________________ अक्खर 146 - अभिधानराजेन्द्रः - भाग 1 अक्खर स्य स्वपर्याया इत्यर्थः / तैरनुगतैः स्वपर्यायैः, तच्छुताक्षरं केवलेन केवलाक्षरेण तुल्यं न भवेत्, सर्वपर्यायानन्तभागवर्तित्वात् / तच्छुतज्ञानं स्वपर्यायाणां, केवलज्ञानं तु सर्वद्रव्यपर्यायराशि-प्रमाणं, सर्वेष्वपि तेषु व्यापारात् / तथाहि-लोके समस्तद्रव्याणां पिण्डितः पर्यायराशिरनन्तानन्तस्वरूपोऽप्यसत्कल्पनया किल लक्षम्, एतन्मध्याच्छुतज्ञानस्य स्वपर्यायाणां किलशतं,तनलक्षतुपरपर्यायाः, केवलज्ञानत्वे तल्लक्षमपि पर्यायाणामुपलभ्यते, सर्वोपलब्धिस्वभावत्वात्तस्य।ते चोपलब्धिविशेषाः सर्वेऽपि केवलस्य पर्यायाः स्वभावाः, ज्ञेयोपलब्धिस्वभावत्वात् ज्ञानस्य / एवं चसति लक्षपर्याय केवलं, श्रुतस्य तु शतं स्वपर्यायाणाम्, अतस्तैस्तत्केवलपर्यायराशितुल्यं न भवेदिति स्थितम् / तर्हि परपर्यायैस्तत्तस्य तुल्यं भविष्यतीत्याह-न परैर्नापि परपर्यायैस्तत् केवलेन तुल्यं भवेत् / तथाहि-घटादिव्यावृत्तिरूपाः परपर्यायास्तस्य विद्यन्तेऽनन्तानन्ताः, कल्पनया तु शतोनलक्षमानास्तथापि सर्वद्रव्यपर्यायराशितुल्यानभवन्ति, सर्वपर्यायानन्तभागेन कल्पनया शतरूपेण सद्भावतस्त्वनन्तात्मकेन स्वपर्यायराशिना न्यूनत्वात् के वलस्य तु संपूर्णसर्वपर्यायराशिमानत्वादिति / स्वपरपर्यायैस्तु तत्के वलपर्यायतुल्यमेव / के वलवत्तस्यापि सर्वद्रव्यपर्यायप्रमाण-त्वादिति / आहयद्यैवं केवलेन सहाऽस्य को विशेषः ? उच्यते, अस्ति विशेषः / यतः अविसेसकेवलं पुण, सयपज्जाएहि चेव तत्तुल्लं। जण्णेयं पइ तं स-व्वभाववावार विणिजुत्तं / / उभयत्र सर्वद्रव्यपर्यायराशिप्रमाणत्वे तुल्येऽपि श्रुतकेवलयोरस्ति विशेष इत्येवं पुनःशब्दोऽत्र विशेषद्योतनार्थः / कः पुनरसौ विशेष इत्याहअविशेषेण पर्यायसामान्येन युक्तं केवलमविशेषकेवलं स्वपरविशेषरहितैः सामान्यत एवाऽनन्तपर्याययुक्तं केवलज्ञानम-विशेषकेवलमित्यर्थः / तदेवंभूतं केवलं स्वपर्यायैरेव तत्तुल्यं, तेन प्रक्रमानुवर्तमानसर्वद्रव्यपर्यायराशिना तुल्यं तत्तुल्यं, श्रुतज्ञानं तु समुदितैरेव स्वपरपर्यायैस्तत्तुल्यमिति विशेष इति भावः / कथं पुनः केवलज्ञानस्य तावन्तः स्वपर्याया इत्याह- (जण्णेयमित्यादि) यद्यस्मात्तत्केवलज्ञानं सर्वद्रव्यपर्यायलक्षणं शेयं प्रति सर्वभावेषु निःशेषज्ञातव्यपदार्थेषु योऽसौ परिच्छेदलक्षणो व्यापारस्तत्र विनिर्युक्तं प्रतिसमयं प्रवृत्तिमदित्यर्थः / इदमुक्तं भवति / केवलज्ञानं सर्वानपि सर्वद्रव्यपर्यायान् जानाति / ते च तेन ज्ञायमाना ज्ञानवादिनयमतेन तद्वपतया परिणताः, ततो ज्ञानमयत्वात्ते केवलस्य स्वपर्याया एव भवन्ति, अतः केवलज्ञानं तैरेव सर्वद्रव्यपर्यायराशितुल्यं भवति / श्रुतादिज्ञानानि तु सर्वद्रव्यपर्यायराशेरनन्ततममेव भागंजान-न्त्यतस्तेषां स्वपर्याया एतावन्तएव भवन्त्यतो न श्रुतज्ञानं स्वपर्यायैस्तत्तुल्यं, तदनन्तभागवर्तिस्वपर्यायमानत्वादिति श्रुतके वलयोर्विशेषः। अत्र पक्षे के वलस्य परपर्यायविवक्षान कृता। ये हि केवलस्य निःशेषज्ञेयगता विषयभूताः। पर्यायास्ते ज्ञानाद्वैतवादिनयमतेन ज्ञानरूपत्त्यादर्थापत्त्यैव स्व-पर्यायाः प्रोक्तानतु पर्यायाभावः प्रोक्तः / वस्तुस्थित्या पुनरि-दमपि स्वपरपर्यायान्वितमेव दर्शयतिवत्थुसहावं पइ तं, पिसपरपज्जायभेयओ मिन्नं / तं जेण जीवभावो, मिन्ना य तओ घडाईयं // वस्तुस्वभावं प्रति यथावस्थितं वस्तुस्वरूपमाश्रित्य तदपि केवलं ज्ञानमकाराद्यक्षरवत्स्वपरपर्यायभेदतो भिन्नमेवनतुयथोक्तनीत्या स्वपर्यायान्वितमेवेति भावः। कुत इत्याह- येन कारणेन तत्केवलज्ञानं जीवभावः प्रतिनियतो जीवपर्यायो न घटादिस्वरूपं तन्नापि घटादयस्तत्स्वभावाः किन्तु ततो भिन्ना इति, तेन ज्ञायमाना अपि ते कथं तस्य स्वपर्याया भवेयुः, सर्वसंकरैकत्वादिप्रसङ्गात् / तस्मादमूर्तत्वाचेतनत्वसर्ववेत्तृत्वाप्रतिपातित्वनिरावरणत्वादयः केवलज्ञानस्य स्वपर्यायाः / घटादिपर्यायास्तु व्यावृत्तिमाश्रित्य परपर्यायाः / अन्ये तु व्याचक्षते- सर्वद्रव्यगतान्सर्यानपि पर्यायान् केवलज्ञानं जानाति, येन चस्वभावेनैकं पर्यायं जानातिन तेनैवापरमपि, किन्तु स्वभावभेदेन, अन्यथा सर्वद्रव्यपर्याय -कत्वप्रसङ्गात्, तस्मात्सर्वद्रव्यपर्यायराशितुल्याः स्वभावभेदलक्षणाः केवलज्ञानस्य स्वपर्यायाः, सर्वद्रव्यपर्यायास्तु परपर्याया इत्येवं स्वपर्यायपरपर्यायाश्चोभयेऽपि परस्परं तुल्याः केवलस्येति / एवं च सति किं स्थितमित्याह अविसेसयं पि सुत्ते, अक्खरपज्जायमाणमाइटुं। सुयकेवलक्खराणं, एवं दोण्हं पिन विरुद्धं / / एवं सत्यविशिष्टमपि नन्दिसूत्रे यत्सर्वा काशप्रदेशाग्र मनन्तगुणितमक्षरपर्यायप्रमाणमादिष्टं ततः श्रुतस्य केवलस्य वा न विरुद्धं, श्रुताक्षरस्य केवलस्य चोक्तन्यायेनार्थतो द्वयोरपि समानपर्यायत्वात्, तथापि श्रुतस्य केवलस्य च स्वपर-पर्यायास्तावन्निर्विवादं तुल्या एव। स्वपर्यायास्तु 'यद्यप्यन्ये तु व्याचक्षते' इत्यादिनाऽऽगमेनानन्तरमेव केवलस्य भूयांसः प्रोक्तास्तथापितेभ्यो व्यावृत्तत्ववन्तः श्रुतस्य परपर्याया वर्द्धन्त इति तदेवं द्वयोरपि सामान्यतः पर्यायसमानत्वमित्युभयोरपि ग्रहणे सूत्रे न किमपि श्रूयत इति / नन्वेतत्सर्वपर्यायपरिमाणमक्षरं किं सर्वमपिज्ञानावरणकर्मणाऽऽव्रियते न येत्याहतस्स उ अणंतमागो, निच्चुग्घाडो य सव्वजीवाणं। मणिओ सुयम्मि केवलि-वजाणं तिविहमेओ वि / / तस्य च सामान्यै नैव सर्वपर्यायपरिमाणाक्षरस्यानन्तभागो नित्योद्घाटितः सर्वदैवानावृतः / के वलिवर्जानां सर्वजीवानां जघन्यमध्यमोत्कृष्टत्रिविधभेदोऽपि श्रुते भणितः प्रतिपादित इति। तत्र सर्वजधन्यस्याऽक्षराऽनन्तभागस्य स्वरूपमाहसो पुण सव्वजहन्नो, चेयण्णं नावरिजइ कयाइ। उक्कोसावरणम्मि वि, जलयच्छन्नक्कमासोव्व।। सपुनःसर्वजघन्योऽक्षरानन्तभाग आत्मनोजीवत्वनिबन्धनं चैतन्यमात्र तच तावन्मात्रमुत्कृष्टावरणेऽपि सति जीवस्य कदा- चिदपि नावियते न तिरस्क्रियते, अजीवत्वप्रसङ्गात् / यथा- सुष्ठ वपि जलदच्छन्नस्यार्कस्याऽऽदित्यस्य भासः प्रकाशो दिन रात्रिविभागनिबन्धनं किश्चित्प्रभामात्र कदापि नाऽऽवियते, एवं जीवस्यापि चैतन्यमानं कदाचिन्नाऽऽवियत इति भाव इति / केषां पुनरसौ सर्वजधन्योऽक्षराऽनन्तभागः प्राप्यत इत्याह - थीणद्धिसहियनाणा-वरणोदयओ स पत्थिवाईणं। बेइंदियाइयाणं, परिवट्टए कमविसोहीए। स्त्यानर्द्धि महानिद्रोदयसहितोत्कृष्टज्ञानावरणो दयादसौ सर्वजघन्योऽक्षरानन्तभागः पृथिव्यायेकेन्द्रियाणां प्राप्यते, ततः क्रमविशुद्ध्या द्वीन्द्रियादीनामसौ क्रमेण वर्द्धत इति। तत्कृिष्टो मध्यमश्चैव केषां मन्तव्य इत्याह