________________ अक्खइय 133 - अभिधानराजेन्द्रः - भाग 1 अक्खयतइया च,न०ावाच०। अक्खझ्य-त्रि०(अक्षतिक) अक्षये, "अक्खइयबीएणं अप्पाणं कम्मबंधणेणं मुहरि" अक्षतिकबीजेन अक्षयेणदुःखहेतुनेत्यर्थः / प्रश्न० आश्र०२ द्वा०। अक्खओदय-त्रि०(अक्षयोदक)अक्षयंशाश्वतमविनाश्युदकं जलं यस्य सोऽक्षयोदकः / नित्यसलिलभृते, "जहा से सयंभूरमणे उदही अक्खओदए" / उत्त०११ अ०। अक्खचम्म-न०(अक्षचर्मन्) जलापकर्षणकोशे, "अक्खचम्म उद्यगंडदेसं"।ज्ञा०६ अ०1 अक्खणवेलं-(देशी) सुरते, प्रदोषे च / दे०मा०। अक्खणिबद्धा-स्त्री०(अक्षनिबद्धा) गन्त्र्याम्, पिं० अक्खपाय-पुं०(अक्षपाद) अक्षं नेत्रं दर्शनसाधनतया जातं पादेऽस्य न्यायसूत्रकारके गौतममुनौ, स हि स्वमतदूषकस्य व्यासस्य मुखदर्शनं चक्षुषा न करणीयमिति प्रतिज्ञाय पश्चाद् व्यासेन प्रसादितः पादे नेत्रं प्रकाश्य तं दृष्टवानिति पौराणिकी कथा / वाच०1 अक्षपादमते किल षोडश पदार्थाः / प्रमाणप्रमेयसंशय-प्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रह-स्थानानां तत्त्वज्ञानान्निःश्रेयसाऽधिगमः, इति वचनात्। इत्याद्यन्यत्र प्ररूपयिष्यते। स्या०। “अक्षपादेनोक्ते ग्रन्थे च"। विशे० आ०म०प्र० / अक्खम-त्रि०(अक्षम) क्षमते क्षम अच् / न०ता असमर्थे, क्षम-भावे अङ्,अभावार्थे, नत०। क्षमाऽभावे, ईर्ष्यायाम, स्त्री०। वाच० / अयुक्तत्वे, स्था०३ ठा०३ उ० / अनुचितत्वे असमर्थत्वे, स्था०५ ठा०१ उ०1 अक्खयणीवि-स्त्री०(अक्षयनीवि) अक्षया चासौ नीविश्व अक्षय-नीविः / षो०६ विव० / अव्यये मूलधने, येन जीर्णीभूतस्य देवकुलस्योद्धारः करिष्यते / ज्ञा०१ श्रु२ अ०।। अक्खयतइया-स्त्री०(अक्षयतृतीया) क० स० / वैशाखशुक्लतृतीयायाम् , "वैशाखमासि राजेन्द्र !, शुक्लपक्षे तृतीयका / अक्षया सा तिथिः प्रोक्ता, कृतिका-रोहिणीयुता / तस्यां दानादिकं सर्वमक्षयं समुदाहातमिति, वाच० 1 तन्मादात्म्यकथा चैवम् प्रणिपत्य प्रभु पार्श्व श्रीचिन्तामविसंज्ञकम् ? अधाऽक्षयतृतीयाया व्याख्यानं लिख्यते मया।।१।। एतदेवाह श्रुतकेवलीभगवान् भद्रबाहुः।"उसभस्स हु पारणए, इक्सुरसो आसि लोग नाहस्स / सेसाणं परमन्नं, अमियरसस्सोवमं आसी॥१।। घुटुं च अहो दाणं, दिव्याणि आहियाणि तूराणि / देवा वि सन्निवडिआ, यसुहारा चेव वुट्ठीय ॥शा भवणं धणेण भुवणं,जसेण भयवं रसेण पडिहत्थो। अप्पा निरुवमसुक्खं, सुपत्तदाणं महग्यविअं॥३॥ रिसहेण समंपत्तं निरवजंइक्खुरससमंदाणं। सेयंससमो भावो, हविज्ज जइमंगियं हुन्जा // 4 // " इति। एतासां गाथानां भावार्थः कथयाऽवगन्तव्यः / तथाहि- श्रीऋषभदेवस्वामिनो जीवः सर्वार्थसिद्धविमानात् च्युत्वाऽऽषाढकृष्णचतुर्थ्या तिथौ नाभि-नाम्नः कुलकरस्य भार्याया भरुदेव्याः कुक्षाववतीर्णः / नव मासान् चत्वारि दिनानिच तत्रोषित्वा चैत्रकृष्णाष्टम्यां निशीथसमये जन्म जगृहे। तदानीं विष्टपत्रयं विदिद्युते / क्षणं नारकैरपि जीवैः शमध्य-गामि / तदनु षट्पञ्चाशद्धिकुमारिकाणामासनानि चकम्पिरे / ताश्चावधिज्ञानेन भगवतो जनिमवगम्य जन्मस्थान- मासाद्य च स्वस्वकार्य संपाद्य निजनिकेतनानि प्रत्यगमन् / ततश्चतुष्षष्टि-संख्यकानामिन्द्राणामपि विष्ट राचेलुः / तेऽप्यवधिज्ञानेनैव