________________ अचित्त 186 - अभिधानराजेन्द्रः - भाग 1 अचित्त हरियालमणोसिलपिप्पली अखजूर मुद्दिआ अमया। आइन्नमणाइन्ना, ते विहु एमेव नायव्वा // 2 // हरितालं मनःशिला पिप्पली च ख—र एते प्रसिद्धाः, मृद्रीका द्राक्षा, अभया हरीतकी, एतेऽप्येवमेव लवणमिव योजनशतगमनादिभिः कारणैरचित्तीभवन्तो ज्ञातव्याः। परमेकेऽत्राचीर्णा अपरेऽनाचीर्णाः। तत्र पिप्पलीहरीतकीप्रभृतय आचीर्णा इति गृह्यन्ते / खजूरमृद्वीकादयः पुनरनाचीर्णा इति न गृह्यन्ते // 2 // अथ सर्वेषां सामान्येन परिणमनकारणमाहआरुहणो ओरुहणे, णिसिअण गोणाइणं च गाउम्हा / भोमाहारच्छेए, उवक्कमेणं च परिणामो // 3 // शकटादिषु लवणादीनां यदि भूयो भूय आरोहणमवरोहणं च तथा यत् तस्मिन् शकटादौ लवणादिभारोपरि मनुष्या निषीदन्ति तेषां गवादीनां च यः कोऽपि विष्टादिगात्रोष्मा, तेन वा परिणामो भवति। तथा यो यस्य भौमादिकः पृथिव्यादिक आहारस्तव्यवच्छेदे तस्य परिणामः, उपक्रमःशस्त्रम्, तच त्रिधास्वकायपरकायतदुभय-रूपम् / तत्र स्वकायशस्त्रं यथा-लवणोदकं मधुरोदकस्य, कृष्णभूमं पाण्डुभूमस्य। परकायशस्वं यथा अनिरुदकस्य,उदकं चाग्नेरिति / तदुभयशस्वं यथाउदकं (कर्दम) शुद्धोदकस्येत्यादि / एवमादीनि सचित्तवस्तूनां परिणमनकारणानि मन्तव्यानि // 3 // उप्पलपउमाई पुण, उण्हे दिण्हाइं जाम न धरिति। मोग्गरगजूहिआओ, उण्हे छूढा चिरं हुंति // 5 // मगदंतिअपुप्फाइं, उदकच्छूढाइं जाम न धरिंति। उप्पलपउमाई पुण,उदए छुढा चिरं हुंति // 5 // उत्पलानि पद्मानिच उदकयोनिकत्वादुष्णे आतपेदत्तानियाम प्रहरमात्र कालं न घ्रियन्ते नावतिष्ठन्ते, किन्तु प्रहरादर्वागेवाचित्ती- भवन्ति / मुद्गरकानि मगदन्तिकापुष्पाणि यूथिकापुष्पाणि च उष्णयोनिकत्वादुष्णे क्षिप्तानि चिरमपि कालं भवन्ति, सचित्तान्येव तिष्ठन्तीति भावः / मगदन्तिकापुष्पाणि उदके क्षिप्तानि याममपि न ध्रियन्ते, उत्पलपद्मानि पुनरुदके क्षिप्तानि चिरमपि भवन्ति // 4 // 5 // पत्ताणं पुप्फाणं, सरडुफलाणं तहेव हरिआणं / विटमि मिलाणम्मि य, णायव्वं जीवविप्पजदं / / 6 / / पत्राणां पुष्पाणां शरडुफलानामबद्धास्थिकफलानां वास्तुलादीनां सामान्यतस्तरुणवनस्पतीनां वृन्ते मूलनाले म्लाने सति ज्ञातव्यं जीवविप्रयुक्तमेतत्पत्रादिकमिति श्रीकल्पवृत्तौ, शाल्यादिधान्यानां तु श्रीपञ्चमाङ्गे षष्ठशतकसप्तमोद्देशके सचित्ताचित्तत्वविभाग एवमुक्तः, स च 'जोणि' शब्दे दर्शयिष्यते कसिस्याचित्तता त्रिवर्षानन्तरं स्यात्। यदुक्तं श्रीकल्पबृहद् भाष्ये सेडुगं तिवरिसाइ गिण्हति। सेडुकं त्रिवर्षातीतं विध्वस्तयोनिकमेव कल्पते। सेडुकः कर्पास इति। तवृत्तौ पिष्टस्य तु मिश्रताद्येवमुक्तं पूर्वसूरिभिः "पण-दिनमीसो लुट्टो, अचालिओ सावणे अभद्दवए। चउआसोएकत्तिअमगसिरपोसेसु तिन्नि दिणा ||1|| पणपहरमाह फग्गुण, पहरा चत्तारि चेत्तवेसाहे। जिहासाढे तिपहर, तेण परं होइ अचित्तो" ॥