उ०। उपालम्भे, दश०१अ० अजजंबु-पुं०(आर्यजम्बू) सुधर्मस्वामिनः शिष्ये, "अजसुहम्मं अंतेवासी अज्जजंबू जाव पञ्जुवासति ।अन्त० 1 वर्ग। अज्जजक्खिणी-स्त्री०(आर्ययक्षिणी) अरिष्टनेमेः प्रथम-शिष्यायाम् , कल्प अज्जजयंत-पुं०(आर्यजयन्त) आर्यवज्रसेनस्य तृतीये शिष्ये, कल्प०। अज्जजयंती-स्त्री०(आर्यजयन्ती) स्थविरादार्यरथानिर्गतायां शाखायाम, "थेरेहितो णं अज्जरहेहिंतो णं इत्थ णं अज्जजयंती साहा णिग्गया। कल्प० आर्यजयन्तान्निर्गतायां शाखायां च / 'थेराओ अज्जजयंताओ अज्जजयंती साहा णिग्गया' / कल्प०/ अज्जजीयध(ह)र-पुं०(आर्यजीतधर)आरात् सर्वहेय-धर्मेभ्योऽर्वाग यातमार्यम्, जीतमिति सूत्रमुच्यते / जीतं, स्थितिः, कल्पः, मर्यादा, व्यवस्था, इति हि पर्यायाः / मर्यादाकरणं च सूत्रमुच्यते। धृञ् धारणे' घ्रियते, धारयतीति वा धरः / लिहादिभ्य इत्यचप्रत्ययः / आर्यजीतस्य धर आर्यजीतधरः / सूत्रसम्पन्ने, आर्यश्चासौ जीतधरः / आर्यगोत्रे शाण्डिल्यशिष्ये जीतधरनामके सूरौ, "वंदे कोसियगुत्तं, संडिल्लं अज्जजीयधरं" इत्यत्राऽऽर्यजीतधरशब्दस्य प्रद-र्शितार्थद्वयपरतया व्याख्यानात् / नंग अक्षण-न०(अर्जन) अर्ज-ल्युट् / ग्रहणे, विशे०। आव०।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy