________________ अच्छादणा 197 - अभिधानराजेन्द्रः - भाग 1 अच्छिज अच्छादणा-स्त्री०(आच्छादना) स्थगने, "संतस्स अच्छायणाए मग्गस्स" / व्या०३ उ०। अच्छि-न०(अक्षि) अश्नुते विषयान्। अश-क्सि। छोऽक्ष्यादौ / 8 / 2 / 17 / इति सूत्रेण संयुक्तस्य क्षभागस्य छः / प्रा०) द्वितीयतुर्ययोरुपरिपूर्वः / 8 / 2 / 10 / इति द्वितीयस्योपरि प्रथमः। प्रा०ालोचने, तं०।दशा० / वाऽक्ष्यर्थवचनाद्याः।।१।३३। इति वा पुंस्त्वम् / "अज्ज वि सासइ ते अच्छी नचा वि आइ तेणम्ह अच्छीई" अञ्जल्यादिपाठादक्षिशब्दः स्त्रीलिङ्गेऽपि / प्रा०। "एसा अच्छी"उपा०२ अ०। (अक्ष्णोऽप्राप्यकारित्वम् 'इंदिय' शब्दे द्वि० भा०५५७ पृष्ठे द्रष्टव्यम्) अच्छायणा-स्त्री०(आच्छादना) स्थगने, ('अच्छादणा' शब्दसमानार्थः) अ(आ)च्छिदण-न०(आच्छेदन) एकवारमीषद् वा छेदने, “एक्कसि ईषद् वा आच्छिदणं'। नि०चू०३ उ० / "पायपुंछणमाञ्छिदइ वा" आच्छिनत्ति बलादुद्दालयतीति / स्था०५ ठा०१ उ०। "आच्छिदिहि त्ति-ईषच्छेत्स्यतीति। भ०१५ श०१ उ०। अ(आ)ञ्छिदित्ता(य)-अव्य०(आच्छिद्य) आछिदल्यप् / हस्तादुद्दालनेनापहृत्येत्यर्थे, उपा०७ अ० / 'अच्छिदिय जं भिचसामिमादीणं"। पञ्चा०१३ विव०। आचा०। अ(आ)च्छिदमाण-त्रि०(आच्छिन्दत्) ईषत्सकृद् वा छिन्दति ("सत्थजाए णं आच्छिदमाणे'। भ०५ श०३ उ०। अच्छिक -देशी-अस्पृष्ट, "अच्छिकोवहिपेहे" ध्य०१ उ० / अच्छिचमढण-न०(अक्षिचमढन) चक्षुषोर्मलने, बृ०२ उ०। अच्छिज्ज-न०(अच्छेद्य) न०त०। छेत्तुमशक्ये। स्था०। तओ अच्छेजा पण्णत्ता / तं जहा-समए पएसे परमाणु। एवमभेजा अडज्झा अगिज्झा अणद्धा अमज्झा अपएसा तओ अविभाइमा। छेत्तुमशक्या बुद्ध्या क्षुरिकादिशस्त्रेण देत्यच्छेद्या, अच्छेद्यत्वे समयादित्वायोगादिति / समयः कालविशेषः, प्रदेशो धर्माधर्माकाशजीवपुद्गलानां निरवयवोंऽशः परमाणुरस्कन्धः पुगल इति / उक्तं च - "सत्थेण सुतिक्खेण वि, छत्तुं भेत्तुं च जं किरन सकं / तं परमाणु सिद्धा, वयंति आईपमाणाणं" ||1|| एवमिति। पूर्वसूत्राभिलापसूचनार्थ इति / अभेद्याः सूच्यादिना, अदाह्या अग्रिक्षारादिना, अग्राह्या हस्तादिना, न विद्यते अर्द्ध येषा-मित्यनर्धाः, विभागद्वयाभावात् अमध्या विभागत्रयाभावात्। अत्र एवाह-अप्रदेशा निरवयवाः, अत एवाविभाज्या विभक्तु मशक्याः। अथवा विभागेन निर्वृत्ता विभागिमास्तनिषेधादविभागिमाः / स्था० 3 ठा०२ उ०। "लोगे अच्छिजभेजो" छेद्यः शस्त्रादिना, तन्निषेधादच्छेद्यः। द्रव्यपरमाणौ, भ०२० श०६ उ०। *आच्छेद्य-न०। आच्छिद्यते अनिच्छतोऽपि भृतकपुत्रादेः सकाशात् साधुदानाय परिगृह्यते यत्तदाच्छेद्यम्। पिं० / “अच्छेज्जं वा छिंदिय, जं सामी भिचमाईणं' / आच्छेद्यं चाऽऽच्छे द्याख्यः पुनर्दोषः / आच्छिद्यापहृत्य यद् भक्तादिकं स्वामी प्रभुः भृत्यादीनां कर्मकरादीनां सत्कं ददाति, तदिति / पञ्चा०१४ विव० / चतुर्दशोद्गमदोषदुष्टे, तदभेदोपचारात् चतुर्दशे उद्गमदोषे च। ग०१ अधि०। तभेदाःअच्छेजं पिय तिविहं,पभूय सामी य तेणए चेव / अच्छेज्जं परिकुटुं, समणाण न कप्पए घेत्तुं / / आच्छेद्यमपि प्रागुक्तशब्दार्थ त्रिविधं त्रिप्रकारम्। तद्यथा- प्रभौ प्रभुविषयं प्रभुरूपकाश्रितमित्यर्थः / एवं स्वामिनि स्वामिविषयं, स्तेनकविषय च। एतच त्रिविधमप्याच्छेद्यं तीर्थकरगणधरैः प्रतिकुष्ट निराकृतमतः श्रमणानां तत्तद् गृहीतुं न कल्पते। तत्र प्रथमतः प्रभुविषयं भावयतिगोवालए य भयए-ऽखरए पुत्ते य धूय सुण्हाए। अचियत्तसंखडाई, केइ पउस्सं जहा गोवो // प्रभुकर्तृकमाच्छेद्यं गोपालके गोपालविषयं, तथा भृतकः कर्मकरस्तद्विषयम्। अक्षरको यक्षरको व्यक्षरकाभिधानोदास इत्यर्थः, तद्विषयम् / पुत्रविषयं, दुहितृविषयं, स्नुषाविषयम् / उपलक्षणमेतद् भार्यादिविषयं च। अत्रैव दोषमाह -(अचियक्षे-त्यादि) अचियत्तमप्रीतिः, संखड कलहः, आदिशब्दादात्मपोतादि-परिग्रहः / केचित् पुनः प्रद्वेषमपि साधौ गच्छन्ति / यथा- गोपो गोपालकः। एतमेव दृष्टान्तंगाथाद्वयेनाहगोवपयं अच्छेत्तुं, दिन्नं तु जइस्स भइ दिणे पहुणा। पयभाणूणं दवं, खिसइ भोई रुवे चेडा॥ पडियरण पओसेणं, भावं नाउंजइस्स आलावो। तन्निब्बंधा गहियं, हंदि उ मुक्कोसि मा बीयं // वसन्तपुरं नगरम्। तत्र जिनदासोनाम श्रावकः। तस्य भार्या रुक्मिणी / जिनदासस्य गृहे वत्सराजो नाम गोपालः। स चाष्टमेऽष्टमे दिने सर्वासामपि गोमहिषीणां दुग्धमादत्ते, तथैव तस्य प्रथमतो धृतत्वात् / अन्यदा च साधुसंघाटको भिक्षायै तत्रागमत् / इतश्च तस्मिन् दिने गोपालस्य सर्वदुग्धादानवारकः, ततस्तेन सर्वा अपि गोमहिष्यो दुग्ध्वा महती पारिर्दुग्धेनाऽऽपूर्णा / जिनदासश्च जिनवचनभावितान्तःकरणतया साधुसंघाटकं परमपात्रभूतमाया-तमवलोक्य भक्तितो यथेच्छं भक्तपानादिकं तस्मै दत्तवान्। ततो दुग्धान्तानि भोजनानीति परिभाव्य भक्तितरलितमनस्कतया गोपालस्य दुग्धं बलेनाच्छिद्य कतिपयं ददौ / ततः स गोपालो मनसि साधोरुपरि मनाक् प्रद्वेषं ययौ, परं प्रभुभयात्न किमपि वक्तुं शक्तः / ततस्तत्पयोभाजनं कतिपयन्यून स्वगृहे नीतवान् / तच तथाभूतं न्यूनमवलोक्य भार्या सरोषं पृष्टवती-किमिति न्यूनमिदं पयोभा-जनमिति? ततो गोपेन यथावस्थिते कथितेसाऽपि साधूनाक्रोष्टुं प्रावर्तत। चेटरूपाणि च दुग्धं स्तोकमवलोक्य किमस्माकं भविष्यतीति रोदितुं प्रवृत्तानि / तत इत्थं सकलमपि स्व-कुटुम्बमाकुलमवेत्य स गोपः संजातसाधुविषयमहाकोपः साधून् व्यापादयितुं चलितवान्। दृष्टश्च भिक्षार्थं परिभ्रमन् क्वापि प्रदेशे साधुः। ततः प्रधावितो लकुटमुत्पाट्य साधोः पृष्ठतः / साधु-रपि कथमपि पश्चादवलोकेन तं गोपं तथाभूतं कोपारुणनय-नमालोक्य परिभावयामास-नूनमेतस्य दुग्धं बलादाच्छिद्य जिनदासेन मह्यं ददे, तेन मारणार्थमेव कुपित एष समागच्छन्नु-पलक्ष्यते / ततः साधुर्विशेषतः प्रसन्नवदनो भूत्वा तस्यैव संमुखं प्रत्यागन्तुंप्रवर्ततेस्म। बभाण च यथा भो भोः क्षीरगृह-नियुक्तक ! तव प्रभुनिर्बन्धेन मया तदानीं दुग्धमात्रं गृहीतम्, संप्रति तु गृहाण त्वमात्मीयं दुग्धमिति / एवं चोक्ते सत्युपशान्तकोपः साधुं प्रति स्वस्वभावं प्रकटितवान्- यथा भोः साधो !