________________ अचेलपरिसह 192 - अभिधानराजेन्द्रः - भाग 1 अचेलिया जहाविहिं कम्मखवणमट्ठाए। विहरति उज्जुया खलु, सम्म अभिजाणई एवं" // 2 // इति / यदि वा तदेव लाघवमभिसमेत्य सर्वतो द्रव्यादिना सर्वात्मनादिना सम्यक्त्वमेव सम्यगभिजानी-यात् तीर्थकरगणधरोपदेशात् सम्यक् कुर्यादिति तात्पर्यार्थः / एतच नाशक्यानुष्ठानम् / ज्वरहरतक्षकचूडालङ्काररत्नोपदेशवद् भवतः केवलमुपन्स्यते, अपि त्वन्यैर्बहुभिश्चिरकालमासे वितमित्येतदर्शयितुमाह-(एवमित्यादि) एवमित्यचेलतया पर्दूषितानां तृणादिस्पर्शानधिसहमानानां तेषां महावीराणां सकललोकचमत्कृतिकारिणां चिररात्रं दीर्घकालं यावजीवमित्यर्थः। तदेव विशेषतो दर्शयति-पूर्वाणि प्रभूतानि रीयमाणानां संयमानुष्ठाने गच्छता, पूर्वस्य तुपरिमाणं वर्षाणां सप्ततिः कोटिलक्षाः षट्पंचा-शत्कोटिसहस्रास्तथा प्रभूतानि वर्षाणि रीयमाणानां तत्र नाभेया-दारभ्य शीतलंदशमतीर्थङ्करं यावत्पूर्वसंख्यासद्भावात् पूर्वा-णीत्युक्तम्। ततआरभ्य श्रेयांसादारभ्य वर्षसंख्याप्रवृत्तेर्वर्षा-णीत्युक्तमिति / तथा द्रव्याणां भव्यानां मुक्तिगमनयोग्यानां पश्यावधारय, यत्तृणस्पर्शादिकं पूर्वमभिहितं, तदभिषोढव्यमिति सम्यक् करणेन स्पर्शातिसहनं कृतमेतदवगच्छति। एतचापि सहमानानां यत्स्यात्तदाह-(आगय इत्यादि) आगतं प्रज्ञानं पदार्थाविर्भावकं येषां ते तथा, तेषामागतप्रज्ञानानां तपसा परीषहातिसहनेन च कृशा बाहयो भुजा भवन्ति / यदि वा सत्यपि महोपसर्गपरीषहादाववगतप्रज्ञानत्वाद् बाधाः पीडाः कृशा भवन्ति, कर्मक्षपणायोस्थितस्य शरीरमात्रपीडाकारिणः परीषहोपसर्गान् सहायानिति मन्यमानस्य न मनःपीडोत्पद्यत इति / तदुक्तम् - "निम्माणेइ परोव्विय, अपाणओ न विय णं सरीराणं / अप्पणोचिय हियस्स, न उण दुक्खं परो वेत्ति" ||1 // इत्यादि / शरीरस्य तु पीडा भवत्येवेति दर्शयितुमाह-(पयणुए इत्यादि) प्रतनुके च, मांसंच शोणितं चमांसशोणिते, द्वे अपि। तस्य हिरूक्षाहारत्या-दल्पाहारत्वाच प्रायशः खलत्वेनैवाहारः परिणमति,न रसत्वेन कारणाभावाच प्रतनुकंच शोणितं तत्तनुत्वात् मांसमपीति, ततो मेदाऽस्थ्यादीन्यपि। यदि वा प्रायशो रूक्षं वातलं भवति वातप्रधानस्य च प्रतनुतैव मांसशोणितयोरचेलतया च तृणस्पर्शादिप्रादुर्भावन शरीरोपतापात्प्रतनुके मांसशोणिते भवत इति संबन्धः / तथा संसारश्रेणी संसारावतरणी रागद्वेषकाषायसंततिस्तां क्षान्त्यादिना विश्रेणिं कृत्वा तथा परिज्ञात्वा च समत्वभावनया। तद्यथाजिनकल्पिकः कश्चिदेककल्पधारी द्वौत्रीन् वा बिभर्ति, स्थविर-कल्पिको वा मासार्द्धमासक्षपकस्तथा विकृष्टाविकृष्टतपश्चारी प्रत्यहं भोजी कूरगडुको वा / एते सर्वेऽपि तीर्थकृद्वचनानुसारतः परस्परानिन्दया संस्तृणन्ति सम्यक्त्वदर्शन इति / उक्तं च-"जो वि दुवत्थतिवत्थो, एगेण अचेलगो व संथरइ / न हु ते हीलेंति परं, सव्ये वि हु ते जिणा णाए" ||1|| तथा जिनकल्पिकः प्रतिमाप्रतिपन्नो वा कश्चित्कदाचित्षडपि मासानात्मकल्पेन भिक्षां न लभेत तथाऽप्यसौ कूरगडुकमपि यथोदनमुण्डस्त्वमित्येवं न हीलयति / तदेवं समत्वदृष्टिप्रज्ञया विश्रेणीकृत्यैष उक्तलक्षणो मुनिस्तीर्णः