________________ अचित्तमंत 188 - अभिधानराजेन्द्रः - भाग 1 अचेल अचित्तमंत-त्रि०(अचित्तवत्) न विद्यते चित्तमुपयोगो ज्ञानं यस्य / कनकरजतादावचेतने, सूत्र०१ श्रु०१ अ०१ उ०। 'चित्तमंतमचित्तं वा णेव सयं अदिन्नं गिण्हेज्जा' / दश०४ अ०। पा०ा आचा०। अचित्तमहाखंघ-पुं०(अचित्तमहास्कन्ध) उत्कृष्टावगाहने - ऽनन्तप्रदेशिके स्कन्धे, (तत्स्वरूपं 'खंध' शब्दे वक्ष्यते) विशे०। अचित्तसोय(ग)-न० पअचित्तस्रोतस् (क)ब जीवरहितछिद्रे, (अचित्तस्रोतसो भेदास्तत्र शिकं प्रवेश्य शुक्रपुगलनिष्कासनं च 'अंगादाण' शब्देऽदर्शि)। नि०चू०१ उ०। अचियत-त्रि० / देशी०। अप्रीतिकरे / 'अचियतंति वा अणियतंति या एगट्ठ' इति वचनात्। व्य०२ उ०। पिं० अप्रीतौ च। व्य०१ उ०। सूत्र देशीपदमेतत् / बृ०१ उ० / स्त्री० / अप्रीतिमत्याम् , व्य० ७उ०। अचियंतेउरपरधरप्पवेस-पुं०(अचियतान्तःपुरपरगृहप्रवेश) अचियतोऽनभिमतोऽन्तःपुरप्रवेशवत् परगृहप्रवेशोऽन्यतीर्थि-कप्रवेशो येषां ते तथा। अनभिमतपरमतप्रवेशेषुसम्यक्त्यिषु, यथा राज्ञामन्तःपुरे गन्तुं नेष्यते, एवं परतीर्थिकष्वपि यैः प्रवेशो नेष्यते, ते श्रावकाः। सूत्र०२ श्रु०२ अ०।"ऊसियफलिहा अवंगुयदुवारा अचियंतेउरपरघरप्पवेसा चाउद्दसट्ठमुद्दिमुण्ण- मासिणेसुपडिपुण्णं पोसह सम्म अणुपालेमाणा विहरं ति"। २श्रु०२ अ०। अचु(चो)क्ख-त्रि०(अचोक्ष) न०त० / अशुद्धे, तं०। जी०। अचिट्ठण--न०(अचेष्टन) न००। चेष्टाभावे, सर्वथा चेष्टानिरोधे, ध० ३अधि०। अचेयकड-त्रि०(अचेतस्कृत) अचैतन्यकृते, भ०१६ श० २उ०(जीवानामचेतस्कृतकर्मकत्वं 'चेयकड' शब्दे) अचेयण-त्रि०(अचेतन) न०त० / चेतनाविकले, आव०४ अ०। 'अचेयणा' नराधमाः विशिष्टचैतन्याभावात् / प्रश्न०२ आश्र०द्वा०। अचेयण-न०(अचैतन्य) न०त० / चेतनावैकल्ये, "अचैतन्य मजीवता" / द्रव्या०११ अध्या०। अचेल-न०(अचेल) अव्य०। चेलस्याभावोऽचेलम् / जिनकल्पिकादीनामन्येषां सुयतीनां भिन्ने स्फुटितेऽल्पमूल्ये चचेले, प्रव०११३ द्वा० / वस्त्राणां वासगन्धनवीनावदातसुप्रमाणानां सर्वेषां वाऽभावे, स०२२ सम० अचेल(ग)-पुं० [अचेल (क] न विद्यन्ते चेलानि वासांसि यस्याऽसावचेलकः / स्था०५ ठा०३ उ० / नञ् कुत्सार्थे, कुत्सितं वा चेलं यस्यासायचेलकः / प्रव०७८ द्वा० / अल्पकुत्सितचेले, जिनकल्पिके च / आचा०१ श्रु०६ अ०२ उ०। सदसचेलत्वेन तस्य द्वैविध्वम् - दुविहो होति अचेलो,संताचेलो असंताचेलोय। तित्थगर असंत चेला, संताचेला भवे सेसा॥ द्विविधो भवत्यचेलः-सदचेलो असदचेलश्च / तत्र तीर्थकरा असदचेला देवदूष्यपतनानन्तरं सर्वदैव तेषां वस्त्राभायात् / शेषाः सर्वेऽपि जिनकल्पिकादिसाधवः सदचेलाः, जघन्यतोऽपि रजोहरणमुखवस्त्रिकासम्भवात् / बृ०१ उ० / आह- यद्येवं ततः कथममी अचेला भण्यन्ते?, सत्यम् / सति च चेलेऽचेलकत्वस्यागमे लोके च रूढत्वात्। एतदेवाहसदसंतचेलगोऽचेलगो य जं लोगसमयसंसिद्धो। तेणाऽचेला मुणिओ, संतेहि जिणा असंतेहिं / / सचासच सदसती चेले यस्यासौ सदसचेलो यद्यस्माल्लोके समये चाऽचेलकः संसिद्धः प्रसिद्धः। चशब्दः प्रस्तावनायाम, साच कृतैय। तेन तस्मादिह मुनयः सामान्यसाधवः सद्भिरेव चेलैरुपचारतोऽचेला भण्यन्ते। जिनास्तु तीर्थकरा असद्भिश्वे-लैमुख्यवृत्त्या अचेला व्यपदिश्यन्ते। इदमुक्तं भवति- इहाचेलत्वं द्विविधम्- मुख्यमुपचरितं च / तत्रेदानी मुख्यमचेलत्वं संयमोपकारिन भवत्यत औपचारिकं गृह्यते, मुख्यं तु जिनानामेवासीदिति। इदमेवौपचारिकमचेलत्वं भावयतिपरिसुद्ध जुन्नकुत्थीयं थोवाऽनिययमोगमोगेहिं। मुणिओ मुच्छारहिया, संतेहिं अचेलया होति / / मुनयः साधवो मूच्र्छारहिताः सद्भिरपिचेलैरुपचारतोऽचेलका भवन्ति। कथम्भूतै चेलै रित्याह-परिसुद्धेति, लुप्तविभक्तिकदर्श-नात्, परिशुद्ध रेषणीयः, तथा जीर्णबहुदिवसः, कुत्सितै रसारैः स्तोकैर्गणनाप्रमाणतो हीनैस्तुच्छैा (अनियतभोगभोगेहिं ति) अनियतभोगेन कादाचित्कसेवनेन भोगः परिभोगो येषां तानि तथा तैरेवं भूतैश्वेलैः सद्विरप्युपचारतोऽचेलका मुनयो भण्यन्ते / तथा 'अन्नभोगभोगेहिं ति' इत्येवमपि योज्यते, ततश्च लोकरूढप्रकारादन्यप्रकारेण भोगः आसे वनं, प्रकारलक्षणस्य मध्यमपदस्य लोपादन्यभोगः तेनान्यभोगेन भोगः परिभोगो येषां तानि तथा तैरप्येवंभूतैश्च लैरचेलकत्वं लोके प्रसिद्धमेव, यथा-कटीवाससा वेष्टितशिरसो जलावगाढ पुरुषस्य साधोरपि कच्छाबन्धाभावात् कूर्पराभ्यामग्रभागः, एवं चोलपट्टकस्य धारणात् मस्तकस्योपरि प्रावरणाद्यभावाच लोकरूढप्रकारादन्यप्रकारेण चेलभोगो द्रष्टव्यः। तदेवं 'परिशुद्धजुन्नकुत्थिय' इत्यादिविशेषणविशिष्टः सद्भिरपि चेलैस्तथाविधवस्त्रकार्याकरणात्तेषु मूर्जाभावाच मुनयोऽचेलकाव्यपदिश्यन्त इतीह तात्पर्यम्। आह-ननुचेलस्यान्यथापरिभोगेण किमचेलत्वव्यपदेशः ___ वापि दृष्टः? इत्याशय तदुपदर्शनार्थमाह - जह जलमवगाहंतो, बहुचेलो वि सिरवेढियकडिल्लो / मण्णइ नरो अचेलो, तह मुणिओ संतचेला वि || जीर्णादिभिरपि वस्त्रैरचेलकत्वं लोके रूढमेवेति भावयतितह थोव जुन्नकुत्थिय-चेलेहिं वि भन्नए अचेलो त्ति / जह तुर सैलिय ! अप्पय, मे पोत्तिं नग्गिया वत्ते // इयमपि सुगमा, नवरं, जह-तुरेत्यादिदृष्टान्तः। यथेह क्यापि योषित् कटीवेष्टितजीर्णबहुछिदैकशाटिका कञ्चित्कोलिकं वदति- त्वरस्व भोः शैल्पिक ! शीघ्रो भूत्वा मदीयपोत्तां शाटिकां निर्माय्य ददस्व समर्पय, नग्निका वर्तेऽहम्, तदिह सवस्त्रायामपि योषिति नाग्न्यवाचकशब्दप्रवृत्तिः / विशे०। अथ तत्रैवोपनयमाहजुण्णेहि खंडिएहि य, असव्वतणुपाउतेहि ण य णिचं / संतेहि विणिग्गंथा, अचेलगा होंति चेलेहिं / /