________________ अगारधम्म 161 - अभिधानराजेन्द्रः- भाग 1 अगिलाय अगारमपि गृहमप्यावसन् गृहवासमपि कुर्वन्नरो मनुष्यः (अणुपुत्वं ति ) आनुपूर्व्या श्रवणधर्मप्रतिपत्त्यादिलक्षणया प्राणिषु यथाशक्त्या सम्यग्यतः संयतस्तदुपमर्दान्निवृत्तः, किमिति? यतः समता समभावः आत्मपरतुल्यता, सर्वत्र यतौ गृहस्थेच यदि चैकेन्द्रियादौ श्रूयतेऽभिधीयते आर्हते प्रवचनेतांचकुर्वन् सगृहस्थोऽपिसुव्रतःसन् देवानांपुरन्दरादीनां लोकं स्थानं गच्छेत्, किं पुनर्यो महासत्त्वतया पञ्चमहाव्रतधारी यतिरिति / "सेओ अगारवासो त्ति, इई भिक्खू न चिंतए"। उत्त०२ अ०॥ सुप्रातिवेश्मिके स्थाने, नातिप्रकटगुप्तके / अनेकनिर्गम द्वार-गृहस्य विनिवेशनम् // 7 // पापभीरुकताख्याता, देशाचारप्रपालनम् / सर्वेष्वनपवादित्वं, नृपादिषु विशेषतः।।१।। आयोचितव्ययो वेषो, विभवाद्यनुसारतः। मातृपित्रर्चनं सङ्गः, सदाचारैः कृतज्ञता। अजीर्णेऽभोजनं काले, भुक्तिः सम्पदलोलता। वृत्तस्थज्ञानवृद्धार्हा, गर्हितेष्वप्रवर्तनम् // 10 // भर्तव्यभरणं दीर्घ-दृष्टिधर्मश्रुतिर्दया। अष्टबुद्धिगुणैर्योगः, पक्षपातो गुणेषु च // 11 // सदाऽनभिनिवेशश्च, विशेषज्ञानमन्थहम् / यथार्हमतिथौ साधौ, दीने च प्रतिपन्नता // 12 // अन्योन्यानुपघातेन, त्रिवर्गस्यापि साधनम् / अदेशकालाचरणं, बलाबलविचारणम् / / 13 / / यथार्थलोकयात्रा च, परोपकृतिपाटवम्। हीः सौम्यता चेति जिनैः, प्रज्ञप्तो हितकारिभिः" ||14|| (दशभिः कुलकम्) तत्र तयोः सामान्यविशेषरूपयोगृहस्थ धर्मयोर्वतु मुक्रान्तयो मध्ये समान्यतो गृहिधर्म इति अमुना प्रकारेण हितकारिभिः परोपकरणशीलैर्जिनरर्हद्भिः प्रज्ञप्तः प्ररूपित इत्यनेन संबन्धः / ध० १अधि०। (न्यायार्जितधनादिपदानामर्थः 'णायज्जिय' शब्दे) अगारबंधण-न०(अगारबन्धन) क०स०। पुत्रकलार्धानधान्या-दिरूपे गृहपाशे, आचा०१ श्रु०५ अ०४ उ०॥ "एवं समुद्विए भिक्खू, वोसिज्जा गारबंधणं'। सूत्र०१ श्रु०३ अ०३ उ०। अगारव-त्रि०(अगौरव) न०ब० ऋद्ध्यादिगौरववर्जिते. प्रश्न०५ संव० द्रा०॥ अगारवास-पुं०(अगारवास) गृहवासे, "अगारवासमज्झे वसित्ता"। म० 15 श०१ उ०॥ इहलोग दुहावहं विऊ, परलोगे य दुहं दुहावहं। विद्धंसणधम्मेव तं, इति विजं कोऽगारमावसे? // 10 // (इहलोग इत्यादि) इहाऽस्मिन्नेव लोके हिरण्यस्वजनादिकं दुःखमावहति, (विऊ ति) विद्याः जानीहि / तथाहि "अर्थानामर्जने दुःखमर्जितानां च रक्षणे / आये दुःखं व्यये दुःखं, धिगर्थ दुःखभाजनम्" ||1|| तथाहि-"रेवापयः किसलयानिच सल्ल-कीनां विन्ध्योपकण्ठविपिनं स्वकुलं च हित्वा / किं ताम्यसि द्विप ! गतोऽसि वशं करिण्याः स्नेहो निबन्धनमनर्थपरम्परायाः" ||1 // परलोके च हिरण्यस्वजनादिममत्वापादितकर्मजं दुःखं भवति, तदप्यपरं दुःखमावहति, तदुपादानकर्मोपादानादिति भावः / तथैत दुपार्जितमपि विध्वंसनधर्म विशरारुस्वभावं गत्वरमित्यर्थः, इत्येवं