________________ अकम्म 120 - अभिवानराजेन्द्रः - भाग 1 अकम्मभूमग मुग्गसिंवलियाइ वा माससिंवलियाइ वा सिंवलिसिंवलियाइवा एरंडमिंजियाइ वा उण्हे दिण्णा सुक्का समाणी फुडित्ताणं एगंतमंतं गच्छइ, एवं खलु गोयमा ! कहण्हं भंते ! निरिंधणयाए अकम्मस्स गई? गोयमा ! से जहा नामए धूमस्स इंधणविप्पमुक्कस्स उड्ढे वीससाए निव्वाघाएणं गई पवत्तइ, एवं खलु गोयमा ! कहण्हं भंते ! पुव्वप्पओगेणं अकम्मस्स गई पण्णत्ता? गोयमा! से जहानामए कंडस्स कोदंडविप्पमुक्कस्स लक्खा-भिमुहं निव्वाघाएणं गई पवत्तइ, एवं खलु गोयमा ! पुव्वप्पओगेणं अकम्मस्स गई पवत्तइ एवं खलु गोयमा ! नीसंगयाए निरंगणयाए जाव पुव्वप्पओगेणं अकम्मस्स गई पवत्तइ। (गई पण्णायइत्ति) गतिः प्रज्ञायतेऽभ्युपगम्यत इति यावत् (निस्संगयाएत्ति) निःसङ्गतया कर्ममलापगमेन (निरंगणयाएत्ति) नीरागतया मोहापगमेन (गइपरिणामेणं ति) गतिस्वभावतया अलाबुद्रव्यस्येव (बंधणछेयणयाएत्ति) कर्मबन्धनच्छेदनेन एरण्डफलस्येव (निरंधणयाएत्ति) कर्मेन्धनविमोचनेन धूमस्येव (पुव्वप्पओगेणंति) सकर्मतायां गतिपरिणामवत्त्वेन बाणस्येवेति / एतदेव विवृण्वन्नाह (कहण्हमित्यादि) (निरुवहयंति) वाताद्यनुपहतं (दब्भेहि यत्ति) दर्भः समूलैः (कुसेहि यत्ति) कुशैर्दभैरव छिन्नमूलैः (भूइंभूइत्ति) भूयो भूयः (अत्थाहेत्यादि) इह मकारौ प्राकृतप्रभवावतोऽस्ताघेऽत एवातारेऽत एवापौरुषेयेऽपुरुषप्रमाणे / (कलसिंबलियाइ वा) कलायाभिधानधान्यफलिका (सिंबलित्ति) वृक्षविशेषः (एरंडमिंजियाइ वा) एरण्डफलं (एगंतमंतं गच्छइत्ति) एक इत्येवमन्तो निश्चयो यत्रासावेकान्त एक इत्यर्थोऽतस्तमन्तं भूभागं गच्छति। इह च बीजस्य गमनेऽपि यत् कलाय सिम्बलिकादि। तदुक्तं "तत्तयोरभेदोपचारादिति" (उड्ढे वीससाएत्ति) ऊर्ध्वं विस्रसया स्वभावेन (निव्वघाएकति) कटाद्याच्छादनाभावात्, भ०७ श०१ उ०। (अकम्मस्स ववहारो ण विञ्जति)। आचा०१ श्रु०२ अ०१ उ०। न विद्यते कर्मास्येति अकर्मा कर्मरहिते, वीर्यान्त-रायक्षयजनिते जीवस्य सहजे वीर्ये, "किन्तु वीरस्स वीरतं, कहं चेयं पवुचई / कम्भमेगे पवेदेति, अकम्मं वा वि सुव्वया'। सूत्र०१ श्रु०७ अ०॥ अकम्मओ-अव्य०(अकर्मतस्) कर्माणि विनेत्यर्थे, "णो अकम्मओ विभत्तिभावं परिणमइ / भ०१२ श०५ उ०। अकम्मंस-पुं०(अकर्माश) न विद्यते कर्मांशो यस्य सोऽकर्मा -शः / कर्मलवविप्रमुक्ते "अप्पत्तियं अकम्मसे, एयमट्ठम्मिगे चुए"। सूत्र० 1 श्रु०१ अ०२ उ०। विगतघातिकर्मणि स्नातकभेदे, भ० 25 श० 6 उ०। अकम्मकारि(न्)-त्रि०(अकर्मकारिन्) स्वभूमिकानुचित कर्मकारिणि, प्रश्न०आश्र०२ द्वा०॥ अकम्मग-त्रि०(अकर्मक) नास्ति कर्म यस्य। बहु०। कप्। व्याकरणोक्ते कर्मशून्ये धातौ / "लः कर्माणि च भावे चाकर्म-केभ्यः'1३१४१६६। इति (पाणिनिः)"फलव्यापारयोरेक-निष्ठतायामकर्मकः" इति हरिः / स्त्रियां टापि कापि अत इत्वम् अकर्मिका। "प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया" इति हरिः / वाच० / अविवक्षितकर्मका अकर्मका भवन्ति / यथा, पश्य ! मृगो धावति, आचा० 1 श्रु०१ अ०३ उ०। अकम्मभूमग-पुं०(अकर्मभूमक) कर्म कृषिवाणिज्यादि मोक्षानुष्ठान