________________ अक्खयतइया 134 - अभिधानराजेन्द्रः-भाग 1 अक्खयतइया आहारार्थं प्रतिग्रामं विजहार च, भद्रपुरुषास्तु साधूनामाहारदानं न विदुरतो भिक्षां याचमानाय भगवते मणिमाणिक्यादीन्युत्तमवस्तून्येवोपाजहुः। भगवता त्यक्तपरिग्रहत्वात् दीयमानमपि तत्सर्वनजगृहे, अतः सर्वतः पर्यटन् चतुर्विधाहाररहित एव किश्चिदधिकमेकं वर्षमतिष्ठत् / अस्मिन्नेवावसरे गजपुरनगरे बाहुबलिनः प्रपौत्रः सोमयशःपुत्रः श्रेयांसकुमारोऽभूत ,तत्र भगवान् ऋषभदेव आहारार्थ विहरन्नाजगाम। तदा नक्तं श्रेयांसकुमारः "मेरुपर्वतः कृष्णीबभूब, मया चामृतकलशैः क्षालयित्वा स शुक्लीकृतः" इतीदृशं स्वप्नमपश्यत् / तस्यामेव निशि तस्मिन्नेव पत्तने सुबुद्धिनामा श्रेष्ठ्यपि "सूर्य्यस्य किरणसहस्रं भूमौ निपपात श्रेयांस-कुमारस्तु तदुत्थाप्य पुनः सूर्यबिम्बे संयुयोज" इति स्वप्नमद्राक्षीत्।पुनः सोमयशाभूपतिरपि"प्रचुररिपुसमवरुद्धो व्याकुलः कश्चन सुभटो यदा तान् स्वरिपून् जेतुं नाशकत्, तदा श्रेयांसकुमारेण तस्य साहाय्यमकारि, येन स तत्क्षणमेव सर्वान् विजिग्ये" इति स्वप्नं निरीक्षाञ्चक्रे / एवं स्वप्नत्रयं त्रयः पुरुषा अद्राक्षुः / ततः प्रभाते सर्वे राजसभामुपसंगम्य यथास्वं स्वप्नं प्रत्यूचुः / तदवधार्य "अद्य श्रेयांसकुमारस्यापूर्वलाभो भविष्यति' इति सर्व सभ्या व्याजहुः / एतस्मिन्नन्तरे सदाऽप्रतिबद्धविहार्यप्रमत्तो भगवान् भिक्षार्थं प्रतिगृह परिभ्रमन् तत्र श्रेयांसकुमारनिकेतनमुपतस्थे / तमागच्छन्तं भगवन्तं समवलोक्य कुमारोऽतीव जहर्ष / अन्ये च जना अदृष्टचरसाधुमुद्राः पादाभ्यामेव पर्यटन्तं तमवलोक्य हस्त्यश्वप्रभृतीनि विविधवस्तूनि समुपाहरन् / भगवाँस्तु किमपि नोपाददे। तेन तेलोकाः कोलाहलं कृत्वा विषण्णमानसा चिन्तयन्ति स्म, यतो भगवान् अस्मद्धस्तदत्तं किमपि नोपादत्ते, जातु अस्मासु क्रुद्ध इवोपलक्ष्यत इति / ते तु युगलत्वावस्थामचिरेणैवाहासिषुरतः साधुभिक्षादानविधिं न विदन्ति / अथ श्रेयांसकुमारो भगवतः साधुमुद्रां समवलोक्य 'ईदृशी मुद्रा मया पूर्वं कुत्रापि निरीक्षिता' इत्येवमूहापोहौ कुर्वन् तदानीं तस्य मतिज्ञानभेदभूतं जाति-स्मरणज्ञानं समजनि / तेन ज्ञानेन ‘भगवता साकं नव भवा मे व्यतीताः' इत्यादि सर्वं सोऽबुध्यता तत्र 'धण१ मिहुण 2 सुर 3 महब्बल ४,ललियंग 5 वयरजंघ 6 मिहुणो य 7 / सोहम्म 8 विजह अचुत 10, चक्की 11 सव्वट्ठ 12 उसभो य 13" // इति गाथोक्तानां त्रयोदशभवानां मध्ये प्रथमे भवे भगवान् सार्थवाहो-ऽभूत, द्वितीये युगलिकः, तृतीये देवता, चतुर्थे महाबलनामा राजा, पञ्चमे ललिताङ्गनामको देवोऽभवत्। श्रेयांसकुमारस्तु प्रथमे भवे स्त्रीत्वजाती धम्भिणी नामिका स्त्री समजनि / एवं क्रमेण ललिताङ्गदेवावतारस्य भगवतः स्वयंप्रभाख्या देवी बभूव। ततश्च्युत्वा ललिताङ्गदेवजीवः षष्ठे भवे वज्रन्धराख्यो राजा-ऽभवत्, स्वयंप्रभा च तस्य श्रीमतीत्याख्या राजपत्नी बभूव / एवं सप्तमे भवे चोभौ युगलिको बभूवतुः / अष्टमे सौधर्मदेवलोक उभौ देवौ समजनिषाताम् / नवमे भगवान् जीवानन्दाभिधो वैद्यः, श्रेयांसजीवस्तु केशवाख्यः श्रेष्ठिपुत्रः संजातः। तत्रापि द्वयोरतीव मित्रता बभूव / ततो दशमे भवेऽच्युतदेवलोक उभौ मित्रदेवौ संजातौ, एकादशे भगवान् चक्रवर्ती, श्रेयांसश्च सारथिः। द्वादशे चोभौ सर्वार्थसिद्धविमाने देवौ / तत आयुषि क्षीणे सति त्रयोदशे भवे भगवतो जीवोऽयमृषभदेवोऽहञ्च श्रेयांसकुमारोऽस्मि / एवं स श्रेयांसो जातिस्मरणज्ञानेन प्राक्तनानां नवभवानां स्वरूपमवेदीत्। तेषु भवेषु पूर्व साधुक्रियामद्राक्षीत् , अत एव श्रेयांसकुमारो व्यचिन्तयत्यत् | संसारिजीवानां कीदृशमज्ञानित्वं भवति, येन त्रिलोकीप्रभुं राज्यपदवीं तृणवत् विसृज्य विषयभोगरूपं सांसारिकसुखं किंपाकफलमिव विदित्वा साधुत्वं गृहीत्वा च कर्मबन्धनविमोचनाय प्रयतमानं रागद्वेषाद्यनेकानर्थकारणीभूतं परिग्रहं परमाणुमात्र-मप्यस्वीकुर्वाणं भगवन्तं नावेदिषुः / यः सर्वथा निर्ग्रन्थो निष्परिग्रहः स कथं पुनर्हस्त्यश्वकन्यास्वर्णमणिमाणिक्यमुक्ताफलादीन् परिग्रहान् ग्रहीष्यति? एवं बुद्ध्वा स श्रेयांसकुमारो निज-प्रासादगवाक्षात् तूर्णमधः समवतीर्य भगवतश्चरणोपकण्ठं समाययौ भगवन्तं त्रिः परिक्रम्य परमानन्दसिन्धुनिमग्नो ववन्दे च। पुनरञ्जलिं बद्ध्वा भगवन्तं तुष्टाव व्यजि-ज्ञपच्च-हे स्वामिन् ! मयि कृपा विधीयतामहं संसारतापतप्तोऽस्मि / अतो मे संसारान्निस्तारः क्रियताम् / अष्टादशकोटाकोटिसागरोपमपर्यन्तविच्छिन्नो मुनिजनानां प्रासुकाहारदानविधिः प्रकाश्यताम् / मम गृहे उपहाररूपेण समागतान् इक्षुरसपूर्णान् शुद्धाहारभूतान् अष्टोत्तरशतघटान् भवान् समाददातु। इति वचो निशम्य ज्ञानचतुष्टयसम्पन्नो