SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ अग्निहोत्त 179 - अभिधानराजेन्द्रः - भाग 1 अग्निहोत्त तत्फलतयाऽभिहित इत्याशच्याह-यतो यस्मात्कारणात् सूत्रमर्थसूचकं वाक्यं शिवधर्मोत्तरे शिवधर्माभिधाने पराभिमते शैवागमविशेषे, हिरिति वाक्यालंकारे / अद एतद्वक्ष्यमाणमिति / अतो भवदभ्युपगतशास्त्र मोक्षस्य ज्ञानादिफलतयोक्तत्वान्न मोक्षार्थिना दीक्षितेनानधिकृता द्रव्याग्निकारिका कार्येति भावार्थ इति // 2 // तदेव सूत्रं दर्शयन्नाहपूजया विपुलं राज्यमग्निकार्येण संपदः / तपः पापविशुद्ध्यर्थं ज्ञानं ध्यानं च मुक्तिदम्॥३॥ पूजया देवतायाः पुष्पाद्यर्चनलक्षणया, न तु तदन्यया, तदन्यस्यास्तपोज्ञानरूपत्वेन पापविशुद्धिमोक्षयोरेव संपादकत्वाद् / विपुलं विस्तीर्ण राज्यं राजभावो भवति, तत्कारकस्येति गम्यते / तथा अग्निकार्येण अग्नावग्निना वा कार्य कृत्यमग्निकार्यम्, तेन द्रव्याऽग्निकारिकयेत्यर्थः, न भावाग्निकारिकया, तस्या ध्यानरूपत्वेन मुक्तिसाधकत्वात् / संपदः समृद्धयो भवन्तीति गम्यम् / तथा तपोऽनशनादि, पापविशुद्ध्यर्थमशुभकर्मक्षयाय भवति / तथा ज्ञानमयबोधविशेषः, ध्यानं च शुभचित्तैकाग्रतालक्षणम् , च शब्दः समुचये, मुक्तिदं मोक्षप्रदं भवतीति शिवधर्मोत्तरग्रन्थसूत्रार्थ इति // 3 // एवं तावत् पराभ्युपगमेनैव द्रव्याग्निकारिकाकरणं दीक्षितस्य दूषितम्, अथतस्यैव पूजा पुनरग्निकारिकां च प्रकारान्तरेण दूषयन्नाहपापं च राज्यसंपत्सु, संभवत्यनघं ततः। नतद्धत्वोरुपादान-मिति सम्यग् विचिन्त्यताम्॥४॥ न केवलं मुमुक्षोरग्निकारिकाकरणमपार्थकम् , पापं चाशुभं कर्म च, राज्यसंपत्सुनरपतित्वसमृद्धिषु पूजाग्निकारिकाकरणानन्तरं फलभूतासु सतीषु, संभवति संजायते / यत एवं ततस्तस्मादनघं निरवद्यं ते नैव भवति, तद्धत्वोः राज्यसंपत्कारणयोः पूजाग्नि-कारिकारूपयोरुपादानमाश्रयणमिति / एतदनन्तरं पूजाग्निका-रिकयोरुपादानस्य सपापत्वं सम्यक् स्वसिद्धान्ताविरोधेन विचिन्त्यतां पर्यालोच्यतामिति / सुपर्यालोचितकारिणो हि भवन्ति मुमुक्षव इति // 4|| राज्य संपत्सु पापं भवतीत्युक्तं तदेवाश्रित्याक्षेपः क्रियते, ननु राज्य संपदावे भवतु नाम पापम् , दानादिना तु तस्य शुद्धिर्भविष्यतीत्याशङ्कयाहविशुद्धिश्चास्य तपसा, न तु दानादिनैव यत्। तदियं नान्यथा युक्ता, तथा चोक्तं महात्मना / / 5 / / विशोधनं विशुद्धिः, सा पुनरस्य राज्यादिजन्यपापस्य तपसा, अवधारणस्येह संबन्धात्तपसैव अनशनादिनैव, तपः पापविशुद्ध्यर्थमिति वचनात्, न तु दानादिना, नपुन नहोमादिना, दानेन भोगानाप्नोतीतिवचनात्।तत् कथं दीक्षितस्य पूजाग्निका-रिके युक्ते? इति / इह च द्रव्याग्निकारिकाया एव मुख्यं दूषणं, पूजायास्तु प्रासनिकमित्यग्निकारिकाया एव निगमनमाह-(तदियं नान्यथा युक्तेति) यस्मात् मुमुक्षोर्व्यर्थयं पापसाधनसंपद्धे तुभूता च, तत्तस्मादियमग्निकारिका, नैव, अन्यथा धर्मध्यानाग्निकारिकायाः प्रकारान्तरापन्ना, द्रव्याग्निकारिकेत्यर्थः, युक्ता संगतेति / विशोधनार्हपापसंपादकसंपन्निमित्तत्वेनद्रव्याग्निकारिकाया अकरणीयत्वं व्यासस्यापिन्यायतः संमतमिति दर्शयन्नाह- तथा चोक्तं महात्मनेति। तथा च यथाऽस्मदुक्तार्थसंवादो भवति, तथैव उक्तमभिहितं, महात्मना परमस्वभावेन, व्यासेनेति शेषः / इह च यन्मिथ्यादृष्टरपि व्यासस्य महात्मत्वाभिधानमाचार्येण कृतं, तत्परसंमतानुकरणमात्रमात्मनो माध्यस्थ्याविष्करणार्थमिति न दुष्टम् / संमतश्च परस्य माहात्म्यतया व्यासः। अत एव च तद्वचनं स्वपक्षेपरप्रीतिजननायोपन्यस्तमिति / / 5 / / तदेवाहधर्मार्थ यस्य वित्तेहा, तस्यानीहा गरीयसी। प्रक्षालनाद्धि पङ्कस्य, दूरादस्पर्शनं वरम्॥