________________ अक्खर 140 - अभिधानराजेन्द्रः-भाग 1 अक्खर अत्थे य खरइ न य जेणऽक्खरं तेणं / अर्थानभिधेयान् क्षरति संशब्दयतीति निरुक्तिविधिनार्थकारलोपादक्षरम् / अथवा क्षीयत इति क्षरम् / अन्योन्यवर्णसंयोगे अनन्तानर्थान् प्रतिपादयति, न च स्वयं क्षीयते तेनाक्षरमिति भावः / वर्णे, स च स्वरव्यञ्जनभेदेन द्विधा भवति / विशे० / तत्र रूढिवशादक्षरं वर्ण इत्युक्तम् / __ तच त्रिविधं भवतीति दर्शयतिसे किं तं अक्खरसुयं 2 तिविहं पन्नत्तं / तं जहा सन्नक्खरं वंजणक्खरं लद्धिक्खरं / से किं तं सन्नक्खरं ? सन्नक्खरं अक्खरस्स संठाणागिई। से तं सन्नक्खरं / से किं तं वंजणक्खरं ? वंजणक्खरं अक्खरस्स वंजणाऽभिलावो से तं वंजणक्खरं / से किं तं लद्धिअक्खरं ? लद्धिअक्खरं अक्खरलद्धियस्स लद्धिअक्खरं समुप्पजइ / तं जहा सोइंदियलद्धिक्खरं चक्खिं दियलद्धिक्खरं घाणिं दियलद्धिक्खरं रसणिं दियलद्धिक्खरं फासिंदियलद्धिक्खरं नोइंदियलद्धिक्खरं / से तं लद्धिअक्खरं / से तं अक्खरसुयं / (से किं तमित्यादि) अथ किं तदक्षरश्रुतं ? सूरिराह-अक्षरश्रुतं त्रिविधं प्रज्ञाप्तं तद्यथा संज्ञाक्षरं व्यञ्जनाक्षरं लब्ध्यक्षरम्। तत्र "क्षर संचलने'न क्षरति न चलतीत्यक्षरं ज्ञानम् / तद्धि जीवस्वा-भाव्यादनुपयोगेऽपि तत्त्वतो न प्रच्यवते / यद्यपि च सर्व-ज्ञानामेवमविशेषेणाक्षरं प्राप्नोति तथापीह श्रुतज्ञानस्य प्रस्ता-वादक्षरं श्रुतज्ञानमेव द्रष्टव्यं न शेषमित्थंभूतभावाक्षरकारणंचाकारादिवर्णजातम्, ततस्तदप्युपचारादक्षरमुच्यते, ततश्चाऽक्षरं च तच्छुतं च श्रुतज्ञानं चाक्षरश्रुतं भावश्रुतमित्यर्थः। तच लब्ध्यक्षरश्रुतं वेदितव्यम् / तथा अक्षरात्मकमकारादिवर्णात्मकं श्रुतमक्षरश्रुतं द्रव्यश्रुतमित्यर्थः / तच्च संज्ञाक्षरं व्यञ्जनाक्षरं च द्रष्टव्यम् / अथ किं तत् संज्ञाक्षरम् ? अक्षरस्याकारादेः संस्थानाकृतिः संस्थानाकारः / तथाहिसंज्ञायतेऽनयेति संज्ञा नाम तन्निबन्धनं तत्कारणमक्षरं संज्ञाक्षरम्। संज्ञा च निबन्धनमाकृतिविशेषः / आकृतिविशेष एव नाम्नः करणात् व्यवहरणाय / ततोऽक्षरस्य पट्टिकादौ संस्थापितस्य संस्थानाकृतिः संज्ञाक्षरमुच्यते / तब ब्राम्या दिलिपिभेदतो-ऽनेकप्रकारम् / तत्र नागरीलिपिमधिकृत्य प्रदर्श्यते, मध्यस्था-पितचुल्ली सन्निवेशसदृशो रेखासन्निवेशविशेषेणेकारः / वक्रीभूतश्च सारमेयपुच्छसन्निवेशसदृशो ढकार इत्यादि तदेतत्संज्ञाक्षरम् / अथ किं तद् व्यञ्जनाक्षरम्। आचार्य आहव्यञ्जनाक्षरमक्षरस्य व्यञ्जनाभिलापः। तथाहि- व्यज्यतेऽनेनार्थः प्रदीपेन घट इव व्यञ्जनभाव्यकारमकारादिकवर्णजातं तस्य विवक्षितार्थाभिव्यञ्ज-कत्वात्। व्यञ्जनं च तदक्षरं च व्यञ्जनाक्षरं ततो युक्तमुक्तंव्यञ्जनाक्षरमक्षरस्य व्यञ्जनाभिलापः। अक्षरस्याकारादेवर्णजातस्य व्यञ्जने / अत्र भावे अनद / व्यञ्जकत्वेनाभिलाप उधारणमर्थव्यञ्जकत्वेनोचार्यमाणमकारादिवर्णजातमित्यर्थः। (से किं तमित्यादि) अथकिं तत् लब्ध्यक्षरम् ? लब्धिरुपयोगः, सचेह प्रस्तावात् शब्दार्थपर्यालोचनानुसारी गृह्यते, लब्धिरूपमक्षरं लब्ध्यक्षरं भावश्रुतमित्यर्थः / (अक्खरलद्धियस्सेत्यादि) अक्षरेऽक्षरस्योचारणेऽवगमे वा लब्धिर्यस्य सोऽक्षरलब्धिक-स्तस्याकाराद्यक्षरानुविद्धश्रुतलब्धिसमन्वितस्येत्यर्थः / लब्ध्यक्षरं