भगवान् तमिक्षुरसं द्रव्यक्षेत्रकाल-भावानुकूलं निरवद्याहारं समवगम्य श्रेयांसनिकेतनमुपेत्य निजहस्ताञ्जली सर्व युगपज्जग्राह / यतो भगवता पाणिपात्रल-ब्धिमता भूयते, तेनैव स निखिलोऽष्टोत्तरशतघटरसोऽञ्जलिं प्रविवेश / रसग्रहणसमये चैकबिन्दुरपि भूमौ न निपपात / यद्यप्ययमष्टोत्तरशतघटपरिच्छिन्न एव रसोऽभूत, यदि च शत-सहस्रलक्षपरिमितः समुद्रपरिमितो वा स्यात् तथापि प्रविशेत् / एवं भगवते विशुद्धाहारदानस्य महानानन्दः श्रेयांसस्य तनौ न ममौ / पुनर्व्यचिन्तयत् त्रिलोकीपूज्यो-ऽनन्तगुणनिधिभगवान् ऋषभदेवो यन्मे हस्तेनाहारमाददे, तन्मयि परमप्रसादं व्यधत्त / भगवते निर्दोषाहारं ददतो मे सर्वः पापसन्तापः क्षीणः / यावत् स एवं विचिन्तयति, तावद्धर्षनिर्भरा देवाः पञ्च दिव्यानि प्रकटीचाः, 'अहो! दानमहो ! दानम्' एवं प्रजल्पन्तो देवदुन्दुभीन् च वाद- यांचक्रिरे। तिर्यग्जृम्भकाख्यास्त्रिदशाः सार्धद्वादशकोटिसुवर्णदीनाराणां रत्नानां च वृष्टिमकार्षः। तदा श्रेयांसगृह सुवर्णदीनारै रत्नैः समृद्ध्यादिभिश्च परिपूर्ण समजनि / विष्टपत्रयं धनधान्यादिभिः परिपूर्णम् / श्रेयांसस्यात्मा निरुपमसुखभाजनं संजातम् / तदारभ्य लोके सर्वे साधूनां भिक्षादानविधिं विदाञ्चक्रुः। भगवान् यस्मिन् यस्मिन् देशे विहरति, तस्मिन् तस्मिन् देशे कदापीतयो न भवन्ति स्म, सकलगृहाण्यपि परमोत्तमाहारपूर्णानि बभवुः, येन अकिञ्चना अपि भगवते परमानं प्रयच्छन्ति स्म, तस्यातिशयविशिष्टत्वात् / अस्मिन् वैशाखशुक्लतृतीयादिने भगवतः श्रीऋषभदेवस्य पारणा श्रेयांसगृहे इक्षुरसेन निर्वृत्ता / इदं च दानं श्रेयांसस्याक्षयसुखकारणीभूतं संजातमतोऽस्यास्तृतीयायाः 'अक्षय-तृतीया' 'इक्षुतृतीया' वा संज्ञा लोके प्रावर्तिष्ट / अत्र कश्चित् प्रश्नं करोति, त्रैलोक्यनाथस्य भगवतो वर्षमेकं भोजनान्तरायः कथम् ? अत्रोच्यते- कल्पविवरणे प्रदर्श्यमानमन्तरायनिदानं कर्म / तथाहि- पूर्वभवे भगवान् मार्गे गच्छन् खले धान्यानि खादतो वृषभान् कृषीवलै स्ताड्यमानानवलोक्य संजातकरुणस्तान् प्रावोचत्, अरे रे मूर्खाः! कृषाणाः! एतान् बुभुक्षून यूयं मा ताडयत किन्तु मुखबन्धनी निर्मायैतेषां मुखानि बध्नीत / तदा नैते किमपि भोक्तुं शक्ष्यन्ति। तदा ते प्रत्यूचुः- वयं न तां निर्मातुं जानीमः / ततो भगवान् तत्रोपविश्य स्वहस्तेन तां निर्माय तया च