________________ अक्खर 143 - अभिधानराजेन्द्रः-भाग 1 अक्खर पर्यायान् के वलोऽन्यवर्णेन संयुक्तोऽन्यवर्णसंयुक्तो वाऽकारो लभतेऽनुभवति, तस्य स्वपर्यायाः प्रोच्यन्तेऽस्तित्वेन संबद्धत्वात् / ते चाऽनन्तास्तद्वाच्यस्य विष्णुपरमाण्वादिद्रव्यस्यानन्तत्वात् तद्द्रव्यप्रतिपादनशक्तेश्चास्य मिन्नत्वात्, अन्यथा तत्प्रतिपाद्यस्य सर्वस्याप्येकत्वप्रसङ्गादेकरूपवर्णवाच्यत्वात् / शेषास्त्विकारादिसंबन्धिनो घटादिगताश्चास्य परपर्यायास्तेभ्यो व्यावृत्तित्वेन नास्तित्वेन संबन्धात् , एवमिकारादीनामपि भावनीयम् / अक्षरविचारस्य चेह प्रक्रान्तत्वादेकैकमक्षरं सर्वद्रव्यपर्यायराशिमान-मुच्यते, अन्यथाऽन्येषामपि परमाणुढ्यणुकघटादिद्रव्याणामिदमेव पर्यायमानं द्रष्टव्यमिति। एवमुक्ते सति परः प्राहजइ ते परपजाया, न तस्स अह तस्सन परपजाया। जं तम्मि असंबद्धा, तो परपजायववएसो // इह स्वपर्यायाणामेव तत्पर्यायता युक्ता। ये त्वमी परपर्यायास्ते यदि घटादीनां तर्हि नाक्षरस्य, अक्षरस्य ते तर्हि न घटादीनाम्। ततश्च यदि पर्यायास्तर्हि तस्य कथं, तस्य चेत्परस्य कथमिति विरोधः / तदयुक्तमभिप्रायापरिज्ञानात् / यस्मात्कारणात्तस्मिन् अनकारेऽकाराद्यक्षरे घटादिपर्याया अस्तित्वेनासंबद्धाः, ततस्तेषां परपर्यायव्यपदेशोऽन्यथा व्यावृत्तेन रूपेण तेऽपि संबद्धा एवेत्यतस्तेषामपि व्यावृत्तरूपतया पारमार्थिक स्वपर्यायत्वं न विरुध्यते / अस्तित्वेन तु घटादिपर्याया घटादिष्वेव संबद्धा इत्यक्षरस्य ते परपर्याया व्यपदिश्यन्त इति भावः। द्विविधं हि वस्तुनः स्वरूपमस्तित्वं नास्तित्वंचाततोयेयवास्तित्वेन प्रतिबद्धास्तेतस्य स्वपर्याया उच्यन्ते, ये तु यत्र नास्तित्वेन संबद्धास्ते तस्य परपर्यायाः प्रतिपाद्यन्ते, इति निमित्तभेदख्यापनपरावेव स्व-परशब्दौ, न त्वेकेषां तत्र सर्वथा संबन्धनिराकरणपरौ, अतो-ऽक्षरघटादिपर्यायाः अस्तित्वेनासंबद्धाइति परपर्याया उच्यन्ते, न पुनः सर्वथा, ते तत्र संबद्धा नास्तित्वेन तत्रापि संबद्धाः। न चैकस्योभयत्र संबन्धोन युक्त एकस्यापि हिमवदादेरंशद्वयेन पूर्वापरसमुद्रादिसंबन्धात्। यदि ह्येकेनैव रूपेणैकस्योभयत्र संबन्ध इष्येत तदा स्याद्विरोधः, एतच नास्ति, रूपद्येन घटादिपर्यायाणां तत्रान्यत्रच संबन्धात् / सत्त्वेन तत्र संबन्धादसत्त्वेन त्वक्षरादिषु / असत्त्वमभावत्वाद्वस्तुनो रूपमेव न भवति, खरविषाणवदिति चेदयुक्तम् खरविषाणकल्पत्वस्य वस्त्वभावेऽसिद्धत्वात् न हि प्रागभावप्रध्वंसाभावघटाभावपटाभावादिवस्त्वभावविशेषण- वत्खरविषाणादिष्वपि विशेषणं संभवति, तेषां सर्वोऽप्या-ख्याविरहलक्षणे निरभिलप्ये षष्ठभूतवन्नीरूपेऽत्यन्ताभावमात्र एव व्यवहारिभिः संकेतितत्वात्। नच षष्ठभूतवद्वस्त्वभावोऽप्य-स्माभिर्नीरूपोऽभ्युपगम्यते, नीरूपस्य निरभिलप्यत्वेन प्राग्भा-वादिविशेषणानुपपत्तेः, किंतु यथैव मृत्पिण्डादिपर्यायो भाव एव सन् घटाकारादिव्यावृत्तिमात्रात् प्राग्भाव इति व्यपदिश्यते, यथा वा कपालादिपर्यायो भाव एव सन् घटाकारः परममात्रात् प्रध्वंसाभावोऽभिधीयते, तद्वत्पर्यायान्तरापन्नोऽक्षरादिभाव एव घटादिवस्त्वभावः प्रतिपाद्यते,न तु सर्वथैवाभावस्तथा सर्वथा न किञ्चिद्रूपस्यानभिलप्यत्वात् / न च वक्तव्यं खरविषाणा- दिशब्देन सोऽप्यभिलप्यत एवेति निरभिलप्यताख्यापनार्थमेव संकेत- | मात्रभाविनां खरविषाणादिशब्दानांव्यवहारिभिस्तत्र निवेशात् / किंचयदि घटादिपर्यायाणामक्षरे नास्तित्वेन