________________ भकप्पट्ठिय 117 - अभिवानराजेन्द्रः - भाग 1 अकप्पट्टिय संघस्स पुरिममज्झिम-समणाणं चेव समणीणं / चउण्हं उवस्सयाण, कायव्वा मग्गणा होति।। आधाकर्मकारी सामान्येन विशेषेण वा संघस्योद्देशं कुर्यात् तत्र सामान्येनाविशेषितं संघमुद्दिशति विशेषेण तुपूर्व वा मध्यम वा पश्चिमेवा संघ चेतसि प्रणिधत्ते श्रमणानामप्योघतो विभागतश्च निर्देशं करोति, तत्रौघतो विशेषितश्रमणानां विभागतः पाञ्चया-मिक श्रमणानां चातुर्यामिक श्रमणानामेवं श्रमणीनामपि वक्तव्यं तथा चतुर्णामुपाश्रयाणामप्येवमेव सामान्येन विशेषेण च मार्गणा कर्तव्या भवति, तत्र चत्वार उपाश्रया इमे पाञ्चयामिकानां श्रमणानामुपाश्रयमुद्दिशतीत्येकः पाञ्चयामिकानामेव श्रमणीनां द्वितीयः, एवं चातुर्यामिक श्रमणश्रमणीनामप्येवं भावयति। संघसमुद्दिसित्ता, पढमो बितिओय समणसमणीओ। ततिओ उवस्सए खलु, चउत्थओ एगपुरिसस्स। आधाकर्मकारी प्रथमो दानश्राद्धादिः संघं सामान्येन विशेषेण वा समुद्दिश्याधाकर्म करोति / द्वितीयः श्रमणश्रमणीः प्रणिधाय करोति। तृतीय उपाश्रयानुद्दिश्य करोति। चतुर्थ एक पुरुषस्योद्देशं कृत्वा करोति। अत्र यथाक्रम कल्पाकल्पविधिमाहजदि सव्वं उद्दिसिउं, संघं करेति दोण्ह विण कप्पे। अहवा सव्वे समणा, समणी वा तत्थ वि तहेव।। यदीत्यभ्युपगमे यदि नाम ऋषभस्वामिनोऽजितस्वामिनश्च तीर्थमकत्र मिलितं भवति पार्श्वस्वामिवर्द्धमानस्वामिनोर्वा तीर्थ मिलितं यदा प्राप्यते तदा तत्कालमङ्गीकृत्यायं विधिरभिधीयते, सर्वमपि संघ सामान्येनो द्दिश्य यदाधाकर्म करोति ।यद्वा द्वयोरपि पाञ्चयामिकचातुर्यामिकसंघयोन कल्पते, अथ सर्वान् श्रमणान् सामान्येनोद्दिशति तत्रापि श्रमणानामपि सामान्येनोद्देशेन तथैव सर्वेषामपि पाञ्चयामिकानां चातुर्यामिकानांन कल्पते एवं श्रमणीनामपि सामान्येनोद्देशे सर्वासामकल्प्यम्। ___ अथ विभागोद्देशे विधिमाहजं पुण पुरिसं संघं, उद्विशती मज्झिमस्स तो कप्पो। मज्झिमउद्दिढे पुण, दोण्हं पि अकप्पितं होति / / यदि पुनः पूर्वऋषभस्वामिसत्कं संघमुद्दिशति ततो मध्यमस्याजितस्वामिसंघस्य कल्पते अथमध्यमं संधमुद्दिशति तदा द्वयोरपि पूर्वमध्यमसंघयोरकल्पं भवति,एवंपश्चिमतीर्थकर-सत्कसंघमुद्दिश्य कृतं मध्यमस्य कल्पते मध्यमस्य कृतं द्वयोरपिन कल्पतेएमेव समणदग्गे, समणीवग्गे य पुव्वमुद्दिढे / मज्झिमगाणं कप्पे, तेसि कडं दोण्हं विण कप्पं // एवमेव श्रमणवर्गे श्रमणीवर्गे पूर्वेषामृषभस्वामिसंबन्धिनां श्रमणानां श्रमणीनां वा यदुद्दिष्टमुद्दिश्य कृतं तन्माध्यमिकानां श्रमणश्रमणीनां कल्पते, तेषां मध्यमानामर्थाय कृतमुभयेषामपि पूर्वमध्यमानां साधुसाध्वीनांन कल्पते। एवं पश्चिममध्यमानामपि वक्तव्यम्। अथैकपुरुषोद्देशे विधिमाहपुरिमाणं एगस्स वि, कयं तु सव्वेसि पुरिमचरिमाणं। चरिमाणं ण वि कप्पे, ठवणामत्तगहणं तहिं नत्थि // पूर्वेषामृषभस्वामिसत्कानामेकस्यापि पुरुषस्यार्थाय कृतं सर्वेषामपि पूर्वपश्चिमानामकल्प्यं पश्चिमानामप्येकस्यार्थाय कृतं सर्वेषां पूर्वपश्चिमानामकल्प्यम्। एतच