६॥ धर्मार्थ धर्मनिमित्तं, यस्य पुंसः, वित्तेहा द्रव्योपार्जनचेष्टा कृषिवाणिज्यादिका, तस्यपुरुषस्य, अनीहाअचेष्टा वित्तानु-पार्जनमेव, गरीयसी श्रेयसितरा, सङ्गततरेत्यर्थः / अयमभिप्रायः-वित्तार्थ चेष्टायामवश्यं पापं भवति, तचोपार्जितवित्तवितरणेनाऽवश्यं शोधनीयं भवति। एवं च वित्तार्थमचेष्टेच वरतरा, वित्तवितरणविशोध्यपापाभावात्, परिग्रहारम्भवर्जनात्मकत्वेन चेष्टाया एव च धर्मत्वादिति / अत्रार्थे दृष्टान्तमाह- प्रक्षालनाद् धावनात् सकाशाद् हिर्यस्मात् , पतस्याशुचिरूपकर्दमस्य दूराद् विप्रकर्षादस्पर्शनमश्लेषणमेव, वरं प्रधानमिति / इदमुक्तं भवति-यदि पड़े करचरणादिरवयवः क्षिप्त्वाऽपि प्रक्षालनीयस्तदा वरमक्षिप्त एव, एवं यद्यग्निकारिकां विधाय संपद उपार्जनीयाः तज्जन्यपातकं च पुनर्दानेन शोधनीयं, तदा सैवाग्निकारिका वरमकृतेति / प्रयोगश्चेह-न विधेया मुमुक्षुणा द्रव्याग्निकारिका, तत्संपाद्यस्य कर्मपङ्कस्य पुनःशोधनीयत्वात्, पादादेः पङ्कक्षेपवदिति। एवं तर्हि गृहस्थेनापि पूजादि न कार्य स्यात्, नैवम्,यतो जैनगृहस्था न राज्यादिनिमित्तं पूजां कुर्वन्ति / न च राज्याद्यावर्जित-मवद्यं दानेन शोधयिष्याम इति मन्यन्ते, मोक्षार्थमेव तेषां पूजादौ प्रवृत्तेः। मोक्षार्थितया च विहितस्यागमानुसारिणो वीतरागपूजा-देर्मोक्ष एव मुख्यं फलम् , राज्यादि तु प्रासङ्गिकम् / ततो गृहिणः पूजादिकं नाविधेयम् , दीक्षितेतरयोश्च अनुष्ठानस्यानन्तर्यपारंपर्यकृत एव फले विशेष इति // 6 // दीक्षितस्यापि संपदर्थित्वे सति युक्ता द्रव्याग्निका रिकेत्याशङ्कानिराकरणायाह - मोक्षाध्वसेवया चैताः, प्रायः शुभतरा भुवि / जायन्ते ह्यनपायिन्यः,इयं सच्छास्त्रसंस्थितिः // 7 // मोक्षो निर्वाणम्, तस्याध्वा मार्गः सम्यग्दर्शनज्ञानचरणलक्षण-स्तस्य से याऽनुष्ठानं मोक्षाध्वसेवा, तया, चशब्दः पुनःशब्दार्थः / ततश्चाग्निकारिकायाः कार्यभूताः संपदः पापहेतुतया अशुभाः, मोक्षाध्यसेवया पुनः शुभतरा भवन्तीत्यर्थो लभ्यते / अवधारणार्थो वा चशब्दः / तेन मोक्षाध्वसेवयैव, नाग्निकारिकाकरणत एता अनन्तरोदिता अग्निकारिकाफलभूताः संपदः, प्रायो बाहुल्येन। प्रायोग्रहणं च कस्यापि मोक्षाध्वसेवाभव एव निर्वाणभावान्नजायन्त एवेतिज्ञापनार्थम्। शुभतरा अग्निकारिकाकरणेभ्यः सकाशात्प्रशस्ततराः। भुवि पृथिव्यां, जायन्ते भवन्ति / हिशब्दो यस्मादर्थः, अनपायिन्यः पापवर्जिताः / यस्मान्मोक्षाध्वसेवया प्रशस्ततराः, अनपायिन्यश्च संपदो जायन्ते, तस्मादियमग्निक्रिया नान्यथा युक्तेति प्रक्रमः / मोक्षाध्वसेवया शुभतरा एता भवन्तीति कथमिदमवसितमित्याशङ्कायामाह-इहेयमनन्तरोदिता सच्छा. वसं स्थितिरविसंवादकागमव्यवस्था, यदाहमोक्षमार्गप्रवृत्तस्य, महाभ्युदयलब्धयः / संजायन्तेऽनुषङ्गेण, पलालं सत्कृषाविव ||1|| मुमुक्षूणां च शास्त्रं प्रमाणमेव / यदाऽऽह- न मानमागमादन्यद, मुमुक्षूणां हि विद्यते। मोक्षामार्गे ततस्तत्र, यतितव्यं मनीषिभिः।।२।। इति // 7 //
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy