________________ अक्खर 144 - अभिधानराजेन्द्रः-भाग 1 अक्खर य सव्वदव्वाई / सेसा महव्वया खलु, तदिक्कदेसेण दव्वाणं'। इति वचनादेते सर्वेऽपि ज्ञानदर्शनचारित्रगोचराः व्रतानां चारित्रात्मकत्वाचारित्रस्य च शानदर्शनाभ्यां विनाभावाभावात् / च्युत एवैते श्रद्धेयत्वाधुपयोगिनमन्तरेण श्रद्धानाद्ययोगाद्विषयमन्तेरण विषयिणोऽनुपपत्तेः / के यथा स्वकार्यनिष्पादकाः सन्तो यतेर्भवन्तीत्याह- यथा ज्ञानदर्शनादिरूपाः स्वपर्यायाः स्वधनं वा यथा मिन्नमपि देवदत्तादेर्भवति तथा सर्वेऽपि द्रव्यपर्यायास्त्यागादानफलत्वात्प्रत्येकं सर्वेषामप्यकारादिवर्णानामुप-लक्षणत्यात् घटादीनां भिन्ना अपि भवन्तीति। नचैतदुत्सूत्रमितिदर्शयति - एग जाणं सव्वं, जाणं सव्वं च जाणमेग त्ति। इय सव्वमजाणतो, नागारं सव्वहा मुणइ॥ इह सूत्रेऽप्युक्तं "जे एगंजाणइ, से सव्वं जाणइ। जेसव्वं जाणइ, से एगं जाणइ त्ति"। किमुक्तं भवति, एकं किमपि वस्तु सर्वैः स्व-परपर्यायर्युक्तं जानन्नवबुद्ध्यमानः सर्वलोकालोकगतं वस्तु सर्वैः स्वपरपर्यायैर्युक्तं जानाति सर्ववस्तुपरिज्ञाने नान्तरीयत्वादेव वस्तुज्ञानस्य / सर्व सर्वपर्यायोपेतं वस्तु जानाति स एकमपि सर्वपर्यायोपेतं जानात्येकपरिज्ञानस्य नान्तरियकत्यात् एतच प्रागपि भावितमेवेत्यतः सर्व सर्वपर्यायोपेतं यस्त्वजानानो नाकाररूपमक्षरं सर्वप्रकारैः सर्वपर्यायोपेतं जानाति वस्तु, तस्माच्छे षसमस्त-वस्तुपर्यायैः परिज्ञातैरेव एकमक्षरं क्षरं ज्ञायते नान्यथेति भावः / यदि नामैवं तथापि प्रस्तुते घटादिपर्यायाणामक्षरपर्यायत्वे किमायातमित्याहजेसु अनाएसु तओ, न नज्जए नज्जए य नाएसु। किह तस्स ते न धम्मा, घमस्स रूवाइधम्म व्व / / तत्तस्माद्येषु घटादिपर्यायेष्वज्ञातेषुयदेकं प्रस्तुतमक्षरं न ज्ञायते, ज्ञातेषु च ज्ञायते ते घटादिपरपर्यायाः कथं न तस्य धर्मा अपितु धर्मा एव, यथा घटस्य रूपादयः, प्रयोगः-येषामनुपलब्धौ यन्नोप-लभ्यते उपलब्धौ चोपलभ्यते तस्य ते धर्मा एव यथा घटस्य रूपादयः नोपलभ्यते च प्रस्तुतमेकमक्षरं समस्तघटादिपर-पर्यायाणामनुप-लब्धौ, उपलभ्यते च तदुपलब्धाविति ते तस्य धर्मा इति / इह चाक्षरं विचारयितव्यं प्रस्तुतमित्येतावन्मात्रेणैव तत्सर्वपर्यायराशिप्रमाणं साधितं,न चैतदेव केवलमित्थंभूतं द्रष्टव्यं किंत्वस्ति यत्किमपि वस्तु तत्सर्वमित्थंभूतमेव, सर्वस्यापि व्यावृत्तिरूपतया परपर्यायासद्धा-वादिति। नहि नवरमक्खरं पि, सव्वपज्जायमण्णमण्णं पि। जं वत्थुमत्थि लोए,तं सव्वं सव्वपञ्जायं // गतार्थव। यद्येवं किमक्षरमेवाङ्गीकृत्येदंपर्यायमानमुक्तमिति भाष्यकार एवोत्तरमाह - इहअक्खराहिगारो, पनवणिजायजेणतव्विसओ। तेचिंतिज्जंतेवं,कइमागोसव्वभावाणं॥ इहाक्षराधिकारो यस्मात्प्रस्तुतोऽतस्तस्यैवेदंपर्यायमानमुक्तं द्रष्टव्यम् / उपलभ्यते च सर्वं वस्त्वित्थेमेव, भवत्येवं किं तु प्रस्तुतस्याक्षरस्य के स्वपर्यायाः के च परपर्याया इत्यादि निवेद्य-तामित्याह (पन्नवणिज्जेत्यादि) तस्य सामान्येनाकाराधक्षरस्य स्वपर्यायो विषयस्तद्विषयो येन यतः। के इत्याह-प्नज्ञापनीया अभिलाप्याः पर्याया न पुनरनमिलाप्याः अतस्ते एवं चिन्त्यन्ते विचार्यन्ते / कथमित्याह कतिथो भागस्तेषां भवति, केषां सर्वभावानां