________________ अजीवपज्जवा 206 - अभिधानराजेन्द्रः - भाग 1 अजीवमिस्सिया भंते ! एवं वुचइ, नो संखिज्जा, नो असंखिज्जा, अणंता ? गोयमा ! अणंता परमाणुपोग्गला, अणंता दुपएसिया खंधा, जाव अनंता दसपएसिया खंधा, अणंता संखिज्जपदेसिया खंधा, अनंता असंखिजपदेसिया खंधा, अणंता अणंतपदेसिया खंधा, से तेणढणं गोयमा! एवं वुचइ, ते णं नो संखेज्जा, नो असंखिज्जा, अणंता। प्रज्ञा०५ पद। अजीवपण्णवणा -स्त्री०(अजीवप्रज्ञापना) अजीवानां प्रज्ञापनाऽजीवप्रज्ञापना / प्रज्ञापनाभेदे, प्रज्ञा०॥ से किं तं अजीवपण्णवणा? अजीवपण्णवणा दुविहा पण्णत्ता। तं जहा- रूविअजीवपण्णवणा, अरूविअजीवपण्णवणा य। से किं तं अरूविअजीवपण्णवणा? अरूविअजीवपण्णवणा दसविहा पण्णत्ता / तं जहा-धम्मत्थिकाए, धम्मत्थिकायस्स देसे, धम्मत्थिकायस्स पएसा / अधम्मत्थिकाए, अधम्मत्थिकायस्स देसे, अधम्मत्थिकायस्स पएसा / आगासस्थिकाए, आगा-सत्थिकायस्स देसे, आगासस्थिकायस्स पदेसा, अद्धासमए। से तं अरूविअजीवपण्णवणा। से किंतं रूविअ-जीवपण्णवणा? रूविअजीवपण्णवणा चउविहा पण्णत्ता / तं जहा-खंधा, खंधदेसा, खंधप्पएसा, परमाणुपोग्गला। ते समासओ पंचविहा पण्णत्ता / तं जहा वण्णपरिणया, गंधपरिणया, रसपरिणया फास-परिणया, संठाणपरिणया / जे वण्णपरिणया ते समासओ पंचविहा पण्णत्ता। तं जहा कालवण्णपरिणया, नीलवण्णपरिणया, लोहियवण्णपरिणया, हालिद्दवण्ण-परिणया, सुकिल्लवण्णपरिणया। अमीषामित्थंक्रमोपन्यासे किं प्रयोजनम् ? उच्यते- इह धर्मा-स्तिकाय इति पदं मङ्गलभूतम् , आदौ धर्मशब्दान्वितत्वात् / पदार्थप्ररूपणा च सम्प्रति प्रथमत उतिक्षप्ता वर्तते, ततो मङ्गला-र्थमादौ धर्मास्तिकायस्योपादानम् / धर्मास्तिकायप्रतिपक्ष भूतश्चाधर्मास्तिकायस्ततस्तदनन्तरमधर्मास्तिकायस्य। द्वयोरपिचानयोराधारभूतमाकाशमिति तदनन्तरमाकाशास्तिकायस्य / ततः पुनरजीवसाधादद्धासमयस्य / अथवा इह धर्माधर्मास्तिकायौ विभू न भवतस्तद्विभुत्वे तत्सामर्थ्यतो जीवपुद्गलानामस्खलित- प्रचारप्रवृत्तौ लोकालोकव्यवस्थाऽनुपपत्तेः। अस्ति च लोका-ऽलोकव्यवस्था, तत्र तत्र प्रदेशे सूत्रे साक्षाद्दर्शनात्। ततो यावति क्षेत्रेऽवगाढौ (धर्माधर्मी) तावत्प्रमाणो लोकः, शेषस्त्वलोक इति सिद्धम्। उक्तं चधर्माधर्मविभुत्वात्, सर्वत्र च जीवपुद्गलविचारात्। नालोकः कश्चित्स्यात्, न च सम्मतमेतदार्याणाम्।।१।। तस्माद्धर्माधर्माववगाढौ व्याप्य लौककं सर्वम्। एवं हि परिच्छिन्नः,सिद्ध्यति लोकस्तदविभुत्वात् / / 2 / / तत एव लोकालोकव्यवस्थाहेतू धर्माधर्मास्तिकायावित्यनयोरादावुपादानम् / तत्रापि माङ्गलिकत्वात् प्रथमतो धर्मास्तिकायस्य, तत्प्रतिपक्षत्वात्ततोऽधर्मास्तिकायस्य, ततो लोकालोकव्यापित्वादाकाशास्तिकायस्य, तदनन्तरं लोके समयासमय क्षेत्रव्यस्थाकारित्वादद्धासमयस्य / एवमागमानुसारेणान्यदपि युक्त्यनुपाति वक्तव्यमित्यलं प्रसङ्गेन / प्रकृतोपसंहारमाह- (से तं अरूविअजीवपन्नवणा) सैषा अरूप्यजीवप्रज्ञापना। पुनराह विनेयः (से किं तमित्यादि) अथ का सा रूप्यजीवप्रज्ञापना? सूरिराहरूप्यजीवप्रज्ञापना