________________ अचेलपरिसह 191 - अभिधानराजेन्द्रः - भाग 1 अचेलपरिसह तत्साधुशवं द्वारभूमिं यावदुदूह्य तत्र व्युत्सृज्य पश्चादागतो वक्ति-पुत्र ! अद्य महानुपसर्गो जातः / आहुराचार्याः- आनीयतां धौतिकं, परिधाप्यताम् / ततः स वक्ति-अथाऽलं धौतिकेन, यद् दृष्टव्यं तद् दृष्टमेव / अथचोलपट्ट एवाऽस्तु। पूर्व तेनाऽचेलपरीषहो नसोढः, पश्चात् सोढः / उत्त०२ अ०। एतदेवाऽचेलतासहनं प्रत्यपादि, यथाएयं खु मुणी आयाणं सया सुअक्खायधम्मे विधूतकप्पे णिज्झोसइत्ता, जे अचेले परिसिते तस्स णं भिक्खुस्स णो एवं भवति, परिजुण्णे मे वत्थे वत्थं जाइस्सामि सुतंजाइस्सामि सइं जाइस्सामि संधिस्सामि सीविस्सामि उक्कसिस्सामि वोक्कसिसामि परिहिस्सामि पाउणिस्सामि, अदुवा तत्थ परिक्कमंतं मुजो अचेलं तणफासा फुसंति सीयफासा फुसंति तेउफासा फुसंति दंसमसगफासा फुसंति एगयरे अण्णयरे विरूवरूवे फासे अहियासेत्ति अचेले लाघवं आगममाणा, तवे से अभिसमण्णागए भवति, जहेयं भगवता पवेदितं, तमेव अभिसमेचा सव्वतो, सव्वत्ताएसम्मत्तमेव समभिजाणिया, एवं तेसिं महावीराणं चिरराइंपुव्वाइंवासाणि रीयमाणाणं दवियाणं पास अहियासियं आगयपण्णाणाणं किसाबाहा भवंति। पयणुए मंससोणिए विस्सेणिं कट्ट परिणाए एस तिण्णे मुत्ते विरए वियाहिए त्ति बेमि। एतद्यत् पूर्वोक्तं वक्ष्यमाणं वा, खुक्यिालङ्कारे, आदीयत इत्यादानं कर्म, आदीयत इति वाऽनेन कर्मोत्पादनं कर्मोपादानम् / तच धर्मोपकरणातिरिक्तं वक्ष्यमाणं वस्त्रादि तन्मु निर्दोषयितेति संबन्धः / किंभूतः ? सदा सर्वकालं सुष्ठवाख्यातो धर्मो ऽस्येति स्वाख्यातधर्मा संसारभीरुत्वाद्यथारोपितभारवाहीत्यर्थः, तथा विधूतः क्षुण्णः सम्यक्स्पृष्टः कल्पआचारोयेन स तथा, स एवंभूतो मुनिरादानं झोषयित्वा आदानमपनेष्यति ! कथं पुनस्तदादानं वस्त्रादि स्याद् येन तद् झोषयितव्यं भवेदित्याह-(जे अचेले इत्यादि) अल्पार्थेन, यथाअयं पुमानज्ञः स्वल्पज्ञान इत्यर्थः / यः साधु स्य चेलं वस्त्रमस्तीत्यतोऽचेलोऽल्पचेल इत्यर्थः। संयमे पर्युषितो व्यवस्थित इति तस्य भिक्षो तद्भवति नैतत्कल्पते / यथा परिजीर्णं में वस्त्रमचेलकोऽहं भविष्यामि, न मेऽत्र त्वक्त्राणं भविष्यति, ततश्च शीताद्यर्दितस्य किं शरणं मे स्याद्वस्त्रं विनेत्यतोऽहं कश्चन श्रावकादिक प्रत्येत्य वस्त्र याचिष्ये, तस्यवाजीर्णस्य वस्त्रस्य संधानाय सूत्रं याचिष्ये, सूची याचिष्ये वा, आप्ताभ्यां सूचीसूत्राभ्यां जीर्णवस्त्ररन्ध्र संधास्यामि, पाटितं सीविष्यामि, लघु वा सदपरशकललगनत उत्कर्षयिष्यामि, दीर्घ वासत् खण्डापनयनतो व्युत्कर्षयिष्यामि। एवं च कृतं सत्परिधास्यामि, तथा प्रावरिस्यामीत्याद्यार्तध्यानोपहतः सत्यपि-जीर्णादिवस्त्रसद्भावे यद्भविष्यत्ताध्यवसायिनो धर्मकप्रवणस्य तु भवत्यन्तःकरणवृत्ति-रिति / यदि वा जिनकल्पिकाभिः प्रायेणैवेतत् सूत्रं व्याख्येयम् / तद्यथा-(जे अचेले इत्यादि) नाऽस्यचेलं वस्त्रमस्तीत्यचेलः छिद्रपाणित्वात्पाणिपात्रः / पाणिपात्रत्वात्पात्रादिसप्तविधतन्निर्योगरहितोऽभिग्रहविशेषात् त्यक्तकल्पत्रयः / केवलं रजोहरणमुखवस्त्रिकासमन्वितस्तस्याचेलस्य भिक्षो तद् भवति, यथा परिजीर्ण मे वस्त्रं सच्छिद्रं पाटितं चेत्येवमादिवस्त्रगतमपध्यानं न भवति, धर्मिणोऽभावा-धर्माभावः / सति च धर्मिणि धर्मान्वेषणं