संसार-- सागरम् , एष एव मुक्तः सर्वसङ्गेभ्यो विरतः सर्वसावधानुष्ठानेभ्यो व्याख्यातोनाऽपर इतिब्रवीमि / इतिशब्दः पूर्ववत्। आचा०१ श्रु०६अ०२ उ०। अचेलपरि(री)सहविजय-पुं०पअचेलपरि(री) षहविजयब उत्तम धृतिसंहननादिविकलानामिदानीन्तनसाधूनां तृणग्रहणाऽनलसेवापरिहारतः संयमस्फीतिनिमित्तं खण्डिताल्पमूल्यपरिजीर्णा सर्वजीर्णानि वस्त्राणि धारयतामाचेलक्यपरीषहसहने, पं०सं०। संजमजोगनिमित्तं, परिजुन्नादीणि धारयंतस्स। कह न परीसहसहणं, जइ णो सइ निम्ममत्तस्स // आचेलक्यमुक्तप्रकारेण तावदौपचारिकं ततस्तथारूपाचेल-क्यासेवनं परीषहसहनमप्यौपचारिकमेव स्यात् / तथा च सति कुतो मोक्षावाप्तिरुपचरितस्य निरुपचरितार्थक्रियाकारित्वायोगात् , न हि माणवको दहनोपचारादाधीयते पाके इति यद्येवं तर्हि कल्पनीयमाहारमपि भुजानस्य न सम्यक् क्षुत्परीषहसहनं भवेत् भवदुक्तन्यायेन सर्वथा आहारपरित्यागत एव तत्सहनोपपत्तेः / एवं च सति भगवानप्यर्हन् क्षुत्परीषहजेता न भवेत् / सोऽपि हि भगवान् छद्मस्थावस्थायां भवन्मतेनापि कल्पनीयमाहारमुपभुङ्क्ते / न च स तथा कल्पनीयमाहारमुपभुजानोऽपि क्षुत्परीषहजेता नेष्टः, ततो यथाऽनेषणीयाकल्पनीयभोजनपरित्यागतः क्षुत्परीषहसहनमिष्ट, तथा महामूल्यानेषणीयाकल्पनीयवस्त्रपरित्यागत आचेलक्य परीषहसहनमेष्टव्यम् / न च वाच्यम् - एवं तर्हि कमनीयकामिनीजनपरिभोगपरिहारतः काणेक्षणविरूपवामनेत्रापरिभोगमपि कुर्वतः स्त्रीपरीषहसहनप्रसङ्ग इति, स्त्रीपरिभोगस्यान्यत्र सर्वात्मना सूत्रान्तरेण प्रतिषिद्धत्वात् / न चैवं परिजीर्णाल्पमूल्यवस्त्रपरिभोगः सूत्रान्तरेण प्रतिषिद्धः, ततो नातिप्रसङ्गावाप्तिः / कृतं प्रसङ्गेन / विस्तरेण तु धर्मसंग्रहणीटीकायामपवादः प्रपञ्चित इति तत एवावधार्यः। पं०सं०४ द्वा०। अचेलिआ-स्त्री०(अचेलिका) वस्त्ररहितायां स्त्रियाम्, निर्ग्रन्थ्याऽचेलिकया न भवितव्यम् / बृ०५ उ० / नो कप्पइ निगंथीए अचेलियाए हुतए। नो कल्प्यते निर्गन्थ्या अचेलिकया वस्त्ररहितया भवितुमेषसूत्रार्थः। अथभाष्यम् - वुत्तो अचेलधम्मो, इति काइ अचेलगत्तणं ववण्णा। जिनकप्पो वजाणं, निवारिओ होइ एवं तु॥ अचेलको धर्मो भगवता प्रोक्त इति परिभाव्य काचिदचेलकत्वं व्यवस्थेत कर्तुमभिलषेत्, अतस्तन्निषेधार्थमिदं सूत्रं कृतम् , अचेलकत्वप्रतिषेधेन आचार्याणां जिनकल्पोऽप्येवमनेनैव सूत्रेणैव निवारितो मन्तव्यः। कुत इत्याहअजिअम्मि साहसम्मि, इत्थी ण वए अचेलिआ होउं। साहसमन्नं पि करे, तेणेव अइप्पसंगेणं / कुलडावितावणेच्छति, अचेलयं किमु सई कुले जाया ?|| धिक्कारदुकिआणं, तित्थुच्छेओ दुलमवित्ती॥ साध्यसे भये तरुणादिकृतोपसर्गसमुत्थे अजिते सति अचेलिका भयितुं स्त्री निर्गन्थी न शक्नुयात् / अथ भवति ततस्तेनैवातिप्रसङ्गेनाचेलतालक्षणेनान्यदपि चतुर्थसेवादिकं साहसं कुर्यात, तथा कुलटाऽपि तावद् नेच्छत्यचेलता किं पुनः कुले जाता सती साध्वी। अचेलतां प्रतिपन्नानां चार्यिकाणां (धिक्कारदुक्कि आणं ति) लोकापवादजुगुप्सितानां तीर्थोच्छेदः, दुर्लभा च वृत्तिर्भवति, न कोऽपि प्रव्रजति, न वा भक्तपानादिकं ददातीत्यर्थः / गुरुगा अचेलिगाणं, समलं व दुगंछियं गरहियं च।