भाव श्रुतं समुत्पद्यते, शब्दादिग्रहणसमनन्तरमिन्द्रियमनोनिमित्तं शब्दार्थ-पर्यालोचनानुसारि 'शङ्कोऽयम्' इत्याद्यक्षरानुविद्धं विज्ञानमुप-जायत इत्यर्थः / नन्विदं लब्ध्यक्षरं संज्ञिनामेव पुरुषादीनामुपपद्यते नासंशिनामे के न्द्रियादीनां तेषामकारादिवर्णानामवगमे उच्चारणे वा लव्ध्यसंभवात् / न हि तेषां परोपदेशे श्रवणं संभवति येनाकारादिवर्णानामवगमादि भवेत् / अथ चैकेन्द्रियादीनामपि भावश्रुतमिष्यते / तथाहि-पार्थिवादीनामपि भावश्रुतमुपवर्ण्यते 'दव्वसुयाभावम्मि वि, भावसुयं पत्थिवाईणं" इति वचनप्रामाण्यात् / भावश्रुतं च शब्दार्थपर्यालोचनानुसारिविज्ञानं शब्दार्थपर्यालोचनं चाक्षरमन्तरेण न भवतीति सत्यमेतत् / किं यद्यपि तेषामे के न्द्रियादीनां परोपदेशश्रवणासंभवस्तथापि तेषां तथाविधक्षयोपशमाभावतः कश्चिदव्यक्तोऽक्षरलाभो भवति यद्वशादक्षरानुषक्तं श्रुतज्ञानमुपजायते। इत्थं चैतदङ्गीकर्तव्यम्। तथाहितेषामप्याहाराघभिलाष उपजायते, अभिलाषश्च प्रार्थना, सा च यदीदमहं प्राप्नोमि, ततो भव्यं भवतीत्याद्यक्षरानुविद्धव, ततस्तेषामपि काचिदव्यक्ताक्षरलब्धिरवश्यं प्रतिपत्तव्या तत-स्तेषामपि लब्ध्यक्षरं भवतीति न कश्चिद्दोषः / तच लब्ध्यक्षरं षोढा / तद्यथा (श्रोत्रेन्द्रियलब्ध्यक्षरमित्यादि,) इह यत् श्रोत्रे-न्द्रियेण शब्दश्रवणे सतिशमोऽयमित्याद्यक्षरानुविद्धं शब्दार्थपर्यालोचनानुसारि विज्ञानं, तत् श्रोत्रेन्द्रियलब्ध्यक्षरं, तस्य श्रोत्रेन्द्रियनिमित्तत्यात् / यत्पुनश्चक्षुषा आम्फलाद्युपलभ्याम् -फलमित्याद्यक्षरानुविद्धं शब्दार्थपर्यालोचनात्मक विज्ञानं त-चक्षुरिन्द्रियलब्ध्यक्षरमेव / एवमेव शेषेन्द्रियलब्ध्यक्षरमपि भावनीयम् (से तमित्यादि) तदेतत् लब्ध्यक्षरं तदेतदक्षरश्रुतम्। नं०। बृ० कल्प०। आ० चू० / विशे०। अत्थाभिवंजगं वंजणक्खरं इच्छितेतरं वदतो। रूवं च पगासेणं, विज्जति अत्थो जओ तेणं / / इहयद्विवक्षितं तदेव यदि वदति यथा अश्वंभणिष्यामीति तदेवं ब्रूते तदा तदीप्सितमन्यद्विवक्षिताऽन्यचेदुच्चरति, तदा तदितरादनीप्सितमीप्सितमितरं वा वदतो यदर्थाभिव्यञ्जकमभिधानं तद् व्यञ्जनाक्षरम् / अथ कस्मायञ्जनाक्षरमुच्यतेनाभिधानाक्षरमत आहरूपमिव घटादिकमिव प्रकाशेन दीपादिना तमसि वर्तमानम् अर्थो घटादिर्यतो यस्माद्यज्यते प्रकटीक्रियते तेन कारणेन व्यञ्जनाक्षरमित्युच्यते। तं पुण जहत्थनियतं, अजहत्थं वा वि वंजणं दुविहं। एगमणेगपरिययं, एमेव य अक्खरेसुं पि॥ तत् पुनर्व्यञ्जनं द्विविधम् यथार्थनियतमयथार्थ च / यथार्थनियतं नामान्वर्थयुक्तंयथा क्षपयतीति क्षपणः, तपतीतितपन इत्यादि। अयथार्थ यथा-नेन्द्रं गोपयति तथापीन्द्रगोपकः।नपलमश्नाति तथापि पलाश इत्यादि / अथवा तद् व्यञ्जनं द्विधा एक-पर्यायमनेकपर्यायं च / एकः पर्यायोऽभिधेयो यस्य तदेकपर्यायम् / यथा अलोकःस्थण्डिलमित्यादि। अलोक शब्देन ह्यलोकत्वलक्षण एक एव पर्यायोऽभिधीयते / स्थण्डिलशब्देन स्थण्डिलत्यमेकमिति। अनेके पर्याया अभिधेया यस्य तदनेकपर्यायम्।यथा जीव इतिजीवशब्देन हिजीवोऽप्युच्यते सत्त्वोऽपि प्राण्यपि भूतोऽपि च / जीवादयश्च प्रतिनियतविशेषाः / तथा चोक्तम् / "प्राणा द्वित्रिचतुः प्रोक्ता, भूताश्च तरवः स्मृताः। जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा उदीरिताः"||१||