स्थापनामात्र प्ररूपणामात्रं संज्ञाविज्ञानार्थ क्रियते बहुकालान्तरत्वेन पूर्वपश्चिमसाधूनामेक-त्रासंभवात् तत्र परस्परं ग्रहणं नास्ति, न घटते। मध्यमानां तु यदि सामान्येनैकं साधुमुद्दिश्य कृतं, तत एकेन गृहीते शेषाणां कल्प्यते / अथ किमप्येकं विशेष्य कृतं ततस्तस्यैवाकल्प्यं शेषाणां सर्वेषामपि कल्पं, पूर्वपश्चिमानांतु सर्वेषामपि तन्न कल्पते। अथोपाश्रयोद्देशे विधिमाहएवमुपस्सय पुरिसे, उद्दिट्ठणं तं तु पच्छिमाऽमुजो। मज्झिगं तु वज्जाणं, कप्पे उहिट्ठसम पुव्वे // एवं यदि सामान्ये नोपाश्रयाणामुद्देशं करोति तदा सर्वेषामकल्प्यम् / अथ पूर्वेषामाद्यतीर्थकरसाधूनामुपाश्रयानुद्दिशति ततस्तदर्थमुद्दिष्टं पश्चिमानामुपलक्षणत्वात्पूर्वे वा साधवः सर्वेऽपि न भुञ्जते, मध्यमानां पुनः कल्पनीयम् / अथ मध्यमसाधू-नामुपाश्रयान् सर्वानुद्दिश्य करोति, ततो मध्यमानां पूर्वपश्चिमानां सर्वेषामकल्प्यम्। अथ क्रियत एव मध्यमोपाश्रयानुद्दिशति, ततस्तद्वानां तेषूपाश्रयेषु ये श्रमणास्तान वर्जयित्वा शेषाणां मध्यमश्रमणश्रमणीनां कल्पते / (उद्दिष्टसमपुटवेति) पूर्व साधवः ऋषभस्वामिसत्का भण्यन्ते ते उद्दिष्ट समये साधुमुद्दिश्य कृतं तत्तुल्याः / एक मुद्दिश्य कृतं सर्वेषामकल्पनीयमिति भावः। एवं तावत्पूर्वेषां मध्यमानां च भणितम्। अथ मध्यमानां पश्चिमानां वा अभिधीयतेसव्वे समणा समणी, मज्झिमगा चेव पच्छिमा चेव। मज्झिमगसमणसमणी, पच्छिमगा समणसमणीतो।। सर्वे श्रमणाः श्रमण्यो वा यदुद्दिश्यन्ते तदा सर्वेषामकल्प्यं (मज्झिमगा चेवत्ति) अथ मध्यमाः श्रमणाः श्रमण्यो वा उद्दिष्टास्ततो मध्यमानां पश्चिमानां च सर्वेषामकल्प्यम् (पच्छिमा चेवत्ति) पश्चिमानां श्रमणश्रमणीनामुद्दिष्टे तेषां सर्वेषामकल्प्ये मध्यमानां कल्प्यं मध्यमश्रमणानामुद्दिष्टं मध्यमसाध्वीनां कल्पते मध्यमश्रमणीनामुद्दिष्टमध्यमसधूनां कल्पते / पश्चिमश्रमणीनामुद्दिष्टे पश्चिमसाधुसाध्वीनां न कल्पते, मध्यमानामुभयेषामपि कल्पते / एवं पश्चिमश्रमणीनामप्युद्दिष्ट वक्तव्यम्। उवसयगणिय विभाइअ, उञ्जगजड्डा य वंकजड्डाय। मज्झिमगउज्जुपण्णा, पेच्छासण्णायगागमणं / / अथोपाश्रयेषु साधून गणितविभाजितान् करोति गणितानामियतां पञ्चादिसंख्याकानां दातव्यं विभाजिता अमुकस्यामुकस्येति नामोत्कीर्तनेन निर्धारिताः अत्र चतुर्भङ्गी यथा गणिता अपि विभाजिता अपि १,गणितान विभाजिता 2, विभाजिता नगणिता 3, न गणितान विभाजिता 4 / अत्र प्रथमभने मध्यमानां गणित-विभाजितानामेवाकल्प्यं शेषाणां कल्पते / द्वितीयभङ्गे यावत् प्रमाणैर्न गृहीतं तावत् सर्वेषामकल्प्यं गणितप्रमाणैर्गृहीते मध्य-मानां शेषाणां कल्प्यम् / तृतीयभङ्गे यावत् सदृशनामानस्तेषां सर्वेषां सममकल्प्यं शेषाणां कल्प्यम्। चतुर्थभङ्गे सर्वेषां कल्प्यं, पूर्वपश्चिमानां तु सर्वेष्वपि भङ्गेषु न कल्पते। (साधूनां कल्प-स्थितत्वात् कल्पस्थितत्वकारणं कप्पशब्दे)। बृ०॥ एतेन कारणेन चातुर्यामिकपाञ्चयामिका-नामाधाकर्मग्रहणे विशेषः कृत इति प्रक्रमः।