भगवतो जनुग्रहणं विदित्वा सौधर्मेन्द्रव्यतिरिक्ता अन्ये त्रिषष्टिरिन्द्रा हेमाद्रिं प्रति जग्मुः / ततः सौधर्मेन्द्रोऽपि जन्मस्थानं समागत्य तत्रस्थेभ्यो मातृप्रमुखेभ्यो जनेभ्योऽवस्वापिनी निद्रां दत्त्वा मातृसन्निधौ स्वशक्त्या रचितं भगवत्प्रतिबिम्ब निधाय भगवन्तमुभाभ्यां पाणिभ्यां गृहीत्वा कनकाद्रिं समाययौ / तत्र च चतुष्षष्टिसंख्यकैरिन्द्रैः संभूय स्नात्रमहोत्सवं कृत्वा ततः सौधर्मविरहितैरन्यैरिन्द्ररष्टमोनन्दीश्वरद्वीपो जग्मे। सौधर्मेन्द्रस्तु भगवज्जनन्याः सन्निकृष्ट बालकं पूर्ववत् संस्थाप्य अवस्वापिनीं निद्रां पूर्वनिहितं भगवत्प्रतिबिम्बं चापहृत्य "नमो रत्नकुक्षि-धारिण्यै" इत्युक्त्वा मातरं प्रणिपत्य ततो भगवन्तं च नमस्कृत्य नन्दीश्वरद्वीपमबाजीत् / तत्र सर्व इन्द्रा अष्टाह्निकमहोत्सवं विधाय निजनिजसुरालयं समासदन्। अथ स भगवान् सौधर्मेन्द्रसंचारितामृतवन्तं निजाङ्गुष्ठमेव चुचूष। मातृस्तन्यपानंन चकार आऽन्नाशनात्, तीर्थबुराणां तादृशाचरितत्वात्। ततःक्रमेण पिता 'ऋषभ' इति भगवतो नाम विदधे / इन्द्रस्तु तदानी-मिक्ष्वाकुवंशमतिष्ठिपत् / विंशतिलक्षपूर्वपर्यन्तं भगवान् कुमारावस्थायामेवातिष्ठत् / वासवो विनीताख्या नगरी कारयित्वा भगवते प्रायच्छत् राज्याभिषेकं चाकरोत् / आत्रिषष्टिलक्षपूर्ववर्ष महाराजपदवीमनुबभूव / सुनन्दा सुमङ्गलाचेतिद्वे पल्यौ भगवतो बभूवतुः / तयोर्भरतबाहुबलीप्रमुखं सूनुशतमजनिष्ट / तथा आदित्ययशः- सोमयशः- प्रभृतयो बहवः पौत्रा अभूवन्। ततो भगवान् अयोध्याराज्यं ज्येष्ठपुत्राय भरताय ददौ, बाहुबलिने च तक्षशिलाराज्यमदात् / अन्येभ्योऽपि तनुजेभ्यो यथार्ह देशनगरादिराज्यं प्रदाय स्वयं चैत्रकृष्णाष्टभ्यां दीक्षा जगृहे, अक्खय-न०(अक्षज) अक्षाद् इन्द्रियसन्निकर्षाज्जातः / जन डः। इन्द्रियविषयसन्निकर्षोत्पन्ने प्रत्यक्षज्ञाने, वाच० 1 "अक्षव्यापारमाश्रित्य, भवदक्षजमिष्यते / तद् व्यापारो न तोति, कथमक्षभवं भवेत् ?"| आ०म०वि०। *अक्षत-पुं०। ब० व० / नक्षताः / अखण्डतण्डुले, दर्श० / प्रव०। पञ्चा० / सस्यमात्रे / न०1 क्षययुक्तभिन्ने, उत्कर्षान्विते, अविदारिते, यवेच, त्रि०क्षणभावे, वाच०।परिपूर्णे,स०१ सम०। प्रश्नान०त०। क्षयाभावे, न०। वाच०। *अक्षय-त्रि० नाऽस्य क्षयोऽस्तीत्यक्षयः। नं०।अपर्यवसाने, आव०४ अ० / अप्रणाशिनि, पञ्चा०४ विव० / स० 1 "सिवमयलमरुअमणंतमक्खयमव्वाबाहमपुणरावत्तियं सिद्धिगइ-नामधेयं ठाणं संपाविउकामे" अक्षयं क्षयरहितं साद्यनन्तवत्त्वात् / कल्प० / अनाशंसाद्यपर्यवस्थितिकत्वात् / म०१ श० 1 उ० / विनाशकरणाभावात् / जी०३ प्रति०। रा० ध० "स पन्नया अक्खयसागरे वा, महोदही वा वि अणंतपारे" स भगवान् प्रज्ञयाऽक्षयोऽक्षीणज्ञान इत्यर्थः। सूत्र०१ श्रु०६अ०। अक्खयणिहि-पुं०(अक्षयनिधि) देवभाण्डागारे, अक्खयणिहिं च अणुवट्टेस्सामि''। विपा०१ श्रु०७ अ०। अव्यये भण्डागारे।ज्ञा०१ श्रु०२ अ०। अक्खयणिहितव-न०(अक्षयनिधितपस्) लौकिकफलप्रदे तपोभेदे, यत्र जिनबिम्बस्य पुरतः स्थापितकलशः प्रतिदिन प्रक्षिप्यमाणतण्डुलमुष्ट्या यावद्भिर्दिनैः पूर्यते तावन्ति दिनान्येकाशनेनाऽकारि तपोऽक्षयनिधितपः। पञ्चा०६ विव०।