सर्वेषामभिलाप्यानभिलाप्यपर्यायाणां समुदिता-नामित्यर्थः / इदमुक्तं भवति-अभिलाप्यं वस्तु सर्वमक्षरेणो-च्यतेऽतस्तदभिधानशक्तिरूपाः सर्वेऽपि तस्यामिलाप्याः प्रज्ञापनीयाः स्वपर्याया उच्यन्ते, शेषास्त्वनमिलाप्याः परपर्यायाः / अतस्तेऽभिलाप्याः स्वपरपर्यायाः सर्वपर्यायाणां कतिथो भागो भवतीत्येवं विचिन्त्यत इति / कथमित्याह - पण्णवण्णिज्जा मावा, वण्णाण सपज्जया तयाथोवा। सेसा परपज्जाया, तो णंतगुणा निरमिलप्पा // यतः प्रज्ञापनीया अभिलाप्या भावाः सामान्येन वर्णा-नामकारादीनां स्वपर्यायास्ततः स्तोका अनन्ततमभागवर्तिनः शेषास्तु निरभिलाप्याः प्रज्ञापयितुमशक्याः सर्वेऽपि परपर्याया इत्यतःस्वपर्यायेभ्योऽनन्तगुणाः सर्वस्यापि हि वस्तुनो लोका-लोकाकाशं विहाय स्तोकाः स्वपर्यायाः परपर्यायास्त्वनन्तगुणाः, लोकालोकाकाशस्य तु केवलस्याप्यनन्तगुणत्यात्। शेष-पदार्थानांतु समुदितानामपि तदनन्तभागवर्तित्वाद्विपरीतं द्रष्टव्यम् / स्तोकाः परपर्यायाः स्वपर्यायास्त्यनन्तगुणाः / अत्र विनेयानुग्राहार्थं स्थापना काचिन्निदर्श्यते-तद्यथा-सर्वाकाशप्रदेशराशेरन्ये सर्वेऽपिधर्मास्तिकायप्रदेशपरमाणुढ्यणुकादयः पदार्थाः सद्-भावतोऽनन्ता अपि कल्पनीयाः किल, देशसर्वाकाशप्रदेशपदार्थास्तु केवलाअपि किल शतं प्रतिपदार्थं च पञ्च स्वपर्यायाः। एवं च सति धर्मास्तिकायप्रदेशादीनां सर्वेषामपि पदार्थानां पञ्चाशदेव स्वपर्यायाः, ते च नभसः परपर्यायाः स्तोकाश्च स्वपर्यायाणां तु पञ्चशतानि, बहवश्वामी परपर्यायभ्यस्तस्माच्छेषपदार्थानां सर्वेषामपि नभसोऽनन्तभागवर्तित्वान्नभसस्तु केवलस्यापि तेभ्योऽनन्तगुणत्वात् स्वपरपर्यायाल्पबहुत्ववैपरीत्यं द्रष्टव्यमिति। नभसोऽन्यपदार्थानां च तेनैव निदर्शनेनस्वपर्यायाणां स्तोकत्वं परपर्यायाणां तुबहुत्वं परिभावनीयम् / तथाहि-किलै कस्मिन् धर्मास्तिकायप्रदेशे पञ्च स्वपर्यायाः, परपर्यायाणां तु पञ्चचत्वारिंशदधिकानि पञ्च शतानि / एवमक्षरपरमाण्यादावपि वाच्यमित्यलं विस्तरेणेति। अथ परो भाष्यस्यागमेन सह विरोधमुद्भावयतिनणु सव्वागासपए-सपज्जया वण्णमाणमाइडं। इह सव्वदव्वपज्जायमाणगहणं किमत्थं ति॥ नन्वित्यसूयायाम, सर्वस्यलोकालोकवर्तिन आकाशस्य प्रदेशास्तेषां मिलिता ये सर्वेऽपि पर्यायास्ते वर्णस्य पर्यायाणां सूत्रे मानं परिमाणमादिष्टम्। सर्वाकाशप्रदेशानां यावन्तः सर्वेऽपि पर्यायास्तावन्त एकस्याक्षरस्य पर्याया भवन्ति इत्येतावदेवागमे प्रोक्तमित्यर्थः / इह तु "तं सव्वदव्वपज्जायरासिमाणं मुणेयवं" इत्यत्र किमिति सर्वद्रव्यपर्यायमानग्रहणं कृतम् / इदमुक्तं भवति-"सव्वागासपएसगं सव्वागासपएसेहि अणंतगुणियं पञ्जव-क्खरं निप्पज्जइत्ति" नन्दिसूत्रे प्रोक्तम् / एतच्च वृत्तौ तत्र व्या-ख्यातम् / तद्यथा- सर्वं च तदाकाशं च सर्याकाशं लोका-लोकाकाशमित्यर्थः। तस्य च प्रदेशा निर्विभागास्तेषामग्र परि-माणं सर्वाकाशप्रदेशाग्रम, सर्याकाशप्रदेशः किमनन्तगुणितम् / एकैकस्मिन्नाकाशप्रदेशेऽनन्तानामगुरुलघुपर्यायाणां सद्भा-वात्पर्यायाक्षरं पर्यायपरिमाणाक्षरं निष्पद्यत इति / तदेवमागमे के वलसा काशप्रदे शपर्यायराशिप्रमाणमक्षरपर्यायमानमुक्तम् / अत्र तु धर्माधर्माकाशपुद्रलजीवास्तिकायकाललक्ष