संबन्धो नेष्यते तहस्तित्वनास्तित्वयोरन्योन्यव्यवच्छेदरूपत्वादस्तित्वेन तेषां तत्र | संबन्धः स्यात्तथा च सत्यक्षरस्यापि घटादिरूपतैव स्यात्, एवं च सति सर्वविश्वमेकरूपतामेवासादयेत् , ततश्च सहोत्पत्यादिप्रसङ्गः / न च वक्तव्यं घटादिपर्यायाणां घटादौ व्यवस्थितानां नास्तित्वलक्षणं रूपं कथमक्षरे प्राप्त, रूपिणामन्तरेण रूपायोगात्। अथ तेऽपि तत्र सन्ति, तर्हि विश्वकत्वमिति घटादिपर्यायाणां घटादीन् विहायान्यत्र नास्तित्वेन व्याप्ते रिष्टत्वात्, अन्यथा स्वपरभावायोगादत एव कथंचिद्विश्वकताऽप्यबाधिकैव / द्रव्यादिरूपतया तदेकत्वस्याप्यभ्युपगमादतो गम्भीरमिदं स्थिरबुद्धिभिः परिभावनीयम्, तस्मात् घटादिपर्याया नास्तित्वेनाक्षरेऽपि संबद्धा इति तत्पर्याया अप्येते अस्तित्वेन घटादावेव संबद्धान त्वक्षरे इति परपर्यायताव्यपदेश इति स्थितमिति / यदिघटादिपर्यायास्तत्राक्षरे असंबद्धत्वेन परपर्याया व्यपदिश्यन्ते तर्हि तेतस्य कथमुच्यन्ते? इत्याहचायसपञ्जाया वि-सेसाइणा तस्स जमुवउज्जति। सधणमिवासंबद्धं, भवंति तो पज्जया तस्स। ततस्तस्मात् घटादिपर्याथा अपि तस्याक्षरस्य पर्याया भवन्ति यतोऽक्षरस्यापि ते उपयुज्यन्ते, उपयोगं यान्ति / केनेत्याह- त्यागस्वपर्यायविशेषणादिना त्यागेन स्वपर्यायविशेषणेन चोपयोगा-दित्यर्थः / इदमुक्तं भवति-घटादिपर्यायाः सत्त्वेनाक्षरे असंबद्धा अपि ते स्वपर्याया भवन्ति, त्यागेनाभावेनोपयुज्यमानत्वात् / यदि हि तत्र तेषामभावो न भवेत्तर्हि तदक्षरं घटादिभ्यो व्यावृत्तं न सिध्येत्तत्रापि घटादिपर्यायाणा भावादिति। ततोऽक्षरस्य त्यागेनाभावेनोपयोगात् घटादिपर्यायास्तस्य भवन्तिा तथा स्वपर्यायाणां विशेषणेन विशेषव्यवस्थापकत्वेन परपर्याया अपि तस्य भवन्ति, न हि परपर्यायेष्वसत्सु स्वपर्यायाः केचि देन सिध्यन्ति, स्वपरशब्दयोरा-पेक्षिकत्वात्प्रयोगः। इत्थं यद्य-स्योपयुज्यते तद्भेदवत्यपि तस्येति व्यपदिश्यते, यथा- देवदत्तादेः स्वधनम्। उपयुज्यते च त्यागस्वपर्यायविशेषणादिभावेन घटा-दिपर्याया अप्यक्षरस्यातस्ते तस्यापि भवन्तीति। एवमक्षरपर्याया अपिघटादेवाच्या इति / एतदेव भावयतिसधणमसंबद्धं पिहु, चेयणं पि व नरे जहा तस्स। उवउज्जइत्ति सधणं, भण्णइ तह तस्स पज्जाया / / इह देवदत्तादिके नरे चैतन्यं यथाऽऽत्मनि संबद्धं तथा स्वधनम्, असंबद्धमपि स्वधनं तस्य लोके भण्यते / कुत उपयुज्यत इति कृत्वा तथाऽक्षरे असंबद्धा अपि घटादिपर्यायास्तस्याऽक्षरस्य पर्याया भवन्ति। अमुमेवार्थ दृष्टान्तान्तरेण साधयतिजह दंसणनाणचरि-त्तगोयरा सव्वदव्वपज्जाया। सद्धेयनेयकिरिया-फलोवओगि त्ति भिन्ना वि॥ जइणोसपज्जयाइव, सकज्जनिप्फाइगत्तिसधणंच। आणायचायफला,तहसव्वे सव्ववन्नाणं॥ इह यथा सर्वद्रव्यपर्याया भिन्ना अपि संयतेरेव भवन्ति यतेः संबन्धिनो व्यपदिश्यन्ते / कुत इत्याह- स्वकार्यनिष्पादका इति हेतोरेतदपि कुत इत्याह- श्रद्धेयज्ञेयक्रियाफलोपयोगिनो यतेरिति कृत्वा श्रद्धेयत्वेनोपयोगात्, ज्ञेयत्वेनोपयोगात् , त्यागादानादिक्रियारूपं यच्छ्रद्धानज्ञानफलं तदुपयोगित्वाचेति / कथंभूतास्ते सर्वद्रव्यपर्याया इत्याह- दर्शन ज्ञानचारित्रगोचराः सम्यग् दर्शनज्ञानचारित्र-विषयभूताः, ते हि सम्यग्दर्शनेन श्रद्धीयन्ते ज्ञानेन तु ज्ञायन्ते चारित्र-स्याप्याहारवस्त्रपात्राद्युपकरणभेषजशिष्यादिद्वारेणोपष्टम्भहेतवो बहवो भवन्ति अव्यवहारी उनेरइया' इति वचनात् / अथवा "पढ मम्मि सव्वजीवा,बीए चरिमे