________________ अक्खर 147 - अभिधानराजेन्द्रः - भाग 1 अक्खर उक्कोसो उक्कोसय-सुयणाणविओ तओऽवसेसाणं। होइ विमज्झो मज्झे छट्ठाणगयाण पाएण / / 7 / / स एवाक्षराऽनन्तभाग उत्कृष्टो भवत्युत्कृष्ट श्रुतज्ञानविदः संपूर्णश्रुतज्ञानस्येत्यर्थः। अत्राह-नन्वस्यकथमक्षराऽनन्तभागो यावता श्रुतज्ञानाऽक्षरं संपूर्णमप्यस्य प्राप्यत एव ? सत्यम् / किन्तु संलुलितसामान्य श्रुतके वलाक्षराऽपेक्षयै वास्याऽक्षरानन्तभागो विवक्षितः, "केवलिवजाणं तिविहभेओवि" इत्य-नन्तरवचनात् / अन्यथा हि यथा केवलिनः संपूर्णकवला ऽक्षरयुक्तत्वेनाक्षराऽनन्तभागस्त्रिविधोऽपि न संभवतीति तद्वर्जनं कृतम् / एवं संपूर्णश्रुतज्ञानिनोऽपि समस्तश्रुताऽक्षरयुक्त त्वेनाक्षराऽनन्तभागस्त्रिविधोऽपि न संभवतीति, तद्वर्जनमपि कृतं स्यात्, तस्मान्न संमिलितसामान्याक्षरापेक्षयैवास्याक्षरानन्त-भागः प्रोक्तः, सामान्ये वाऽक्षरे विवक्षिते के वलाक्षरापेक्षया श्रुतज्ञानाक्षरस्य संपूर्णस्याप्यनन्तभागवर्तित्वं युक्तमेव, केवल-ज्ञानस्वपर्यायेभ्यः श्रुतज्ञानस्वपर्यायाणामनन्तभागवर्तित्वात् तस्यपरोक्षविषयत्वेनास्पष्टत्वाचेति। यच समुदितस्वपर-पर्यायाऽपेक्षया श्रुतकेवलाक्षरयोस्तुल्यत्वं तदिह न विवक्षितमे-वेति / अन्ये तु "सो उण सव्वजहन्नो चेयण्णं" इत्यादिगाथायां स पुनरक्षरलाभ इति व्याचक्षते, इदं चाऽनेकदोषाऽन्वितत्वाजिन-भद्रगणिक्षमाश्रमणपूज्यटीकायां चाऽदर्शनादसङ्गतमेव लक्षयामः / तथाहि- "तस्स उ अणंतभागो निघुग्घाडो" इत्याद्यनन्तर-गाथायामक्षराऽनन्तभाग एव प्रकृतः, अक्षरलाभस्त्वनन्तर-परामर्शिना तच्छब्देन कुतो लब्धः? किमाकाशात् पतितः? किंच, यद्यऽक्षरलाभ इतीह व्याख्यायते तर्हि "केवलि-वजाणं तिविहभेओ वि" इत्यत्र किमिति केवलिनो वर्जनं कृतं ? यथा हि श्रुताक्षरमाश्रित्योत्कृष्टोऽक्षरलाभः संपूर्णश्रुतज्ञानवतो लभ्यते तथा केवलाक्षरमङ्गीकृत्योत्कृष्टोऽसौ केवलिनोऽपिलभ्यत एव,किं तद्वर्जनस्य फलम् ? क्षमाश्रमणपूज्यैश्च "थीणद्धि' इत्यादिगाथाया-मित्थं व्याख्यातम् सच किल जघन्योऽनन्तभाग इत्यादि। अथ सामान्यमक्षरं नेह प्रक्र मे गृह्यते किन्तु श्रुताक्षरमे वेति। तदयुक्तम्, चिरन्तनटीकाद्वयेऽप्यक्षरस्य सामान्यस्यैव व्याख्यानात् / किंचविशेषतोऽत्र श्रुताक्षरे गृह्यमाणे तस्य श्रुताक्षरस्याऽनन्तभागः सर्वजीवानां नित्योद्घाट इति व्याख्यानमापद्यते। एतचाऽयुक्तम्, संपूर्णश्रुतज्ञानिनां ततोऽनन्तभागादिहीनश्रुतज्ञानवतां च श्रुताक्षरा-नन्तभागवत्त्वानुपपत्तेः / किं च, "सो उण के वलिवज्जाणं तिविहभेओ वि" इत्येतदसंबद्धमेव स्यात्, के वलिनः सर्वथैव श्रुताक्षरस्यासंभवेन तद्वर्जनस्याऽऽनर्थक्यप्रसङ्गाचेति, परमार्थं चेह केवलिनो बहुश्रुता वा विदन्तीत्यलं प्रसङ्गेन / विमध्यममक्षरानन्तभागमाहततस्तस्मादुत्कृष्टश्रुतज्ञानविदोऽवशेषाणामेकेन्द्रियसंपूर्ण-श्रुतज्ञानिनो मध्ये वर्तमानानां षट्स्थानपतितानामनन्तभागा-दिगतानां प्रायेण विमध्यो मध्यमाक्षरानन्तभागो भवति, एकस्मादुत्कृष्ट श्रुतज्ञानिनोऽवशेषाः के चित् श्रुतमाश्रित्य तुल्या अपि भवन्त्यत उक्तप्रायेणावशेषाणां विमध्यम इति 1 अ यमर्थ विवक्षितादेकस्मादुत्कृष्टश्रुतज्ञानिनोऽविशेषाणामपि केषांचिदुत्कृष्टश्रुतज्ञानयतां तत्तुल्य एवाऽक्षरानन्तभागो