न्याय्यमिति सत्यं वचस्तथेदमपि तस्य न भवत्येव। यथापरं वस्त्रमहंयाधिष्य इत्यादि पूर्ववन्ने यम् / योऽपि छिद्रपाणित्वात्पात्रनिर्योगसमन्वितः कल्पत्रयान्यतरयुक्तोऽसावपि परिजीर्णादिसद्भावे तद्गतम- पध्यानं न विधत्ते, यथाकृतस्याल्पपरिकर्मणो ग्रहणात् सूचि-सूत्रान्वेषणं न करोति / तस्य चाचेलस्याल्पचेलस्य वा तृणादिस्पर्शसद्भावे यद्विधेयं तदाह(अदुवा इत्यादि) तस्य ह्यचेलतया परिवसतो जीर्णवस्त्रादिकृतमपध्यानं न भवति, अथवैतत् स्यात्तत्राचेलत्वे पराक्रममाण (भुजो) पुनस्तं साधुमचेलं क्वचिद् ग्रामादौ त्वक्त्राणाभावात् तृणशय्याशायिनं तृणानां स्पर्शाः परुषास्तृणैर्वा जनिताः स्पर्शा दुःखविशेषास्तृणस्पर्शास्ते कदाचित् स्पृशन्ति, तांश्च सम्यगदीनमनसाऽतिसहत इति संबन्धः। तथा शीतस्पर्शाः स्पृशन्त्युपतापयन्ति, तेजउष्णस्पर्शाः स्पृशन्ति, तथा दंशमशकस्पर्शाः स्पृशन्ति / तेषां तु परीषहाणामे कतरेऽविरुद्धा दंशमशकतृणस्पर्शादयः प्रादुर्भवेयुः, शीतोष्णादिपरीषहाणां या परस्परविरुद्धानामन्यतरे प्रादुःष्युः / प्रत्येकं बहुवचननिर्देशश्च तीव्रमन्दमध्यमावस्थासंसूचक इति / एतदेव दर्शयति-विरूपं बीभत्सं मनोनयनानालादि विविधं वा मन्दादिभेदादूपं येषां ते विरूपरूपाः / के ते ? स्पर्शा दुःखविशेषास्तदापादकास्तृणादिस्पर्शा वा, तान् सम्यक्करणेनापध्यानरहितोऽधिसहते, कोऽसौ ? अचेलोऽपगतचेलोऽल्पचेलो वाऽचेलस्वरूपो वा सम्यक् तितिक्षते / किमभिसन्ध्य परिषहानधिसहत इत्यत आह-(लाघवमित्यादि) लघो यो लाघयं, द्रव्यतो भावतश्च, द्रव्यतो हापकरणलाघवं, भावतः कर्मलाघवम् / आगमयन्नवगमयन्नवबुध्यमान इति यावदधिसहते परीपहोपसर्गानिति / नागाजुर्नीयास्तु पठन्ति- "एवं खलु से उवगरणलाघवियं तवं कम्मक्खयकारणं करेति" एवमुक्तक्रमेण भावलाघवार्थमुपकरणलाघवं तपश्च करोतीति भावार्थः। किञ्च (तवे इत्यादि) (से) तस्योपकरणलाघवेन कर्मलाघवमागमयन्तं कर्मलाघवेन चोपकरणलाघवमागमयतस्तृणादिस्पर्शानधिसहमानस्य तपः कायक्लेशरूपतया बाह्यमभिसमन्वागतं भवति / सम्यगाभिमुख्येन सोढुं भवति / एतचनमयोच्यत इत्येतद्दर्शयितुमाह-(जहेयं इत्यादि) यथा येन प्रकारेणे दमिति यदुक्तं वक्ष्यमाणं चैतद, भगवता वीरवर्धमानस्वामिना, प्रकर्षणाऽऽदौ वा वेदितं प्रवेदितमिति / यदि नाम भगवता प्रवेदितं ततः किमित्याह-(तमेव इत्यादि) तदुपकरणलाघवमाहारलाघवं वाऽभिसमेत्य ज्ञात्वा, एवकारोऽवधारणे, तदेवं लाघवं ज्ञात्वेत्यर्थः / कथमिति चेदुच्यते- सर्वत इति द्रव्यतः क्षेत्रतःकालतो भावतश्च / तत्र द्रव्यत आहारोपकरणादौ, क्षेत्रतः सर्वत्र ग्रामादौ, कालतोऽहनि रात्रो वा, दुर्भिक्षादौ वा / सर्वात्मनेति। भावतः कृत्रिमकल्काद्यभावेन, तथा सम्यक्त्वमिति / प्रशस्तं शोभनमेकं सङ्गतं वा तत्त्वं सम्यक्त्वम् / तदुक्तम् - "प्रशस्तः शोभनश्चैव, एकः संगत एव च / इत्येतैरुपसृष्टस्तु, भावः सम्यक्त्वमुच्यते" / / 1 / / तदेवंभूतं सम्यक्त्वमेव वा समभिजानीयात् सम्यगाभिमुख्येन जानीयात् परिच्छिन्द्यात् तथा ह्यचेलोऽप्येकचेलादिकं नावमन्येत, यत उक्तम्-"जो विदुवत्थ तिवत्थो, एगेण अचेलगो व संथरइ। ण हु ते हीलेंति परं, सव्ये विहु ते जिणा णाए।।१।। तथा- "जे खलु विसरिसकप्पा, संघयणधियादिकारणं भणियं / पप्पणवमणयहीणं, अप्पाणं मण्णई तेहिं / / 1 / / सव्वे वि जिणा जाए,