________________ अजीव 204- अभिधानराजेन्द्रः - भाग 1 अजीव __एतान् अरूपिणः क्षेत्रत आहधम्माधम्मे य दो एए, लोगमित्ता वियाहिया। लोगालोगे य आगासे, समए समयखित्तिए॥७॥ धर्माधर्मी धर्मास्तिकायाधर्मास्तिकायौ, एतौ द्वावपि लोक मात्रौ व्याख्यातौ / यावत्परिमाणा लोकास्तावत्परिणामौ धर्मास्तिकायाधर्मास्तिकायौ। चतुर्दशरज्ज्वात्मकलोकं व्याप्तावित्य-नेनालोके धर्माधर्मो न स्तः / आकाशं लोकालोके वर्त्तते इत्यनेनाऽऽकाशास्तिकायः चतुर्दशरज्ज्वात्मकलोकं व्याप्य स्थितः, ततो बहिर्लोकमपि व्याप्याऽऽकाशास्तिकायः स्थित इत्यर्थः / समयः समयादिकः कालः समयक्षेत्रिको व्याख्यातः / समयोपलक्षितं क्षेत्रं सार्द्धद्वयद्वीपसमुद्रात्मकं समयक्षेत्रं, तत्र भवः समयक्षेत्रिकः। सार्द्धद्वयद्वीपेभ्यो बहिस्तु समय आवलिका दिवसमासादिकालभेदो मनुष्यलोकाभावान्न विवक्षितः // 7 // पुनरेतानेव कालत आहधम्माधम्मागासा तिन्नि वि एए अणाइया। अपज्जवसिया चेव, सव्वद्धं तु वियाहिया।। धर्माधर्माकाशानि एतानि त्रीण्यपि सर्वार्द्ध इति सर्वकालं सर्वदा स्वरूपापरित्यागेन नित्यानि अनादीनि च पुनरपर्यवसितानि अन्तर्हितानि व्याख्यातानि / / 6 / / अथ कालस्वरूपमाहसमए विसंतई पप्प, एवमेव वियाहिया। आएसं पप्प साईए, सपज्जवसिए विय।। समयोऽपि कालोऽपि, एवमेव, यथा धर्माधर्माकाशानि अनाधनन्तानि, तथा कालोऽपि अनाद्यनन्त इत्यर्थः / किंकृत्वा ? सन्ततिं प्राप्य, अपरापरोत्पत्तिरूपप्रवाहात्मिकामाश्रित्य, कोऽर्थः? यदा हि कालस्योत्पत्तिर्विलोक्यते तदा कालस्याऽऽदिरपि नास्ति, अन्तोऽपि नास्तीत्यर्थः / पुनरादेशं प्राप्य कार्यारम्भमाश्रित्य कालः सादिक आदिसहितः, तथा सपर्यवसितोऽवसानसहितो व्याख्यातः। यदाच यत् किञ्चित् कार्य यस्मिन् काल आरभ्यते तदा तत्कार्यारम्भवशात् कालस्याप्युपाधिवशादादिः,एवं कार्यारम्भ-समाप्तौ कालस्याऽप्यन्तो व्याख्यात इत्यर्थः // 6 // अथरूपिणोऽजीवाश्चतुर्विधाश्चतुर्भेदा उच्यन्तेखंधा य खंधदेसा य, तप्पएसा तहेव य। परमाणवो य बोधव्वा,रूविणो विचउव्विहा / / 10 / / रूपिणोऽप्यजीवाश्चतुर्विधाश्चतुःप्रकाराः / के ते भेदाः ? तानाहस्कन्धाः, यत्र पुजे परमाणवो विचटनाद् मिलनाचन्यूना अधिका अपि भवन्ति, एतादृशाः परमाणुपुञ्जाः स्कन्धाः 1, स्कन्धदेशाः 2, तथा तत्प्रदेशाः, तेषांस्कन्धानां निर्विभागा अंशाः स्कन्धप्रदेशाः 3, तथैवेति पूर्ववत्, च पुनः परमाणवो बौद्धव्याः, परमाणव एव परस्परममिलिता इत्यर्थः 4 / एवं चत्वारो रूपिणश्चतुर्विधा बोद्धव्या इति भावः / अत्र च मुख्यवृत्त्या परमाणुद्रव्यस्य द्वौ भेदौ परमाणवः स्कन्धाश्च देशप्रदेशयोः स्कन्धेष्वेवान्तर्भावः।।१०।। अथ स्कन्धानां परमाणूनां लक्षणमाह- .. एगत्तेण पहुत्तेण, खंधा य परमाणुओ। लोएगदेशो लोए य, भइव्वा ते उ खित्तओ॥ इत्तो कालविभागं तु, तेसिं वोच्छं चउव्विहं / / 11 / / एते स्कन्धाश्च पुनः परमाणवः, एकत्वेन पुनः पृथक्त्वेन लोकैकदेशे च पुनर्लोके क्षेत्रतो भक्तव्याः। तत्र केचित् स्कन्धाः परमाणवश्च एकत्वेन समानपरिणतिरूपेण लक्ष्यन्ते। अथ चस्कन्धाः परमाणवश्व पृथक्त्वेन परमाण्वन्तरैरसनातरूपेण लक्ष्यन्त इत्यध्याहारः / इत द्रव्यतो लक्षणमुक्तम् / अथ च क्षेत्रत आह- ते स्कन्धाः परमाणवश्चेति तत्स्कन्धपरमाणूनां ग्रहणेऽपि परमाणूनामेवैकप्रदेशावस्थानत्वात् ते परमाणवः स्कन्धेषु लोकैकदेशे लोके सर्वत्र भक्तव्या भजनीया दर्शनीया इति यावत् / ते हि विचित्रत्वात्परिणतेर्बहुप्रदेशे तिष्ठन्ति / इतः क्षेत्रप्ररूपणातोऽनन्तरंतेषांस्कन्धानांपरमाणूनां चतुर्विधं कालभेदं वक्ष्ये, साद्यनादिसपर्यवसितापर्यवसितभेदेन कथयिष्यामि। इदं च सूत्रं षट्पादं गाथेत्युच्यते॥११॥ संतई पप्प तेऽणाई, अपज्जवसिया विय। ठिइं पडुच साईया, सपञ्जवसिया वि य॥१२॥ तेस्कन्धाः परमाणवश्च सन्ततिमपरापरोत्पत्तिप्रवाहरूपां प्राप्याऽनादय आदिरहितास्तथाऽपर्यवसिता अन्तरहिताः स्थितिं प्रतीत्य क्षेत्रावस्थानरूपां स्थितिमङ्गीकृत्य सादिकाः, सपर्यवसिताश्च वर्तन्ते // 12 // सादिसपर्यवसितत्वेऽपि कियत्कालमेषां स्थितिरित्याहअसंखकालमुक्कोसं, इक्कं समयं जहन्नयं / अजीवाण य रूवीणं, ठिई एसा वियाहिया / / 13 / / स्कन्धानां परमाणूनां चोत्कृष्टाऽसंख्यकालं स्थितिः जघन्यिका एकसमया स्थितिः / एषाऽजीवानां रूपिणां पुद्गलानां स्थितिः व्याख्याता // 13 // अथ कालतः स्थितिमुक्त्वा तदन्तर्गतमन्तरमाहअणंतकालमुक्कोसं, इक्वं समयं जहन्नयं / अजीवाण य रूवीणं, अंतरे य वियाहिया|१४|| अजीवानां रूपिणां पुद्गलानां स्कन्धदेशप्रदेशपरमाणुनामन्तरं विवक्षितक्षेत्रावस्थितेः प्रच्युतानां पुनस्तत्क्षेत्रप्राप्तेर्व्यवधानमन्तरमुत्कृष्टमनन्तकालं भवति / जघन्यकमेकसमयं यावद्भवति / इदमन्तरं तीर्थकरैयाख्यातम्- पुद्गलानां हि विवक्षितक्षेत्राऽवस्थितितः प्रच्युतानां कदाचित्समयावलिकादि संख्यातकालतो वा पल्योपमादेर्यावदनन्तकालादपि तत्क्षेत्रत्वावस्थितिः सम्भवतीति भावः // 14 // अथ भावतः पुद्गलानाहवनओ गंधओ चेव, रसओ फासओ तहा। संवणओय विन्नेओ, परिणामो तेसि पंचहा।।१।। तेषां पुद्गलानां परिणामो वर्णतो गन्धतो रसतः स्पर्शतः, तथा संस्थानतश्च पञ्चधा प्राप्रकारो ज्ञेयः / यतो हि पूरणगलनधर्माणः पुद्गलास्तेषामेव परिणतिः सम्भवति / परिणमनं स्वस्वरूपावस्थितानां पुद्गलानां वर्णगन्धरसस्पर्शसंस्थानादेरन्यथाभवनं परिणामः / स पुद्गलानां पञ्चप्रकार इत्यर्थः। उत्त०।