________________ अगरुलहुय अगरुलहुणाम 159 - अभिधानराजेन्द्रः - भाग 1 कार्मणादीनि (समया कम्माणि य चउत्थपएणं ति) समया अमूर्ताः कर्माणि च कार्मणवर्गणात्मकानीत्यगुरुलघुत्वमेषाम् / (दव्वलेसं पडुच तइयपएणं ति) द्रव्यतः कृष्णलेश्या औदारिकादिशरीरवर्णः, औदारिकादिकञ्च गुरुलध्विति कृत्वा गुरुलघ्वित्यनेन तृतीयविकल्पेन व्यपदेश्यः। भावलेश्या तु जीवपरिणतिः, तस्याश्चामूर्त्तत्वादगुरुलध्यित्यनेन व्यपदेश इत्यत आह (भावलेसं पडुच चउत्थपएणं ति) (दिट्ठीदसणेत्यादि) दृष्ट्यादीनि जीव पर्यायत्वेनागुरुलघुत्वादगुरु लघुलक्षणेन चतुर्थपदेन वाच्यानि। अज्ञानपदं विह ज्ञानविपक्षत्वादधीतम् , अन्यथा द्वारेषु ज्ञानपदमेव दृश्यते (हेडिल्ले त्ति) औदारिकादीनि / (तइयपएणं ति) गुरु-लघुपदेन गुरुलघुवर्गणात्मकत्वात् / (कम्मणा चउत्थपएणं ति) अगुरुलघुद्रव्यात्मकत्वात् कार्मणशरीराणां मनोयोगवाग्योगौ चतुर्थपदेन वाच्यौ, तद्द्रव्याणामगुरुलघुत्वात् , काययोगः कार्मणवर्जस्तृतीयेन गुरुलधुत्वात्तद् द्रव्याणामिति / (सव्व- दव्वेत्योदि) सर्व्वद्रव्याणि धर्मास्तिकायादीनि सर्वप्रदेशास्तेषामेव निर्विभागा अंशाः सर्वपर्यवा वर्णोपयोगादयो द्रव्यधर्माः, एते पुद्गलास्तिकायवद्व्यपदेश्याः गुरुलघुत्वेनागुरुलघुत्वेन वेत्यर्थः / यतः सूक्ष्माण्यमूर्तानि च द्रव्याण्यगुरुलघूनि, इतराणि तु गुरुलधूनि / प्रदेशपर्यवास्तु तत्तद्र्व्यसम्बन्धत्वेन तत्तत्स्वभाव इति / भ०१।०६ उ०। संप्रतिगुरुलघुद्रव्याणामगुरुलघुद्रव्याणां चाल्पबहुत्वेन वर्गणाश्चिन्त्यन्ते तत्र बादरस्कन्धेषु जघन्यमध्यमोत्कृष्टभेदभिन्नेष्वेकोत्तरवृद्ध्या प्रवर्द्धमाना वर्गणा अनन्ता भवन्ति / ताश्व तावद्दष्टच्या यावत्सर्वोत्कृष्टो बादरस्कन्धः। ततो य वग्गणाओ, सुहमाण भवंत णतगुणियाओ। परमाणूण य एक्का, संखेयपदेससंखाता। ताभ्यः समस्तबादरस्कनधगताभ्यो वर्गणाभ्यः सूक्ष्माणां सूक्ष्मानन्तप्रदेशकस्कन्धानामनन्तगुणिता वर्गणास्तथा परमाणूनां समस्तानामेकावर्गणा। (संखेय त्ति) संख्येयप्रदेशेषु व्यादि-प्रभृत्युत्कृष्ट संख्यातं यावत् संख्याताः संख्यातस्य संख्यात-भेदभावात् / इतरस्मिन्नसंख्येयप्रदेशे असंख्ये या वर्गणाः, असंख्यातस्य असंख्यातभेदभिन्नत्वात्। इय पोग्गलकायम्मि य, सव्वत्थोवा उगुरुलहू दव्वा। उमयपडिसेहिया पुण, अणंतकप्पा बहुविकप्पा / / इति एवमुपदर्शितेन प्रकारेण पुगलकाये पुद्गलास्तिकाये गुरुलघुद्रव्याणि सर्वस्तोकानि उभयप्रतिषेधितानि संज्ञातगुरु-लघुप्रतिषेधानि अगुरुलघूनीत्यर्थः / पुनर्द्रव्याणि अनन्तकल्पानि अनन्तभेदानि / तत्रानन्तभेदत्वं गुरुलघुद्रव्येष्वप्यस्ति, तत आह-बहुविकल्पानि विकल्पातिशयेन बहुभेदानि / संप्रति पर्याय-परिमाणमल्पबहुत्वेन चिन्त्यते- इह पञ्चराशयः क्रमेण स्थाप्यन्ते। तद्यथा-परमाणुराशिः, संख्यातप्रदेशकस्कन्धराशिः, असंख्यात-प्रदेशकस्कन्धराशिः, सूक्ष्मानन्तप्रदेशकस्कन्धराशिः, बादरानन्त-प्रदेशकस्कन्धराशिश्च। तत्र बादरानन्तप्रदेशकस्कन्धराशौ योऽन्तिषदः सर्वोत्कृष्टो बादरस्कन्धस्तत्र बहवो गुरुलघुपर्यायाः, सर्वस्तोका अगुरुलघुपर्यायाः, इह