चतुर्विधा प्रज्ञप्ता / तद्यथा- स्कन्धाः स्कन्दन्ति शुष्यन्ति,धीयन्ते चपुष्यन्तेपुद्गलानां विचटनेन चटनेन वेति स्कन्धाः। पृषोदरादित्वाद् रूपनिष्पत्तिः / अत्र बहुधा वचनं पुद्गलस्कन्धानामानन्त्यख्यापनार्थम्। न चानन्त्यमनुपपन्नम्, आगमेऽभिधानात्। तथा चाजीवशब्दे उक्तम्- दव्यतो णं पुग्गलत्थिकाए णंता दव्वा, इत्यादि। स्कन्धदेशाः स्कन्धानामेव स्कन्धत्वपरिणाममजहन्तो बुद्धिपरिकल्पिता व्यादिप्रदेशात्मका विभागाः / अत्रापि बहुवचनमनन्तप्रादेशिकेषु तथाविधेषु स्कन्धेषु प्रदेशानन्तत्वसम्भावनार्थम् / स्कन्धानां स्कन्धत्वपरिणाम-परिणतानां बुद्धिपरिकल्पिताः प्रकृष्टा देशा निर्विभागा भागाः, परमाणव इत्यर्थः, स्कन्धप्रदेशाः। अत्रापि बहुवचनं प्रदेशा- नन्तत्वसम्भावनार्थम् / (परमाणुपुद्गला इति) परमाश्च ते अणवश्व परमाणको निर्विभागद्रव्यरूपाः, ते च ते पुद्गलाश्व परमाणुपुद्गलाः स्कन्धत्वपरिणामरहिताः केवलाः परमाणव इत्यर्थः। (ते समासओ इत्यादि) ते स्कन्धादयो यथासम्भव समासतः सङ्केपेण पञ्चविधाः प्रज्ञप्ताः। तद्यथा-वर्णपरिणता वर्णतः परिणताः, वर्णभाज इत्यर्थः / एवं गन्धपरिणताः, रसपरिणताः, स्पर्शपरिणताः, संस्थानपरिणताः / परिणता इत्यतीतकालनिर्देशो वर्तमानानागतकालोपलक्षणम्। वर्तमानानागतत्वमन्तरेणाती तत्वस्या-सम्भवात्। तथाहि- यो वर्तमानत्वमतिक्रान्तः सोऽतीतो भवति। वर्तमानत्वं च सोऽनुभवति योऽनागतत्वमतिक्रान्तवान् / उक्तञ्च- भवति स नामातीतो,यः प्राप्तो नाम वर्तमानत्वम् / एष्यंश्च नाम स भवति, यः प्राप्स्यति वर्तमानत्वम् / / 1 / / ततो वर्णपरिणता इति वर्णरूपतया परिणताः परिणमन्तीति परिणमिष्यन्तीति वा द्रष्टव्यम् / एवं गन्धरसपरिणता इत्याद्यपि परिभावनीयम्। प्रज्ञा० 1 पदों अजीवपरिणाम-पुं०(अजीवपरिणाम)६त०। पुद्गलानां परिणामे, "दसविहे अजीवपरिणामे पण्णत्ते / तं जहा- बंधणपरिणामे,गइयपरिणामे ठाणपरिणामे, भेदवन्नरसपरिणामे, गंधपरिणामे, फासपरिणामे, अगरुयलहुयसद्दपरिणामे" / (बन्धनपरिणामादीनां व्याख्याऽन्यत्र) स्था० 10 ठा० अजीवपाउसिया-स्त्री०(अजीवप्राद्वेषिकी) अजीये पाषाणादौ स्खलितस्य प्रद्वेषादजीवप्राद्वेषिकी / स्था० 2 ठा० 1 उ०। अजीवस्योपरि प्रद्वेषाद्याः क्रियाः, प्रद्वेषकरणमेव वा / प्रादेषिक्याः क्रियाया भेदे, भ०३ श० 3 उ०) अजीवपाडुचिया -स्त्री०(अजीवप्रातीतिकी) अजीवं प्रतीत्य यो रागद्वेषोद्भवस्तज्जो यो बन्धः सा अजीवप्रातीतिकी / प्रातीतिक्याः क्रियाया भेदे, स्था० 2 ठा०१ उ०। अजीवपुट्ठिया -स्त्री० [अजीवपृष्टिका (जा)(स्पृष्टिका)] अजीव रागद्वेषाभ्यां पृच्छतः स्पृशतो वा क्रियात्मके, पृष्टिका(जा)(स्पृष्टिका)याः क्रियाया भेदे, स्था०२ ठा० 1 उ०।। अजीवमिस्सिया-स्त्री०(अजीवमिश्रिता) सत्यमृषाभेदे, यदा यदा प्रभूतेषु मृतेषु स्तोकेषु जीवत्सु एकत्र राशीकृतेषु शङ्कादिषु एवं वदति- अहो ! महानयं मृताऽजीवराशिरिति तदा सा अजीवमिश्रिता, अस्या अपि सत्यमृषात्वम् / मृतेषु सत्यत्वात् , जीवत्सु मृषात्वात्। प्रज्ञा०११पद।