वा तद्विकला भूमिर्येषां ते अकर्मभूमास्ते एवाकर्मभूमका आर्षत्वात्समासान्तोऽप्रत्ययः / जीवा०१ प्रति / अकर्मभूमिजेषु गर्भव्युन्क्रान्तिकमनुष्येषु, प्रज्ञा०१ पद। ते च त्रिंशद्विधाः। से किं तं अकम्मभूमिगा ? अकम्मभूमिगा तीसतिविहा पण्णत्ता। तं जहा-पंचहिं हेमवएहिं पंचहिं हेरण्णवएहिं पंचहिं हरिवासेहिं पंचहिं रम्मगवासेहिं पंचहिं देवकुरुएहिं पंचहिं उत्तरकुरुएहिं / से तं अकम्मभूमिगा। अथ के ते अकर्मभूमिकाः? सूरिराह अकर्मभूमिकास्त्रिशद्विधाः प्रज्ञप्ताः। तच्च त्रिंशद्विधत्वं क्षेत्रभेदात् / तथा चाह / "तं जहा पंचहिं हेमवएहिं " इत्यादि। पञ्चभिर्हमवतैः पञ्चभिर्हरण्यवतैः पञ्चभिर्हरिवर्षः पञ्चभिः रम्यक वर्षेः पञ्चभिर्देवकु रुभिः पञ्चभिरुत्तरकु रुभिभिंद्यमानास्त्रिंशद्विधा भवन्ति / षण्णां पञ्चानां त्रिंशत्संख्यात्मकत्वात्। तत्र पञ्चसु हैमवतेषु मनुष्या गव्यू-तिप्रमाणशरीरोच्छ्रया पल्योपमायुषो वज्रर्षभनाराचसंहननिनः समचतुरस्रसंस्थानाः चतुष्षष्टिपृष्ठकरण्डकाश्चतुर्थातिक्रमभो-जिनः एकोनाशीतिदिनान्यपत्यपालकाः। उक्तं च " गाउयमुच्चा पलिओवमाउणो वज्जरिसहसंघयणा / हेमवएरन्नयए, अहमिंदनरा मिहुणवासी ||1|| चउसट्ठीपिट्ठकरंडयाण मणुयाण तेसिमाहारो / भत्तस्स चउत्थस्सेगुणसिइदिणऽवच्चपालणया" // 2 // पञ्चसु हरिवर्षेषु पञ्चसु रम्यकेषु द्विपल्योपमायुषो द्विगव्यूतिप्रमाणशरीरोच्छ्या वर्षभनाराचसंहननिनः समचतुरस्रसंस्थानाः षष्ठ भक्तातिक माहारग्राहिणोऽष्टाविंशत्यधिक शतसंख्यपृष्ठ - करण्डकाश्चतुष्पष्टिदिनान्यपत्यपालकाः। (आहच "हरिवास-रम्मएसु, आउपमाणं सरीरमुस्सेहो।पलिओवमाणि दोन्निय, दोन्नियकोसुस्सिया भणिया // 1 // छट्ठस्स य आहारो, चउसट्ठिदिणाणि पालणा तेसिं / पिट्ठकरंडाण सयं, अट्ठावीसं मुणेयव्वं // 2 // पंचसु देवकुरुषु पंचस्वुत्तरकुरुषु त्रिपल्योपमायुषो गव्यूतित्रय-प्रमाणशरीरोच्छ्रयाः समचतुरस्रसंस्थाना वज्रर्षभनाराचसंहननिनः षट्पञ्चाशदधिकशतद्वयप्रमाणपृष्ठकरण्डका अष्टमभक्ता-तिक्रमाहारिण एकोनपञ्चाशदिनान्यपत्यपालकाः। तथोक्तंच"दोसु वि कुरूसु मणुया, तिपल्लपरमाउस। तिकोसुचा। पिट्टकरंड-सयाई . दोछप्पन्नाइ मणुयाणं / / 1 / / सुसमसुसमाणुभावं, अणुभवमाणाणऽवचगोवणया / अउणापन्नदिणाई, अट्ठमभत्तस्स आहारो" // 2 // एतेषु सर्वेष्वपि क्षेत्रेष्वन्तरद्वीपेष्विव मनुष्याणामुपयोगाः कल्पद्रुमसम्पादिताः नवरमन्तरद्वीपापेक्षया पञ्चसु हैमवतेषु पञ्चसु हैरण्यवतेषु मनुष्याणामुत्थानबलवीर्यादिकं कल्पपादपफलानामास्वादो भूमेर्माधुर्यमित्येवमादिका भावाः पर्यायानधिकृत्यानन्तगुणा द्रष्टव्यास्तेभ्योऽपि पञ्चसु हरिवर्षेषुपञ्चसु रम्यकवर्षेषु अनन्तगुणास्तेभ्योऽपि पञ्चसु देवकुरुषु पञ्चसूत्तरकुरुष्वनन्तगुणाः। प्रज्ञा०१पदाजी० आ०म०द्वि०॥ एषां कल्पवृक्षाः अकम्मभूमयाणं मणुआणं दसविहा रुक्खा उवभोगत्ताए उवत्थिया पण्णता। तंजहा- मत्तंगयाय भिंगा, तुडिअंगा दीवजोइचित्तंगा। चित्तरसा मणिअंगा, गेहागारा अणग्गिया य। तथा अकर्मभूमिकानां भोगभूमिजन्मनां मनुष्याणां दशविधा (रुक्खति) कल्पवृक्षाः (उवभोगत्ताएत्ति) उपभोग्यत्वाय