विद्वान्जानन् कः सकर्णोऽगारवासं गृहवासमावसेत्, गृहवासं वाऽनुबध्नीयादिति? उक्तं च "दाराः परिभवकाराः, बन्धुजनो बन्धनं विषं विषयाः। कोऽयं जनस्य | मोहो ? ये रिपवस्तेषु सुहृदाशा" ||1|| सूत्र०१ श्रु०२ अ०२ उ०। गारं पि अ आवसे नरे, अणुपुव्वं पाणेहि संजए। समता सव्वत्थ सुव्वते, देवाणं गच्छे स लोगयं // 13 // अगारि(ण)-पुं०(अगारिन्) गृहस्थे, सूत्र०१श्रु०१४ अ०। आचा०। का"अगारिणो विसमणा भवंतु, सेवंति उते वितहप्पगारं'। सूत्र०२ श्रु०६ अ०। अगारिकम्म-न०(अगारिकर्मन्) अगारिणां कर्माऽनुष्ठानम्। गृहस्थानां सावध आरम्भे, जातिमदादिकेच! "णिक्खम्म से सेवइ गारिकम्म,ण पारए होइ विमोयणाए" सूत्र०१ श्रु०१३ अ०। अगारियंग- न०(अगार्यङ्ग) अगारिणां गृहस्थानामङ्ग कारणम् / जात्यादिके मदस्थाने, सूत्र०१ श्रु०१३ अ०। अगारी- स्त्री०(अगारी) गृहस्थस्त्रियाम् , व्य०१ उ०। अगारीपडि बंधं- पुं०(अगारीप्रतिबन्ध) अगार्याः प्रतिबन्धोऽगारिप्रतिबन्धः। यत्रागार्या विषये आत्मपरोभयसमुत्था दोषाइत्वेवंरूपे गृहियोषित्प्रतिबन्धे, व्य०४ उ०। अगाह-त्रि०(अगाध) गम्भीरे, स्था०४ ठा०४ उ०। अगिज्झ-त्रि०(अग्राह्य) हस्तादिना ग्रहीतुमशक्ये "तओ अगिज्झा पण्णत्ता, तं जहा-समए पएसे परमाणू"। स्था०३ ठा०२ उ०। अनाश्लेष्ये,"अणेगणरभुयाऽगिज्झे"। औ०। अप्रमेये, रा०! अगण्हियव्व-त्रि०(अग्रहीतव्य) न ग्रहीतव्योऽग्रहीतव्यः। हेये, उपेक्षणीये च / उभयोरपि कार्यासाधकत्वात् / 'गज्झो जो कज्जसाहगो होइ" इति कार्यसाधकस्यैव ग्राह्यत्वोक्तेः "णायम्मि गेण्हियव्वम्मि, अगेण्हियव्वम्मि चेव अत्थम्मि" उत्त०१ अ०। आव०। अगिद्ध-त्रि०(अगृद्ध) न०त० / अनध्युपपन्ने अमूर्छिते, "अगिद्धे सद्दफासेसु, आरंभेसु अणिस्सिए'। सूत्र०१ श्रु० अ० "उवहिम्मि अमुच्छिए अगिद्धे अण्णायउंछं पुलणिप्पुलाए" अगृद्धः प्रतिबन्धाभावेन / दश०१० अ०। अगिलाइ-स्त्री०(अग्लानि) अखेदे, स्था०८ ठा०। भला "अगिलाइ अणाजीवी, णायव्वो वीरियायारो'! पंचा०१५ विव० / अगिलाणाम णो मनोवाक्काएहिं अजज्जरमाणेत्यर्थः / नि०चू०१ उ०॥ अगिला-स्त्री०(अग्लानि) निर्जरार्थमात्मोत्साहे, व्या०४ उ० / गिलाव्याख्यानार्थमाह-"निववेटिव कुणंतो, जो कुणई एरिसा गिलाहोइ / पडिलेहुट्ठवणाई,वेयावडियं तुपुव्युत्तं " // 1 // यो नाम नृपवेष्टि राजवेष्टिमिव कुर्वन् वैयावृत्त्यं करोति एतादृशी भवति गिलाग्लानिस्तस्याः प्रतिषेधोऽगिला / तया करणीयं वैयावृत्त्यम् किं तदित्यत आहप्रतिलेखोत्थापनादिकं भाण्डस्य प्रत्युपेक्षणमु-पविष्टस्योत्थापनमादिशब्दात् भिक्षानयनादिपरिग्रहः, एतत्पूर्वोक्तं वैयावृत्त्यम् / व्य०१ उ०। "अगिलाएणं भत्तेणं पाणेणं विणएणं वेयावडियं करेइ" भ०५ श०४ उ०। अगिलाय-पुं०(अग्लान) अग्लाने "कुज्जा भिक्खू गिलाणस्स, अगिलाए समाहिए'' भिक्षुः साधुग्लानस्य वैयावृत्त्यमग्लानोऽपरिश्रान्तः कुर्यात्, सम्यक् समाधिना ग्लानस्य