________________ अक्खर 142 - अभिवानराजेन्द्रः - भाग 1 अक्खर मसौ ? अथ नास्ति तमुत्रापि किमनेनाप्रस्तुतेन इति / सूरिः पूर्वापरग्रन्थसंवादं दिदर्शयिषुस्तत्राप्यस्याक्षरत्रयस्य संग्रह-मुपदर्शयति(मइसुयेत्यादि) मतिश्रुतविशेषणेऽपि मतिश्रुत-भेदविचारेऽपि "सोइंदिओवलद्धी' इत्यादिगाथायां "मोत्तूणं दव्वसुयं'' इत्यनेन गाथावयवेन किमित्याहदव्वसुयं सण्णक्खर-मक्खरलंभोत्ति भावसुयसुत्तं / सोओवलद्धिवयणे, ण वंजणं भावसुत्तं च // संज्ञाक्षरमुक्तम् , कथंभूतमित्याह- द्रव्यश्रुतं भावकारणत्वात् द्रव्यश्रुतरूपम् "अक्खरलंभो य सेसेसु त्ति" अनेन त्ववयवेन लब्ध्यक्षरमुक्तमिति शेषः / कथंभूतमित्याह- भावश्रुतं विज्ञानात्मकत्वात् भावश्रुतरूपं "सोइंदिओवलद्धी होइ सुयं" इत्यनेन त्ववयवेन श्रोत्रेन्द्रियेणोपलब्धिर्यस्य शब्दस्येति बहुब्रीहिसमासाश्रयणात् , व्यञ्जनं व्यञ्जनाक्षरमुक्तम् / श्रोत्रेन्द्रियस्योपलब्धिर्विज्ञानमिति षष्ठीसमासाङ्गीकरणेन तु पुनरपि लब्ध्यक्षरं भावश्रुतरूपमभिहितमित्येवं न पूर्वापरविसंवादः। ननु लब्ध्यक्षरं कथं प्रमाता लभत इत्याहपचक्खमिंदियमणेहि लब्भइ लिंगेण वक्खरं कोई। लिंगमणुमाणमण्णे, सारिक्खाई पभासंति॥ तच्चाक्षरंलब्ध्यक्षरं कश्चित्प्रत्यक्षलभते प्रत्यक्षरूपतयैव कस्यचिदुत्पद्यत इत्यर्थः। काभ्यां कृत्वा इत्याह-इन्द्रियमनो-भ्याम्, इन्द्रियमनोनिमित्तं यद् व्यवहारप्रत्यक्षं तत्र कस्यचित् लब्ध्यक्षरं श्रुतज्ञानरूपमुपजायत इत्यर्थः / अन्यत्तु लिङ्गेन धूमा-दिना तदुत्पद्यते, धूमादिलिङ्गं दृष्ट्वा अग्न्यादिज्ञानरूपं तत्क-स्यचिदुपजायत इत्यर्थः / लिङ्ग किमुच्यते इत्याह-अनुमानमिति / ननु लिङ्ग ग्रहणं संबन्धस्मरणाभ्यामनु पश्चान्मानमनुमानं लिङ्गजंज्ञानमुच्यते। कथं लिङ्गमेवानुमानमिति चेत् ? सत्यम्, किंतु कारणे कार्योपचारादप्यनुमानम्, यथा प्रत्यक्षज्ञानजनको घटोऽपि प्रत्यक्ष इति / तदिह तात्पर्य्यम् लब्ध्यक्षरं श्रुतज्ञानमुच्यते। तयेन्द्रियमनोनिमित्तं प्रत्यक्ष वा स्यादनुमानं वा स्यादन्यत् , शेषस्यात्मप्रत्यक्षस्यावध्यादिरूपत्वादिति भावः / सादृश्यादिभ्यो जायमानत्वात्तदनुमान पञ्चविधमिति केचित्प्रभाषन्ते / विशे०। सामनविसेसेण य, दुविहा लद्धी पढमा अभेया य। तिविहाय अणुवलद्धी, उवलद्धी पंचहा बिइया।। लब्धिलब्ध्यक्षरं द्विविधं द्विप्रकारम्। तद्यथा-सामान्येन विशेषण च। सामान्यलब्ध्यक्षरं विशेषलब्ध्यक्षरं चेति भावः / तत्र प्राथमिकी सामान्योपलब्धिः / सामान्योपलब्ध्यक्षरमभेदसामान्ये भेदाभावात्। इहोपलब्धिरनुपलब्ध्यपेक्षातस्तस्या अपि प्ररूपणा कर्त्तव्येत्यत आह-त्रिविधा त्रिप्रकारा अनुपलब्धिर्या पुनर्द्वितीया विशेषोपलब्धिर्विशेषोपलब्ध्यक्षरं, सा पञ्चधा पञ्चप्रकारा / बृ१उ०। सांप्रतमक्षरश्रुताधिकारादेव, यदुक्तं सूत्रे "अक्खरलद्धिअस्स लद्धिअक्खरं समुपज्जइ" इति तत्र प्रेर्यमुत्थापयन्नाह - अक्खरलंभो सण्णीण होज पुरिसाइवण्णविण्णाणं / / कत्तो उ असण्णीणं, भणियं च सुयम्मि तेसिं पि // पुरुषस्त्रीनपुंसकघटपटादिवर्णविज्ञानरूपोऽक्षरलाभः संज्ञिनां समनस्कजीवानां भवेत् श्रधामहे / एतदसंज्ञिनां चामनस्कानां कुत