२चालितस्तु मुहूर्तादूर्ध्वमचित्तः, तस्य चाचित्तीभूतानन्तरं विनशनकालमानं तु शास्त्रे न दृश्यते, परं / द्रव्यादिविशेषेण वर्णा-दिविपरिणामभवनं यावत् कल्पते / उष्णनीरंतु त्रिदण्डोत्कलि-तावधि मिश्रम् / यदुक्तं पिण्डनियुक्तौ - उसिणोदगमणुवत्ते, तिदंडे वासे य पडिअमित्तम्मि। मोत्तूणादेसतिगं, चाउलउदगं बहुपसन्नं // अनुवृत्तेषु त्रिदण्डेषूत्कालेषु जलमुष्णं मिश्र, ततः परमचित्तम् / तथा वर्षे वृष्टौ पतितमात्रायांग्राभादिषु प्रभूतमनुष्यप्रचारभूमौ यज्जलं तद्द्यावन्न परिणमति तावन्मिश्रम्, अरण्यभूमौ तु यत् प्रथमं पतति तत्पतितमात्र मिश्र, पश्चानिपतत्सचित्तम्। आदेशत्रिकं मुक्त्वा तन्दुलोदकमबहुप्रसन्न मिश्रम्, अतिस्वच्छीभूतं त्वचित्तम् / अत्र त्रय आदेशाः / यथा केचिद्वदन्तितण्डुलोद के तण्डुलप्रक्षालन-भाण्डादन्यत्र भाण्डे क्षिप्यमाणे त्रुटित्वा भाण्डपाचे लग्ना बिन्दवो यावन्न शाम्यन्ति तावन्मिश्रम्। अपरेतथैव याता यावद् बुद्रुदान शाम्यन्ति तावत् / अन्ये तु यावत् तण्डुला न सिद्ध्यन्ति तावत् / एते त्रयोऽप्यादेशा रूक्षेतरभाण्डपचनाग्निसम्भवादिभिः, एषु कालनियमस्याभावात्, ततोऽतिस्वच्छीभूतमेवाचित्तम् / तिव्वोदगस्स गहणं, केइ भाणेसु असूह पडिसेहो। गिहिमायणेसु गहणं, ठिअवासे मीसग छारो // 2 // तीव्रोदकं हि धूमधूमीकृतदिनकरकरसम्पर्क सोष्मतीव्र सम्पदिचित्तम्, अतस्तद्ग्रहणे न काचिद्विराधना / केचिदाहुः-स्वभाजनेषु तद्ग्राह्यम् / अत्राचार्यः प्राह-अशुचित्वात्स्वपात्रेषु ग्रहणप्रतिषेधः, ततो गृहिभाजने कुण्डिकादौ ग्राह्यम् / वर्षति मेघे च तन्मिश्रम् , ततः स्थिते वर्षेऽन्तर्मुहूर्तादूर्ध्व ग्राह्यम्। जलं हि केवलं प्रासुकीभूतमपि प्रहरत्रयादूज़ भूयः सचित्तं स्यादतस्तन्मध्ये क्षार क्षेप्यः / एवं स्वच्छताऽपि स्यादिति। पिण्डनियुक्तिवृत्तौ तन्दुलधावनोदकानि प्रथमद्वितीयतृतीयान्यचिरकृतानि मिश्राणि, चिरं तिष्ठन्ति त्वचित्तानि, चतुर्थादिधावनानि तु चिरं स्थितान्यपि सचित्तानि / प्रासुकजलादिकालमानमेयमुक्तं प्रवचनसारोद्धारादौ-"उसिणोदगं तिदंडु क्वालिअं फासुअं जलं जइ कप्पं / नवरि गिलाणाइकए, पहरतिगोवरि वि धरिअव्वं / / 1 / / जायइ सचित्तपासे, गिम्हासुउपहरपंचगस्सुवरि।चउपहरुवरि सिसिरे, वासासु जलं तिपहरुवरि // 2 // तथाऽचेतनस्यापि कङ्कडुकमु द्रहरीतकीकुलिकादेरविनष्टयोनिरक्षणार्थं निःशूकतादि परिहारार्थ च न दन्तादिभिर्भज्यते / यदुक्तं श्रीओधनियुक्तिपञ्चसप्ततितम-गाथावृतौअचित्तानामपि केषाञ्चिन्स्पतीनामविनष्टा योनिः स्याद् गुडूचीमुद्रादीनाम् / तथाहि- गुडुची-शुष्काऽपि जलसेकात्तादात्म्यं भजतीति दृश्यते, एवं ककडुकमुगादिरपि, अतो योनिरक्षणार्थमचेतनयतना न्यायवत्येवेति। ध०२ अधि० बृ०। नि००। पिं०। एतदेवाऽन्यच सङ्ग्रहेणअह एयाणं जं जं, कालपमाणं भणामि सव्वेसिं। भत्तं सिद्धं वियलं, कट्ठदलं हिंगुसहियं जं // 2 // पुष्फफलपत्तसायं,बीयच्छाली विणा य आमफलं / मंडपूवाइयं जललप्पसीवडीयपप्पडया // 63|| चउपहरमाणमेसिं, ओयणमंडवारजामजगराए। तह तक्करवलछुभिए, अहियं परिमाणमवि वुत्तं / / 64|| दहितक्करराईणं, कयसागाण सोलजामंच। वासासु पक्ख हेमंत मासुसिण्णु वीसदिणमाणं // 65 / / पक्कन्नयकालो विउ, विण्णेओ कुलिकोए पक्कन्नो।