भवति न तु विमध्यम उत्कृष्ट इत्यर्थः / इति सप्तचत्वारिंशदाथार्थः / इत्यक्षरश्रुतं समाप्तम्। विशे०। पत्तेयमक्खराइं, अक्खरसंजोय जत्तिया लोए। एवझ्या सुयनाणे, पयडीओ होंति नायव्वा // एकमेकं प्रति प्रत्येकमक्षराण्यकारादीन्यनेकभेदानि / यथा अकारः सानुनासिको निरनुनासिकश्च / पुनरे कै कस्विधाहस्वोदीर्घः प्लुतश्चेति / पुनरे कै कस्विविधः- उदात्तोऽनुदात्तः स्वरितश्च / इत्येवमकारोऽष्टादशभेदः / एवमिकारादिष्वपि यथासंभव भेदजालमभिधानीयमिति। तथाऽक्षराणां संयोगा अक्षरसंयोगा व्यादयो यावन्तो लोके, यथा- घटः पट इत्यादि, व्याघ्रः स्त्रीत्यादि / एवमेतेऽनन्ताः संयोगाः, तत्राप्येकैकः स्वपरपर्यायापेक्षयाऽनन्तपर्यायः, अत एतावत्यः श्रुतज्ञाने प्रकृतयो भेदा ज्ञातव्या इति नियुक्तिगाथार्थः। अथ भाष्यम् - संजुत्तासंजुत्ता-ण ताणमेकक्खराइसंजोगा। होंति अणंता तत्थ वि, एकेको णंतपज्जाओ। एकमक्षरमादिर्येषां व्यादीनां तान्येकाक्षरादीनि, तेषां संयोगा एकाक्षरादिसंयोगाः, ते अनन्ता भवन्ति / केषां ये एकाक्षरादिसंयोगा इत्याह-तेषामकारककाराद्यक्षराणाम् / कथं- भूतानामित्याहसंयुक्तासंयुक्तानाम् / तत्र संयुक्तैकाक्षरसंयोगो यथा-अब्धिः प्राप्त इत्यादिः / असंयुक्तैकाक्षरसंयोगो यथा- घटः पट इत्यादिः / एते चाक्षरसंयोगा अनन्ताः / एकैकश्च संयोगः स्वपरपर्यायैः पूर्वाभिहितन्यायेनाऽनन्तपर्याय इति // अथ परमतमाशङ्क्योत्तरमाहसंखिज्जक्खरजोगा, होति अणंता कहं जमभिधेयं / पंचत्थिकायगोयर-मन्नोन्नविलक्खणमणंतं / / संख्येयानि च तान्यकाराद्यक्षराणि, तेषां योगाः संयोगाः कथमनन्ता भवन्ति न घटन्त एवेति भावः / अत्रोत्तरमाह- यद्यस्मात्संख्येयानामप्यक्षराणामभिधेयमनन्तम् / कथं- भूतमित्याह अन्योन्यविलक्षणं परस्परविसदृशम् / किं विषय-मित्याहपञ्चास्तिकायगोचरं पञ्चास्तिकायगतस्कन्धदेशप्रदेशपरमाणुकादिकम्, अभिधेयानन्त्याचाभिधानस्याप्यानन्त्यमवसेयमिति / एतदेव भावयतिअणुओ पएसवुड्डी-ए मिन्नरूवाइ धुवमणताइ। जंकमसो दव्वाई,हवंति मिन्नामिहाणाई।। इहास्मादणुतः परमाणुतः प्रारम्भ क्रमशः प्रदेशवृद्ध्या पुद्रलास्तिकायेऽपि ध्रुवं सर्वदैवानन्तानि भिन्नरूपाणि द्रव्याणि प्राप्यन्ते भिन्नाभिन्नानि चैतानि, यथा- परमाणुस्यणुकस्यणुकश्चतुरणुको यावदनन्तप्रदेशिक इति, प्रत्येकंचानेकाभिधानान्येतानि, तद्यथा-अणुः परमाणुर्निरंशो निरवयवो निःप्रदेश अप्रदेश इति, तथा व्यणुको द्विप्रदेशिको द्विभेदोद्यवयवः / इत्यादि सर्वद्रव्यसर्वपर्यायेष्वायोजनीयम् / यस्माचैवमभिधेयमनन्तं विसदृशरूपं भिन्नाभिधानं च तस्मात्किमित्याहतेणामिहाणमाणं, अमिधेयाणंतपञ्जवसमाणं / जं च सुयम्मि वि मणियं, अणंतगमपञ्जयं सुत्तं / / यतोऽभिधेयमनन्तं भिन्नरूपं भिन्नाभिधानं तेन कारणे नाक्षरसंयोगरूपाणामभिधानानां यत्संख्यारूपं मानं परिमाणं तदपि भव-ति। कियदित्याह- अभिधेयभेदेनाऽभिधानस्यापि भेदात् न हि येनैव रूपेण घटादिशब्दे अकारादिवर्णाः संयुक्तास्तेनैवस्वरूपेण पटा-दिशब्देऽपि, अभिधेयैकत्वप्रसङ्गात् , करूपशब्दाभिधेयत्वात्घ-टतत्स्वरूपवदिति, अतोऽभिधेयानन्त्यादभिधानानन्त्यमिति यत्त-तः सूत्रेऽप्यभिहितम् / "अणंतागमा अणंतापजवा" इत्यतः स्थि-तमेतत् "संजुत्तासंजुत्ताणं" इत्यादीति गाथाचतुष्टयार्थः। विशे०