बादरस्कन्धेष्वप्यगुरुलघवः पर्यायाः सन्ति परमुत्कलिता गुरुलघुपर्याया इति / त एव तत्र शेषकालं गण्यन्ते, संप्रति तु वस्तुस्थिश्चिन्त्यते / इत्यल्पबहुत्वचिन्तायां ते चिन्तिताः तत्सर्वोत्कृष्टाद् बादरस्कन्धाद् / येऽधस्तना बादरस्कन्धास्तेषु गुरुलघुपर्यायाः क्रमेणानन्तगुणहान्या द्रष्टव्याः। अगुरुलघुपर्यायाः पुनरनन्तगुणवृद्ध्या। एवं च तावद् ज्ञातव्यं यावत्सर्वजघन्यो बादरस्कन्धः। उक्त च-"परमाणु-संखसंखा, सुहुमाण ताण बायराणं च / एएसिं रासीतो, कमेण सव्वे ठयेऊणं / / 1 / / तेसिं जो अंतिसओ, सव्वुक्कोसो य बायरोखंधो।तस्स बहू गुरुलहुया, अगुरुलहू पज्जवा थोवा // 2 // तत्तो हिट्ठा हुता, अणंतहाणिए गुरुलहू वुड्डी / एवं ताजाव जहन्नो त्ति' / एतदेवाहते गुरुलहुपज्जाया, पण्णाच्छेदेण बोगसित्ताणं / जा बायरो जहण्णो, अणंतहाणिए हायंता / / ते गुरुलघुपर्यायाः प्रज्ञाछेदनके नागुरुलघुपर्यायेभ्यो व्युत्कृष्य पृथक्कृत्या सर्वोत्कृष्टाद् बादरस्कन्धादधस्तनेषु बादरस्कन्धेष्वनन्तगुणहान्या हीयमानास्ताक्द्रष्टव्या यावद् जघन्यो बादरस्कन्धः / अगुरुलघुपर्यायास्तु क्रमेणानन्तगुणवृद्ध्या प्रवर्द्धमानाः, ततः परं सूक्ष्मानन्तप्रदेशादिषु स्कन्धेषु के वला अगुरुलघुपर्याया एव क्रमेणानन्तगुणवृद्ध्या प्रवर्द्धमाना द्रष्टव्याः / ते च तावत् यावत्परमाणवः / उक्तं च-"तेण परं सुहुमाओ, अणंतबुड्डिए नवर वटुंता / अगुरुलहुचिय केवल, जा परमाणू य तो नेया'||१|| तदेवं पर्यायपरिमाणमप्यल्पबहुत्वेन चिन्तितम्।सांप्रतमरूपिद्रव्यं चिन्त्यते-तचतुर्द्धा, तद्यथाधर्मास्तिकायः, अधर्मास्तिकायः, आकाशास्तिकायः, जीवास्तिकायश्च / तेषां किमगुरुलधुपर्यायपरिमाणमत आह - केण हविज विरोहो, अगुरुलहुपजवाण उ अमुत्ते। अचंतमसंजोगो, जहियं पुण तव्विवक्खस्स // यत्राभूर्ते धर्मास्तिकायादौ तद्विपक्षस्य गुरुलघुपर्यायजातस्यात्यन्तमेकान्तेनासंयोगोऽघटना तत्रागुरुलघुपर्यायाणां केन विरोधो विनाशनं भवेत् ?, नैव केनचित् / ततः केनापि विनाशाभावात्सदैव प्रतिप्रदेशमनन्ता अगुरुलघुपर्यायाः। तथाचाहएवं तु अणंतेहिं, अगुरुलघुपज्जवेहिं संजुत्तं / होइ अमुत्तं दव्वं, अरूविकायाण चाउण्हं।। एवं तु सति चतुर्णामप्यरूपिकायानामरूपिणामस्तिकायानां धर्मास्तिकायप्रभृतीनामे कै काख्यं यदमूर्त द्रव्यं तद् भवति प्रत्येकमनन्तै रगुरुलघुपर्यायैः संयुक्तम् / तदेवंभावित एकै क आकाशप्रदेशोऽनन्तैरगुरुलघुपर्यवैरुपेतः। बृ०१ उ०। अगरुलहुचउक्क न०(अगुरुलघुचतुष्क) अगुरुलघूपघातपरा घातोच्छ्वासलक्षणनामकर्मप्रकृतिचतुष्टये, कर्म०१ कर्म / अगरुलहुणाम-न०(अगुरुलघुनामन्) नामकर्मभेदे, यदुदयाद-गुरुलघु स्वयं शरीरं जीवानां भवति। स०। अंगं न गुरु न लहुयं, जायइ जीवस्स अगरुलहुउदया। अगुरुलघूदयाद गुरुलघुनामोदयेन जीवस्य अङ्गं शरीरं न गुरुन लघु जायते भवति, किन्तु अगुरुलघु, यत एकान्ते गुरुत्वे हि वोढुमशक्यं स्यात्, एकान्तलघुत्वे तु वायुनाऽपहियमाणं धारयितुं न पार्येत, यदुदयाञ्जन्तुशरीरं न गुरु न लघु नापि गुरुलघु किन्तु अगुरुलधुपरिणामपरिणतं भवति, तदगुरुलघुनामेत्यर्थः / कर्म०१