________________ अच्छेर 200 - अभिधानराजेन्द्रः - भाग 1 अन दस अच्छेरगाइ जायाई / उस्सप्पिणिए एवं, तित्थुगालीइ भणि-- | याई' ||2|| ति०॥ दस अच्छेरगा पण्णत्ता। तं जहा-"उवसग्ग गब्भहरणं, इत्थी तित्थं अभाविया परिसा / कण्हस्स अवरकं का, उत्तरणं चंदसूराणं ||1|| हरिवंसकुलुप्पत्ती, चमरुप्पाओ य अट्ठसय सिद्धा / अस्संजएसु पूया, दस वि अणतेण कालेणं" ||2|| उपसृज्यते क्षिप्यते च्याव्यते प्राणी धर्मादेरित्युपसर्गाः, देवादिकृतोपद्रवाः। ते च भगवतो महावीरस्य छद्मस्थकाले केवलिकालेच नरामरतिर्यकृता अभूवन् / इदंच किलन कदाचिद् भूतपूर्वम्।तीर्थकरा हि अनुत्तरपुण्यसंभारतया नोपसर्गभाजनम्, अपितु सकलनरामरतिरश्वां सत्कारादिस्थानमेवेत्यनन्तकालभाव्ययमर्थो लोकेऽद्भुतोऽभूद् इति 1, तथा गर्भस्य उदरसत्त्वस्य हरण-मुदरान्तरसंक्रामणं गर्भहरणम्। एतदपि तीर्थकरापेक्षयाऽभूत पूर्व सद्भगवतो महावीरस्य जातम्। पुरन्दरादिष्टन हरिनैगमेषिदेवेन देवानन्दाभिधानब्राह्मण्युदरात् त्रिशलाऽभिधानाया राजपल्या उदरसंक्रामणात्। एतदप्यनन्तकालभावित्वादाश्चर्यमेवेति 2, तथा स्त्री योषित् , तस्यास्तीर्थकरत्वेनोत्पन्नायास्तीर्थ द्वादशाङ्गं, सङ्घो वा, स्त्रीतीर्थ हि पुरुषसिंहाः पुरुषवरगन्धहस्तिनस्त्रिभुवनेऽप्यव्याहतप्रभुभावाः प्रवर्त्तयन्ति / इह त्ववसर्पिण्यां मिथिलानगरीपतेः कुम्भक महाराजस्य दुहिता मल्लयभिधाना एकोनविंशतितमतीर्थकरस्थानोत्पन्ना तीर्थ प्रवर्तितवतीत्यनन्तकालजातत्व दस्य भावस्याश्चर्यतेति 3, तथा अभव्या अयोग्या चारित्रधर्मस्य, पर्षत् तीर्थङ्करसमवसरणश्रोतृलोकः / श्रूयते हि भगवतो वर्द्धमानस्य जृम्भिकग्रामनगराद् बहिरुत्पन्नके वलस्य तदनन्तरमिलितचतुर्विधदेवनिकायविरचितसमवसरणस्य भक्तिकुतूहलाकृष्टसमायातानेकनरामरविशिष्टतिरश्चां स्वस्व-भाषानुसारिणाऽतिमनोहारिणा महाध्वनिना कल्पपरिपालनयैव धर्मकथा बभूव, यतो न केनापि तत्र विरतिः प्रतिपन्ना, न चैतत् तीर्थकृतः कस्यापि भूतपूर्वमितीदमाश्चर्यमिति 4, तथा कृष्णस्य नवमवासुदेवस्य 'अपरकङ्का' राजधानी गतिविषया जाते-त्यप्यजातपूर्वत्वादाश्चर्यम् / श्रूयते हि- पाण्डवभार्या द्रौपदी धातकीखण्डभरतक्षेत्रापरकङ्काराजधानीनिवासिना पद्मराजेन दैवसामर्थ्य नापहृता / द्वारावतीवास्तव्यश्च कृष्णो वासुदेवो नारदादुपलब्धतद्व्यतिकरः समाराधितसुस्थिताभिधानलवणसमुद्राधिपतिदेवः पञ्चभिः पाण्डवैः सह द्वियोजनलक्षप्रमाणं जलधिमतिक्रम्य पद्मराज रणविमर्देन विजित्य द्रौपदीमानीतवान्। तत्र च कपिलवासुदेवो मुनिसुव्रतजिनात् कृष्णवासुदेवागमन-वार्तामुपलभ्य सबहुमानं कृष्णदर्शनार्थमागतः / कृष्णश्च तदा समुद्रमुल्लङ्घयति स्म। ततस्तेन पाञ्चजन्यः पूरितः / कृष्णेनापि तथैव / ततः परस्परं शम शब्दश्रवणमजायतेति 5, तथा भगवतो महावीरस्य वन्दनार्थमवतरणमाकाशात्समवसरणभूम्यां चन्द्रसूर्ययोः शाश्वतविमानोपेतयोर्बभूव / इदमप्याश्चर्यमेवेति 6, तथा हरेः पुरुषविशेषस्य वंशः पुत्र-पौत्रादिपरम्परा हरिवंशस्तल्लक्षणं यत् कुलम् / तस्योत्पत्तिकुलं ह्यनके धा, ततो हरिवंशेन विशेष्यते / एतदप्याश्चर्यमेवेति। श्रूयते हि- भरतक्षेत्रापेक्षया यत् तृतीयं हरिवर्षाख्यं | मिथुनकक्षेत्रं, ततः केनापि पूर्वविरोधिना व्यन्तरसुरेण मिथुनकमेका भरतक्षेत्रे क्षिप्तम्, तच पुण्यानुभावाद्राज्यं प्राप्तम्, ततो हरिवर्षजातहरिनाम्नः पुरुषाद् यो वंशः स तथेति 7, तथा चमरस्यासुरकुमारराजस्योत्प- तनमूर्ध्वगमनं चमरोत्पातः, सोऽप्याकस्मिकत्वात् आश्चर्यमिति / श्रूयते हि चमरचञ्चाराजधानीनिवासी | चमरेन्द्रोऽभिनवोत्पन्नः सन्नूर्ध्वमवधिनाऽऽलोकयामास / ततः स्वशीर्षोपरि सौधर्मव्यवस्थितशक्रं ददर्श / ततो मत्सराध्मातः / शक्रतिरस्काराहितमतिरिहागत्य भगवन्तं महावीरं छद्मस्थावस्थमेकरात्रिकी प्रतिमा प्रतिपन्नं सुसुमारनगरोद्यानवर्त्तिनं सबहुमानं प्रणम्य भगवंस्त्वत्पादपङ्कजवनं मे शरणमरिपराजितस्येति | विकल्पविरचितघोररूपो लक्षयोजनमानशरीरः परिघरत्नप्रहरणं परितो / भ्रामयन गर्जन्नास्फाटयन् देवांस्त्रासयन्नुत्पपात। सौधर्मावतंसकविमानवेदिकायां पादन्यासं कृत्वा शक्रमाक्रोशया-मास / शक्रोऽपि / कोपाजाज्वल्यमानस्फारस्फुलिङ्गशतसमाकुलं कुलिशं तं प्रति मुमोच।। स च भयात् प्रतिनिवर्त्य भगवत्पादौ शरणं प्रपेदे। शक्रोऽप्यवधिज्ञानावगततद्व्यतिकरस्तीर्थकराशातना भयाच्छी- ध्रमागत्य वज्रमुपसंजहार / बभाणच-मुक्तोऽस्यहो! भगवतः प्रसादान्नास्तिमत्तस्ते ] भयमिति 8, तथाष्टाभिरधिकं शतमष्टशतम्, अष्टशतंचते सिद्धा निर्वृत्ता | अष्टशतसिद्धाः / इदमप्यन-न्तकालजातमित्याश्चर्यमिति 6, तथा असंयता असंयमवन्त आरम्भपरिग्रहप्रसक्ता अब्रह्मचारिणस्तेषु पूजा सत्कारोऽ-संयतपूजा। सर्वदा हि किल संयता एव पूजार्हाः, अस्यां त्ववसर्पिण्यां विपरीतं जातमित्याश्चर्यम् 10, अत एवाह दशाप्येतानि | अनन्तेनं कालेनानन्तकालात् संवृत्तान्यस्यामव- सर्पिण्यामिति। स्था० : 10 ठा०। से भयवं ! अत्थि केई जेणमिणमो परमगुरूणं पि अलंघणिज परमसरणफुडं पयड पयड पयर्ड परमक लाणं कसिण कीम्मट्ठदुक्खनिट्ठवणं पदयणं अइक्कमेज्ज वा पइक्कमेज वा खंडेज वा विराहिज्ज वा आसाइज वा से मणसा वा वयसा वा कायसावा जावणं वयसि ? गोयमा ! णं तेणं कालेणं पखित्तमाणेणं सयं दस अच्छेरगे भविंसु / तत्थ णं असंखेज्जे अभव्वे असंखेजे मिच्छादितु असंखेजेसासायणदव्वलिंगं मासीय सत्ताए डंभेणं सक्कारिज ते एत्थए धम्मे गत्ति काऊणं बहवे अदिट्ठकल्लाणे जइ णं पवयणमन्भुवगर्मति / तत्थुवगमियं रसलोलुत्ताए विसयलोलुत्ताए दुईतियदोसेणं अणुदियेहिं जहट्ठियं मग्गं निट्ठवंति / उम्मग्गं च ऊसप्पियंति सव्वे तेणं कालेणं इस परमगुरूणं पि अलंघणिजं पवयणं जाव णं आसायंति / से भयवं! कयरेणं तेणं कालेणं दस अच्छेरगे भविंसु / गोयमा ! णं इमे तेणं काले णं दस अच्छेरगे भवंति। तं जहा-तित्थयराणं उवसम्गा, गढमसंकमणे, वाम्मा तित्थयरे, तित्थयरस्सणं देसणाए अभव्वसमुदाए णं परिसा, वंदियसविमाणाणं चंदाइचाणं तित्थयरसमवसरणे आगमणं, वासुदेवाणं संखेज्जणीए अन्नयरेणं वारासकण्हेणं परोप्पमेलावगो। इह इंतु भारहे खेत्ते हरिवंसकुलुप्पत्तीए, चमरुप्पाए एगसमए णं अट्ठसयसिद्धिगमणं, असंजयाणं