एतद्वर्णविज्ञानं भवति ? न कुतश्चिदित्यर्थः / अक्षरलाभस्य परोप- | देशजत्वान्मनोविकलानां तु तदसंभवात् , माभूत् तेषां तर्हि तदित्याहभणितं च वर्णविज्ञानं श्रुतं तेषामप्येकेन्द्रियाद्यसंज्ञिनाम् "एगिदिया णं मइअन्नाणी सुयअन्नाणी य" इत्यादि वचनात्, न हि श्रुतज्ञानमक्षरमन्तरेण संभवति, तदेतत्कथं श्रद्धातव्यमिति ? अत्रोत्तरमाह - जह चेयणमकित्तिम-मसण्णीण तह होहि नाणं पि। थोव त्ति नोवलब्मइ, जीवत्तमिव इंदियाईणं // यथा चैतन्यं जीवत्वमकृत्रिमस्वभावमाहारादिसंज्ञाद्वारेणाऽसंज्ञिनामवगम्यते, तथा लब्ध्यक्षरात्मकसमूहज्ञानमपि तेषामवगन्तव्यम् , स्तोकत्वात् स्थूलदर्शिभिस्तन्नोपलक्ष्यते, जीव-त्वमिव पृथिव्याये के न्द्रियाणाम् / एकशब्दस्य चेह लोप: भामा सत्यभामेत्यादिदर्शनादिति।यदपिपरोपदेशजत्वमक्षर-स्योच्यते तदपि संज्ञाव्यञ्जनाक्षरयोरेवावसेयम् / लब्ध्यक्षरं तु क्षयोपशमेन्द्रियादिनिमित्तमसंज्ञिनां न विरुध्यते, तदेव च मुख्य-तयेह प्रस्तुतम् / तत्तु संज्ञाव्यञ्जनाक्षरे श्रुतज्ञानाधिकारादिति / दृष्टन्तान्तरमाह - जह वा सण्णीणमणक्खराणं असइ नरवण्णविण्णाणे। लद्धक्खरं ति भण्णइ, किमपि त्ति तहा असण्णीणं / / यथा संझिनामपि परोपदेशाभावे नवाक्षराणां केषांचिदतीव मुग्धप्रकृतीनां पुलिन्दबालगोपालगवादीनामसत्यपि नकारादिवर्णविशेषविज्ञाने लब्ध्यक्षरं किमपीक्ष्यते नरादिवर्णोचारणे तच्छ्रवणादभिमुखनिरीक्षणदर्शनाच / गौरपि हि सबलाबहुलादिशब्देनाकारिता सती स्वनाम जानीते प्रवृत्तिनिवृत्त्यादि च कुर्वती दृश्यते, न चैषां गवादीनां तथाविधपरोपदेशः समस्ति / अथवास्ति लब्ध्यक्षरं नरादिविज्ञानसद्भावात् / एवमसंज्ञिनामपि किमपि तदेष्टव्यमिति। तदेवं साधितमेकेन्द्रियादीनामपि यत्र यावच्च लब्ध्य क्षरम् / अथैकैकस्याकारद्यक्षरस्य यावन्तःपर्याया भवन्ति तदेतद्विशेषतो दर्शयतिएक्कक्कमक्खरं पुण, सपरपज्जायभेयओ भिन्नं / तं सव्वदव्वपजायरासिमाणं मुणेयव्वं / / इह भिन्नं पृथगेकैकमपि तदकाराद्यक्षरं पुनः स्वपर्यायभेदतः सर्वाणि यानि द्रव्याणि तत्पर्यायराशिमानं ज्ञातव्यम् / इदमुक्तं भवति- इह समस्तत्रिभुवनवर्तीनियानि परमाणुव्यणुकादीन्येकाकाशप्रदेशा-दीनि च यानि द्रव्याणि ये च सर्वेऽपि वर्णास्तदभिधेयाश्चास्तेिषां सर्वेषामपि पिण्डतो यः पर्यायराशिर्भवति, स एकै कस्याप्यकाराधक्षरस्य भवति,तन्मध्ये ह्यकारस्य केचित्स्तोकाः स्वपर्यायास्ते चानन्ताः, शेषास्त्वनन्तगुणाः पर्याया इत्येवं सर्वसंग्रहः / अयं च सर्वोऽपि सर्वद्रव्यपर्यायराशिः सद्भावतो-ऽनन्तानन्तस्वरूपोऽप्यसत्कल्पनया किल लक्षं पदार्था-श्वाऽकारेकारादयो धर्मास्तिकायादयः सर्वाकाशप्रदेशसहिताः सर्वेऽपि किल सहस्रं तत्रैकस्याकारपदार्थस्य सर्वद्रव्यगत-लक्षपर्यायराशिमध्यादस्तित्वेन संबद्धाः किल शतप्रमाणाः स्वपर्यायाः, शेषास्तु नास्तित्वेन संबद्धाः सर्वेऽपि परपर्यायाः / एवमिकारादेः परमाणुद्वयणुकादेश्चैकैकस्य द्रव्यस्य वाच्यमिति / आह-के पुनः स्वपर्यायाः के च परपर्याया इत्याहजे लब्भइ केवलोऽण्ण-वण्णसहिओ व पञ्जवायारो। ते तस्स सपजाया, सेसा गरपज्जया सवे / / यानुदात्तानुदात्तसानुनासिक निरनुनासिकादीनात्मसङ्गतान