________________ अक्खर 145 - अभिधानराजेन्द्रः - भाग 1 अक्खर णसर्वद्रव्यपर्यायराशिप्रमाणं तदुच्यत इति कथं न विरोध ? इति / अत्रोत्तरमाहथोव तिन निहिठ्ठा, इहरा धम्मत्थियाइपज्जाया। के सपरपज्जयाणं, हवंतु किं होतु वाऽमावो ? / स्तोका आकाशपर्यायेभ्योऽनन्तभागवर्तिन इति कृत्वा नन्दि-सूत्रे धर्मास्तिकायादीनांपञ्चद्रव्याणांपर्यायान निर्दिष्टा नाऽ-भिहिताः साक्षात् किन्तु य एवं तेभ्योऽतिबहवोऽनन्तगुणास्त एव सर्वाकाशपर्यायाः साक्षादुक्ताः। अर्थतस्तु धर्मास्तिकाया-दिपर्याया अपिनन्दिसूत्रे प्रोक्ता द्रष्टव्याः। इतरथा यद्येतन्ना-भ्युपगम्यते तदा ते धर्मास्तिकायादिपर्याया अक्षरस्वपरपर्यायाणां मध्यात्के भवन्तु ?, किं स्वपर्याया भवन्तु परपर्यायावा?, किं वाऽभावः खरविषाणरूपो भवतु ? इति त्रयी गतिः / त्रिभुवने हि ये पर्यायास्तैः सर्वैरप्यक्षरा-देर्वस्तुनः स्वपर्यायैर्वा भवितव्यं, परपर्यायैर्वा, अन्यथाऽभाव-प्रसङ्गात् / तथाहि-ये केचन क्वचित्पर्यायाः सन्ति तेऽक्षरादिवस्तुनः स्वपरपर्यायाऽन्तररूपा भवन्त्येव, यथा रूपादयः ।ये त्वक्षरादेः स्वपर्यायाः परपर्याया वा न भवन्ति ते नसन्त्येव, यथा खरविषाण-तैक्षणादयः / तस्माद्धर्मास्तिकायादिपर्यायाः सूत्रे स्तोकत्वेनानुक्ता अपि 'जे एग जाणई' इत्यादि सूत्रप्रामाण्यादर्थतोऽक्षरस्य परपर्यायत्वेनोक्ताद्रष्टव्या इति। अथान्यत् प्रेरयतिकिमणंतगुणा मणिया,जमगुरुलहुपज या पएसम्मि / एक्केक्कम्मि अणंता, पण्णता वीयरागेहिं // ननु"सव्यागासपएसेहि अणंतगुणियं' इत्यत्र किमित्या-काशप्रदेशाः सूत्रे अनन्तगुणा भणिताः / अत्रोत्तरमाह- (जमि-त्यादि) यद्यस्मात्कारणात् एकै कस्मिन्नाकाशप्रदेशे, अगुरु-लघुपर्याया वीतरागैस्तीर्थकरगणधरैरनन्ताः प्रज्ञप्ताः प्ररूपिताः / ततश्चायमभिप्रायः- इह निश्चयमतेन बादरं वस्तु सर्वमपि गुरु लघु सूक्ष्म चाऽगुरुलघु, तत्राऽगुरुलघुवस्तुसंबन्धिनः पर्याया अप्य-गुरुलघवः समयेऽभिधीयन्ते / आकाशप्रदेशाश्चागुरुलघवोऽ-तस्ते च, तत्पर्याया अप्यगुरुलघवो भण्यन्ते। तेषु प्रत्येकमनन्ताः सन्त्यतः सकाशप्रदेशाग्रं सर्वाकाशप्रदेशैरनन्तगुणमुक्त-मिति भाव इति / न केवलमप्यक्षरं संज्ञाक्षराधुच्यते किन्तु ज्ञान-मपि। तत्र शिष्यः प्रश्नयति-कियत्प्रमाणं तदक्षरमुच्यते, सर्वाकाशप्रदेशेभ्योऽनन्तगुणं कथमेतावत्प्रमाणमुच्यते ? / इहैकक आकाशप्रदेशः खल्वनन्तरगुरुलधुपर्यायैः संयुक्तः / ते च सर्वेऽप्यगुरुलघुपर्याया ज्ञाने ज्ञायन्ते / न च येन स्वभावेनैको ज्ञायते तेनापरोऽपि, तयोरेकत्वग्रसङ्गात्, किन्त्वन्येन स्वभावेन। ततो यावन्तो गुरुलघुपर्यायास्तावन्तो ज्ञानस्वभावाः / उक्तं च - "जावइय पञ्जवा ते, तावइया तेसु नाणभेया वि / " इति भवति सर्वाकाशप्रदेशेभ्योऽनन्तगुणः / आह च बृहद्भाष्ये -"अक्खर- मुच्चइ नाणं, पुण होनाहि किं पमाणं तु | भण्णइ अणंतगुणियं, सव्वागासप्पएसे हिं / किह होइ अणंतगुणं, सव्वागासप्पएसरासीतो। भण्णइज एक्केको, आगासस्सप्पदेसो उ। संजुत्तोणं तेहिं, अगुरुलहुपज्जवेहिं नियमेण। तेण उ अणंतगुणियं, सव्वागासप्पएसेहिं।" पुनरपि शिष्यः प्राहकथमेतदवसीयत एकैक आकाशप्रदेशोऽनन्तैरगुरुलघुपर्यायैरुपेतः ? उच्यते-इह द्विविधं वस्तु-रूपिद्रव्यमरूपिद्रव्यं च। तत्र रूपिद्रव्यं चतुर्दा / तद्यथा- गुरु,लघु, गुरुलघु,अगुरुलघु च। एतदप्युच्यतेव्यवहारतो निश्चयतःपुनर्द्विविधमेवगुरुलघुअगुरुलघुच। बृ०। संप्रति यथाज्ञानं सर्वाकाशप्रदेशेभ्योऽनन्तगुणं भवति तथा दर्शयति - उवलद्धी अगुरुलहु-संयोगसरादिणो य पञ्जाया। एतेण हुंतणंता, सव्वागा सप्पएसेहिं॥ चतुर्णामप्यस्तिकायानांपुद्रलास्तिकायस्य चये अगुरुलघवः पर्यायाः, उपलक्षणमेतत् बादरस्कन्धानाम् / अगुरुलघुपर्यायाश्च यावन्तश्चाक्षरेषु स्वरूपतोऽभिलापभेदतो वा संयोगा यैश्चोदात्तादिभिः स्वरैरभिलप्यन्ते भावाः, आदिशब्दाद् ये चान्ये शकुनरुतादिगताः स्वरविशेषा ये च जीवपुद्र लगताश्चेष्टाविशेषास्ते सर्वे ऽपि गृह्यन्ते / एतेषां सर्वेषामप्युपलब्धिर्मवति।नचयेन स्वभावेनैकस्य तेनैवान्यस्य, किन्तु भिन्नेन / तदेतेन प्रकारेण ज्ञानस्य स्वभावाः सकाशप्रदेशेभ्योऽनन्तगुणाः। बृ०१ उ०1 प्रकारान्तरेण प्रेरयन्नाह - तत्थाविसेसयं ना-णमक्खरं इह सुयक्खरं पगयं / तं किह केवलपज्जा-यमाणतुल्लं हविज्जाहि॥ (तत्थेति) 'सव्यागासपएसग्गं सव्वागासपएसेहिं अणंतगुणियं पञ्जवक्खरं निप्पज्जई" इत्यत्र सूत्रे नन्द्यध्ययने अविशेषितं सामान्येनैव (नाणमक्खरं ति) ज्ञानमक्षरं प्रतिपादितम् अवि-शेषाऽभिधाने च के वलज्ञानस्य महत्त्वात्तदेव तत्राक्षरं गम्यते / इह तु श्रुतज्ञानविचाराधिकारात् श्रुताक्षरमकाराद्येवाक्षरशब्द-वाच्यत्वेन प्रकृतं प्रस्तुतम् / ततः को दोष इत्याह-तचाकारा-दिश्रुताक्षरं कथं केवलपर्यायमानतुल्यं भवेन्न कथंचिदित्यर्थः / अयमभिप्रायः-केवलस्य सर्वद्रव्यपर्यायवेत्तृत्वाद्भवतु सर्व-द्रव्यपर्यायमानता, श्रुतस्य तु तदनन्तमागविषयत्वात्कथं तत्पर्यायमानतुल्यतेति ? / अत्रोच्यते ननु तत्रापि "अक्ख-रसण्णीसम्म साइयं खलु" इत्यादिप्रकमेऽपर्यवसितश्रुते वि-चार्यमाणे "सव्यागासपएसग्गं" इत्यादि सूत्रं पठ्यते, अतो यथेह तथा तत्रापि श्रुताधिकारादक्षरमकाराद्येव गम्यते, न तु केवला-क्षरम् / अथ ब्रूषे-तत्र द्वितीयमनन्तरं सूत्रं यत्पठ्यते "सव्यजीवाणं अक्खरस्स अणंतभागो निचुग्घाडियओत्ति' एतस्मात् केवलाक्षरं तत्र गम्यते न तु श्रुताक्षरं सकलद्वादशाङ्ग विदां संपूर्णस्यापि श्रुताक्षरस्य सद्भावात्सर्वजीवानामक्षरस्याऽनन्तभागो नित्योद्घाट इत्यस्यार्थस्यानुपपत्तेः / अहो ! असमीक्षिताभिधानं, यत एवं सति केवलिनां संपूर्णस्यापि के बलाक्षरसद्भावात्सर्वजीवानामक्षरस्याऽनन्तभागो नित्योद्घाट इत्यस्याऽर्थस्याऽनुपपत्तिरेव / अथ मनुष्ये तत्राऽविशेषेण सर्वजीवग्रहणे सत्यपि प्रकरणादपिशब्दाद्वा केवलिनो विहायाऽन्येषामेवाऽक्षरस्याऽनन्तभागो नित्योद्घाट इति के वलाक्षरग्रहणेऽविरोधः / हन्त ! तदेतच्छुताक्षरग्रहणेऽपिसमानम्, यत-स्तत्राविशेषेण सर्वजीवग्रहणे सत्यपि प्रकरणादपिशब्दादा समस्तद्वादशाङ्गाविदो विहायाऽन्येषामेवास्मदादीनामक्षरस्यान-न्तभागो नित्योद्घाट इतीहापि शक्यत एव वक्तुम्। तस्मात्तत्रेहच श्रुताक्षरमकाराद्येवगम्यते। यदि वाऽत्र श्रुताक्षरं, तत्र केवलाक्षरमपि भवतु, न च श्रुताक्षरस्य केवलपर्यायतुल्यमानता विरुद्धयते। कथमित्याहसयपज्जवेहि तं के-वलेण तुल्लं न होजन परेहिं। सयपरपज्जाएहिं, तुल्लं तं केवलेणेव // स्वकाःस्वकीया अकारेकारोकारादयोऽनुगताः पर्यायाःश्रुतज्ञान