________________ अच्छिज्ज 198 - अभिधानराजेन्द्रः - भाग 1 अच्छिज सुविहित ! तव मारणार्थमहमिदानीमागतः, परं संप्रति त्वद्वचनामृतपरिषेकत उपशशाम मे सर्वोऽपि कोपानलः। ततो गृहाण त्वमेवेदं दुग्धम्, मुक्तश्चाकृतप्रापणो मया, परं भूयोऽप्येवमाच्छेद्यं न ग्रहीतव्यमिति निवृत्तो गोपः / स्वस्थानं च गतः साधुरिति। सूत्रं सुगम, नवरं (पयभाणूणं ति) विभक्तिलोपात् पयोभाजनं न्यूनं दृष्ट्वा (भोई इति) भोग्या भार्या इत्यर्थः (रुवे त्ति) रुदन्ति / हंदीत्यामन्त्रणे / तन्निर्बन्धात् तदीयजिनदासाख्यप्रभुनिर्बन्धाद् गृहीतम् / ततः प्रत्याह- मुक्तोऽसि संप्रति, मा द्वितीयं वारमेवं गृह्णीथाः। संप्रति गोपालविषय एव 'अचियत्तसंखडाइ' इत्येतद् व्याचिख्यासुराह - नानिट्विटुं लब्भइ, दासी विन मुज्जए रिते भत्ता। दोन्नेगयर पओसं, काही अंतरायं च // प्रभुणा बलादाच्छिद्यमाने दुग्धे कोऽपि गोपो रुष्टः प्रभोः संमु-खमेवमपि ब्रुवाणः संभाव्यते / यथा-किमिति मदीयं दुग्धं बलादागृह्णासि ? न खल्वनिर्विष्ट मनुपार्जितमिह किमपि लभ्यते, ततो मया स्वशरीरायासबलेनेदं दुग्धमुपार्जितम् , अतः कथमत्र प्रभवसि ? न हि दास्यपि, आस्तामुत्तमवेश्यादिक मित्यपि-शब्दार्थः / भक्तमृते भक्तदानमृते भरणपोषणमृत इत्यर्थः / भुज्यते भोक्तुं लभ्यते। ततो मदीयं भोजनमिदमतोन ते तत्र प्रभुत्वावकाशः। एवं चोक्ते सति कदाचित् द्वयोरपि प्रभुगोपालकयोः परस्परमेकस्य द्वितीयस्योपरि प्रद्वेषो वर्तते। प्रद्वेषे प्रवर्धमाने यत् करिष्यति धनहरणमारणादिकं तत्स्वयमेव आच्छेद्यादाने दोषत्वेन विज्ञेयम् / तथा यच्चान्तरायं गोपालकस्य तत्कुटुम्बस्यच, तदपिदोषत्वेन विज्ञेयमिति। तदेवं 'गोवालए' इत्यादि व्याख्यातम् / एतदनुसारेण च भृतकादावपि यथायोगमप्रीत्यादिकं संभाव-नीयमिति / संप्रति स्वामिविषयमाच्छेद्यं विभावयिषुराहसामी चारभडावा, संजयं दळूण तेसि अट्ठाए। कलुणाणं अच्छेज्जं, साहूण न कप्पए घेत्तुं / इह स्वगृहमात्रनायकः प्रभुः, ग्रामादिनायकः स्वामी। चारभटा वा स्वामिभटा वा, तेऽपि स्वामिग्रहणेन गृह्यन्ते / संयतान दृष्ट्वा तेषां संयतानामर्थाय करुणानां कृपास्थानानां दरिद्रकौटुम्बिकादीनां संबद्ध्याच्छिद्य यद्ददाति तत्साधूनां न कल्पते / एतदेव व्यक्त भावयतिआहारोवहिमाई, जइ अट्ठाए उ केइ अच्छिज्जे / संखडिअसंखडीए, तंगेण्हते इमे दोसा / / यदि कोऽपि स्वामी भटो वा यतीनामर्थाय केषां चित्संबन्धि आहारोपध्यादिकं संखड्या कलहकरणेन, असंखड्या अकलह-भावेन / कोऽपि हि तत्संबन्धिनि बलादाछिद्यमाने कलहं करोति, कोऽपि स्वामिभयादिनान किमपि वक्ति। तत उक्तं संखड्या असंखड्या वेति। बलादाच्छिद्य यतिभ्यो यद् ददाति तद्यतीनां न कल्पते / यतस्तद्गृह्णतामिमे दोषाः। तानेवाहअचियत्तमंतरायं, तेनाहडं एगणेगवोच्छेओ। निच्छरणाई दोसा, तस्स अलंभे य जं पावे // येषां सत्कमाच्छिद्य बलात् स्वामिना दीयते तेषामचियत्तम-प्रीतिरूपं जायते / तथा तेषाम् (अंतरायं) दीयमानवस्तु- परिभोगहानिः कृता भवति / तथा इत्थं साधूनाभाददानानां स्तेनाहृतं भवति, दीयमानवस्तुनायकेनाननुज्ञातत्वात् / तथा