________________ अचेल 189 - अभिधानराजेन्द्रः - भाग 1 अचेलगधम्म एवं जीणः पुराणैः, खण्डितैश्छिन्नः, असर्वतनुप्रावृतैः स्वल्पप्रमाणतया सर्वस्मिन् शरीरे अपावृतैः, प्रमाणैः हीनरित्यर्थः / न च नित्यं सदैव प्रावृतैः किन्तु शीतादिकारणसद्भावे एवं विधैश्चेलैः, सद्भिरपि विद्यमानैरपि, निर्ग्रन्था अचेला भवन्ति। अत्र पराभिप्रायमाशय परिहरति - एवं दुग्गतपहिया, अचेलगा होंति ते भवे बुद्धी। ते खलु असंततीए, धारंति ण धम्मबुद्धीए॥ यदिजीर्णखण्डितादिभिर्वस्त्रैः प्रावृतैः साधवोऽचेलकास्तत एवं दुर्गताश्च दरिद्राः पथिकाश्च पान्था दुर्गतपथिकास्तेऽप्यचेलका भवन्तीतिते भवेद् बुद्धिः स्यात् / तत्रोच्यते - ते खलु दुर्गतपथिका असत्तया नवव्यूतसदशकादीनां वस्त्राणामसम्पत्त्या परिजीर्णादीनि वासांसि धारयन्ति, न पुनर्धर्मबुद्ध्या / अतो भावतस्तद्विष यमूपिरिणामस्यानिवृत्तत्वान्तेऽचेलकाः।साधवस्तु सतिलाभेमहाधनादीनि परिहत्य जीर्णखण्डितादीनि धर्मबुद्ध्या धारयन्तीत्यचेला उच्यन्ते। यद्येवमचेलास्ततः किमित्याह - आचेलको धम्मो, पुरिमस्सय पच्छिमस्स य जिणस्स। मज्झिमगाण जिणाणं, होति अचेलो सचेलो वा // अचेलकस्य भाव आचेलक्यम् , तदस्यास्तीत्याचेलक्यः / अभ्रादेराकृतिगणत्वादप्रत्ययः / एवंविधो धर्मः पूर्वस्य च पश्चिमस्य च जिनस्यतीर्थे भवति। मध्यमकानांतु जिनानामचेलः सचेलोवा भवति / इदमेव भावयतिपडिमाए पाउत्ता, णातिकमंते उ मज्झिमा समणा। पुरिमचरिमाण अमह-द्धणाइ भिण्णाइ वामोत्तुं / मध्यमा मध्यतीर्थकरसत्काः साधवः प्रतिमया वा लग्नतया प्रावृता वा प्रमाणातिरिक्तमहामूल्यादिभिर्वासोभिराच्छादितवपुषो नातिक्रामन्ति, भागवतीमाज्ञामिति गम्यते / पूर्वचरमाणां तु प्रथमपश्चिमतीर्थकरसाधूनाममहाधनानि स्वल्पमूल्यानि, भिन्नानि वा कृत्स्नानि वा प्रमाणोपेतान्यदशकानि चेत्यर्थः / परमिमानि कारणानि मुक्त्वा तान्येवाहआसज्ज खेत्तकप्पं, वासावासे अमावितो असहू। काले अद्धाणम्मिय, सागरि तेणो व पाउरणं // क्षेत्रकल्पं देशविशेषाचारमासाद्याभिन्नान्यपि प्राब्रियन्ते, यथासिन्धुविषये तादृशानि प्रावृत्य हिण्डन्ते।वर्षावासे वावर्षाकल्पं प्रावृत्य हिण्डन्ते ।अभावितः शैक्षः कृत्स्नानि प्रावृत्य हिण्डते, यावद्भावितो भवति / असहिष्णुः शीतमुष्णं वा नाधिसोढुं शक्नोति ततः कृत्स्नं प्रावृणुयात्। कालेवा प्रत्यूषे भिक्षार्थ प्रविशन् प्रावृत्य निर्गच्छेत्। अध्वनि वा प्रावृता गच्छन्ति / यत्सागारिकप्रति-बद्धप्रतिश्रये स्थितास्ततः प्रावृताः सन्तः कायिकादिभुवं गच्छन्ति, स्तेना वा पथि वर्तन्ते, तत उत्कृष्टोपधिं स्कन्धे कक्षायां वा विण्टिकां कृत्वोपरि सर्वाङ्गीणप्रावृता गच्छन्ति / एतेषु कारणेषु कृत्स्नस्योपधेः प्रावरणं कर्त्तव्यम्। तथा - निरुवहयलिंगमेदे, गुरुगा कप्पंति कारणज्जाए। गेलण्ण-लोय-रोगे, सरीरवेतावडियमादी / / निरुपहतो नाम नीरोगस्तस्य लिङ्गभेदं कुर्वतश्चतुर्गुरुकाः / अथवा निरुपहतं नाम यथाजातलिङ्ग, तस्यभेदे चतुर्गुरु। तस्य च लिङ्गभेदस्येमे भेदाः खंधे दुवार संजति,गरुलद्धंसे य पट्टलिंगदुवे। लहुगो लहुगो यतिसु वि, चउगुरुओ दोसु मूलं तु // स्कन्धे कल्पशीर्षद्वारिकां वा करोति, मासलधुसंयती प्रावरणं करोति, चतुर्लघु / गरुडपक्षिकं प्रावृणोति, अर्धाशकृतं करोति, कटीपट्टकं बध्नाति, एतेषु त्रिष्वपि चतुर्गुरु / गृहस्थलिङ्गं परलिङ्ग वा करोति, द्वयोरपि मूलम्। द्वितीयपदे तु कारणजाते लिङ्गभेदोऽपि कर्तु कल्पते। कुत्रेत्याह-ग्लानत्वं कस्यापि विद्यते। तस्योद्वर्तन-मुपदेशनमुत्थापनं वा कुर्वन् कटीपट्टकं बध्नीयात् / लोचं वा अन्यस्य साधोः कुर्याणः पट्टकं बध्नाति ।(रोगित्ति) कस्यापि रोगिणोऽर्शासि लम्बन्ते, द्वौ वृषणौ वा शूनौ, स कटीपट्टकं बनीयात् / गृहलिङ्गान्यलिङ्गयोरयमपवादः - असिवे ओमोयरिए, रायदुढे व वादिदुद्वे वा। आगाढ अन्नलिंग, कालक्खेवो व गमषं वा / / स्पपक्षप्रान्ते आगाढे अशिवे अन्यलिङ्गं कृत्वा तत्रैवकालक्षेपं कुर्वन्ति, अन्यत्र वा गच्छन्ति। एवं राजद्विष्ट राज्ञि साधूनामुपरि द्वेषमापन्ने, वादिद्विष्ट वा वादपराजितेक्वापिवादिनि व्यपरोपणा-दिकं कर्तुकामे एवंविधे कारणे आगाढे अन्यलिङ्गमुपलक्षणत्वाद् गृहिलिङ्गं कृत्वा कालक्षेपो वा गमनं वा विधेयम् ।बृ०६ उ० / पं०भा०। पं०चू०। पंचा०। पं०सं०। आव०। कल्प० / जीत० / प्रव०। स्था० / (तिन्दुकोद्याने के शीकुमारेण चातुर्यामपञ्चया-मधर्मभेदहेतुप्रश्नकारकेण "अचेलगो य जो धम्मो, जो इमो संतरुत्तरो। देसिओ वद्धमाणेणं, पासेण य महायसा // 1|| उत्त०२३ अ० इत्याचे लक्यधर्मस्य कथं वीरतीर्थे सत्त्वं पार्श्वतीर्थेऽसत्त्वमिति पृष्टो गौतमो विभेदकारणं 'गोयमकेसिज' शब्दे वक्ष्यते) महापद्मस्य भविष्यत्प्रथमतीर्थकरस्य समयेऽप्यचेलकधर्मो भविष्यति / स्था०६ ठा। पञ्चभिः प्रकारैरचेलकः प्रशस्तो भवतिपंचहिं ठाणे हिं अचेलए पसत्थे भवइ / तं जहा- अप्पा पडिलेहा,लाघविए पसत्थे, रूवे वेसासिए, तवे अणुण्णाए, विउले इंदियनिम्गहे। (पञ्चहिं इत्यादि) प्रतीतम् , नवरं, न विद्यन्ते चेलानि वासांसि यस्यासावचेलकः, स च जिनकल्पिकविशेषः, तदभावादेव / तथा स्थविरकल्पिकचाल्पाल्पमूल्यसप्रमाणजीर्णमलिनवसनत्वादिति प्रशस्तः, प्रशंसितस्तीर्थकरादिभिरिति गम्यते / अल्पा प्रत्युपेक्षा अचेलकस्य स्यादिति गम्यं प्रत्युपेक्षणीयं, तथाविधोपधेरभावात् / एवं च न स्वाध्यायादिपरिमन्थ इति 1, तथा लघोर्भायो लाघवं तदेव लाघविकं, द्रव्यतो भावतोऽपि रागविषयाभावात् प्रशस्तमनिन्द्यं स्यात् 2, तथा रूपं नेपथ्यं वैश्वासिकं विश्वास-प्रयोजनमलिप्सुतासूचकत्वात् स्यादिति 3, तथा तप उपकरण-संलीनतारूपमनुज्ञातं जिनानुमतं स्यात् 4, तथा विपुलो महा-निन्द्रियनिग्रहः स्यात् , उपकरणं विना स्पर्शनप्रतिकूल-शीतवातातपादि सहनादिति 5 / स्था०५ ठा०३ उ०। प्रतिमा प्रतिपन्नो वस्त्रत्रयवान् चतुर्थं वस्त्रमन्वेषयन्लब्ध्या च तद् हेमन्ते तस्मिन् जीणे, "अदुवा एगसाडे,अदुवा अचेले लाघवियं आगममाणे तवे से अभिसमण्णागते भवति ति"। 'मरण' शब्दे दर्शयिष्यते / (अचलेस्य निर्ग्रन्थस्य सचेलिकाभिर्निर्ग्रन्थीभिः संवासः 'संयास' शब्दे द्रष्टव्यम्) अचेलगधम्म-पुं०(अचेलकधर्म) अविद्यमानानि जिनकल्पिक