येषां संबन्धि स्वामिना बलादाच्छिद्य, दीयते ते कदाचित् प्रद्विष्टाः सन्तोऽपि तस्यैकस्य साधोभक्तपानव्यवच्छेदं कुर्वन्ति, यथा- अनेन संप्रति बलादस्माकं भक्तादि गृहीतं, ततः कालान्तरेऽप्यस्मैन किमपि दातव्यमस्माभिरिति / अथवा सामान्यतः प्रद्वेषमुपयान्ति, यथा-अनेन संयतेन बलादस्माकं भक्तादि गृह्यते तस्मान् कालान्तरे न कस्मायपि संयताय दातव्यमित्यनेकसाधूनां भक्तादिव्यवच्छेदः / तथा ते रुष्टाः सन्तो यः पूर्वमुपाश्रयो दत्तः तस्मान्निष्काशयन्ति / आदिशब्दात् खरपरुषाणि भाषन्ते इति परिगृह्यते / तथा तस्योपाश्रयस्याऽलाभे यत्किमपि कष्ट प्राप्नुवन्ति, तदप्याच्छे-द्यादाननिमित्तमिति दोषः / संप्रति स्तेनाच्छेद्य भावयति - तेणा व संजयट्ठा, कलुणाणं अप्पणो व अट्ठाए / ते य पओसं जं वा, न कप्पई कप्प णुन्नायं / / इह स्तेना अपि केचित् संयतान् प्रति भद्रका भवन्ति / संयता अपि क्वापि दरिद्रसार्थेन सह व्रजन्ति / ततस्तान् भिक्षावेलायां भिक्षामप्राप्नुवतो दृष्ट्वा संयतार्थाय संयतानामर्थाय, यद्वास्वस्यात्मनोऽर्थाय तेषां करुणानां कृपणस्थानानां दरिद्रसार्थमा-नुषाणां सकाशादाच्छिद्य यद्ददति स्तेनास्ततस्तेनाच्छेद्यं द्रष्टव्यम्। तच्च साधूनां न कल्पते, यतस्तस्मिन् गृह्यमाणे येषां संबन्धितद्रव्यं ते पूर्वोक्तप्रकारेण एकानेकसाधूनां भक्तव्यवच्छेदं कुर्वन्ति।यद्वा-प्रद्वेषं रोषमुपयान्ति। तथा च सति सार्था निष्काशनम् , कालान्तरेऽपि तेषां पार्वे उपाश्रयाप्रतिलम्भ इत्यादयो दोषाः / यदि पुनस्तेऽपि सार्थिका वक्ष्यमाणप्रकारेणानुजानते तर्हि कल्पते।। एतदेव गाथाद्वयेन स्पष्ट भावयतिसंजयभद्दा तेणा, आयंते वा असंथरे जइणं / जइ देंति न घेत्तव्यं, निच्छुभ वोच्छेउ मा होज्जा / / घयसत्तुयदिटुंतो, समणुन्नायाव घेत्तुणं पच्छा देंति जइ गतेसि वि य, समणुन्नाया य मुंजंति // इह स्तेना अपि केचित् संयतभद्रका भवन्ति, साधवश्व कदाचित् दरिद्रसार्थेन सह क्वापि व्रजन्ति / ततस्तेषां साधूनां भिक्षावेलायामसंस्तरे अनिवहि तेस्तेनाः स्वग्रामाभिमुखं प्रत्यागच्छन्तः, वाशब्दात् स्वग्रामादन्यत्र गच्छन्तोवा, यदि तेषां दरिद्रसार्थमानु-षाणांबलादाच्छिद्य भक्तादि प्रयच्छन्ति, तर्हि न ग्राह्य, यद् मा भूत् निक्षोभः सार्थानाम् एकानेकसाधूनां तेभ्यो भक्तादिव्यवच्छेदो वा / यदि पुनस्तेऽपि सार्थिकाः स्तेनैर्बलाद् बाध्यमाना एवं ब्रुवते-यथाऽस्माकमिह घृतशक्तु दृष्टान्त उपातिष्ठत / घृतं हि सक्तुमध्ये प्रक्षिप्तं विशिष्टसंयोगाय जायते, एवमस्माकमप्यवश्यं चौरही-तव्यम् , ततो यदि चौरा अपि युष्मभ्यं दापयन्ति ततो महानस्माकं समाधिरिति / तत एवं सार्थिकैरनुज्ञाताः साधवो दीयमानं गृह्णन्ति। पश्चाचौरेष्वपगतेषु भूयोऽपि तद्रव्यं गृहीतं ते समर्पयन्ति / तदानीं चौरप्रतिभयादस्माभिहीतुं संप्रति ते गतास्तत एतदात्मीयं द्रव्यं यूयं गृह्णीथ इति। एवंचोक्ते सति यदि तेऽपि समनुजानते। यथा युष्मभ्यमेतदस्माभिर्दत्तमिति तर्हि भुञ्जते, कल्पनीयत्वादिति। अनेन कप्प णुन्नायमित्यवयवो व्याख्यातः / पिं० नि० चू०।