________________ अंतरदीव 97 - अभिधानराजेन्द्रः - भाग 1 अंतरदीव व्यास्तद्यथा-अश्वकर्णस्य परत उल्कामुखः हरिकर्णस्य परतो मेघमुखः, अकर्णस्य परतो विद्युन्मुखः, कर्णप्रावरणस्य परतो विद्युद्दन्तः। जी०३ प्रति / प्रज्ञा० / कर्म०। तेसु णं दीवाणं चउसु वि दिसासु लवणसमुदं णव णव जोयणसयाई ओगाहित्ता एत्थ णं चत्तारि अंतरदीवा पण्णत्ता। तंजहा-घणदंतदीवे लट्ठदंतदीवे गूढदंतदीवे सुद्धदंतदीवे। तेसु गं दीवेसु चउव्विहा मणुस्सा परिवसति / तंजहा- घणदंता लट्ठदंता गूढदंता सुद्धदंता। एतेषामप्युल्कामुखादीनां चतुर्णा द्वीपानां परतो यथाक्रमं पूर्वोतरादिविदिक्षु प्रत्येकं नव योजनशतानि लवणसमुद्रमवगाह्य नवयोजनशतायामविष्कम्भाः पञ्चचत्वारिंशदधिकाष्टाविंशतियोजनशतपद्मवरवेदिकावनखण्डसमवगूढा जम्बूद्वीपवेदिकान्तात् नवयोजनशतप्रमाणान्तरा घनदन्तलष्ट दन्तगूढदन्तशुद्धदन्तनामानश्चत्वारो द्वीपास्तद्यथा-उल्कामुखस्य परतो घनदन्तः, मेघमुखस्य परतो लष्टदन्तः, विद्युन्मुखस्य परतो गूढदन्तः, विद्युइन्तस्य परतः शुद्धदन्तः। जी०३ प्रति०। अन्तरद्वीपप्रकरणार्थं संग्रहगाथाः। "चुल्लहिमवंतपुव्वा-वरेण विदिसासु सागरं तिसए। गंतूणंतरद्वीवा, तिण्णि सए होति वित्थिण्णा / / 1 / / अउणावण्णनवसए, किंचूणे परिहिएसिमे नामा। एगोरुय आभासिय, वेसाणी चेव लंगूली / / 2 / / एएसिं दीवाणं, परओ चत्तारि जोयणसयाई। ओगाहिऊण लवणं, स पडिदिसिंचउसयपमाणा।।३।। चत्तारंतरदीवा, हयगयगोकण्णसंकुलीकण्णा। एवं पंच सयाई,छ सत्त अढे व नव चेव // 4 // ओगाहिऊण लवणं, विक्खंभोगाहसरिसया भणिया। चउरो चउरो दीवा, इमेहिं नामेहिं नायव्वा / / 5 / / आयंसमेंढगमुहा, अओमुहा गोमुहा य चउरते। अस्समुहा हत्थिमुहा, सीहमुहा चेव वग्घमुहा॥६॥ तत्तो य अस्सकण्णा, हथिअकण्णा अकण्णपाउरणा। उक्कामुह मेहमुहा, विज्जुमुहा विज्जुदंताय / / 7 / / घणदंत लट्ठदंता, निगूढदंता य सुद्धदंता य। वासहरे सिहरिम्मि वि, एवं चिय अट्ठवीसावि।।८।। अंतरदीवेसु नरा, धणूसयअटूसिया सया मुइया। पालिंति मिहुण धम्म, पल्लस्स असंखभागाओ॥६॥ चउसद्धिं पिट्टिकरंडगाणि मणुयाण वचपालणया। अउणासीइंतु दिणा, चउत्थभत्तेण आहारो त्ति // 10 // स्था० 4 ठा० / एतेषामेव द्वीपानामवगाहनायामविष्कम्भपरिरयपरिमाणसंग्रहगाथाषट्कमाहपढमम्मि तिण्णि उ सया, सेसाण सतोत्तरा नवउज्जा च। ओगाहण विक्खंभ, दीवाणं परिरयं वोच्छं / / 1 / / पढमचउक्कपरिरया, बीयचउक्कस्स परिरओ अहिओ / सोलेहि तिहि उ जोयण-सएहि एमेव सेसाणं // 2 // एगोरुयपरिक्खेवो, नव चेव सयाई अउणपण्णाई / बारसपण्णट्ठाई, हयकण्णाणं परिक्खेवो // 3 // पण्णरस एक्कसीया, आयंसमुहाण परिरओ होइ / अट्ठारसनउयाओ, आसमूहाणं परिक्खेवो // 4 // बावीसं तेराई, परिक्खेवो होइ आसकण्णाण / पणवीस अउणतीसा, उक्कामुहपरिरओ होइ ||5|| दो चेव सहस्साइं, अद्वेव सया हवंति पणयाला / घणदंता दीवाणं, विसेसमहिओ परिक्खेवो // 6|| प्रथमद्वीपचतुष्के चिन्त्यमाने त्रीणि योजनशतानि अवगाहना लवणसमुद्रावगाहं विष्कम्भं च विष्कम्भग्रहणादायामोऽपि गृह्यते, तुल्यपरिमाणत्वात्।जानीहि इति क्रियाशेषः। शेषाणांद्वीप-चतुष्काणां शतोत्तराणि त्रीणि शतानि अवगाहनाविष्कम्भं तावज्जानीयात् यावन्नव शतानि। तद्यथा- द्वितीयचतुष्के चत्वारि-शतानि, तृतीये पञ्च शतानि, चतुर्थे षट् शतानि, पञ्चमे सप्त शतानि, षष्ठे अष्टौ शतानि, सप्तमे नव शतानि। अत ऊर्ध्य द्वीपा- नामेकोरुकप्रभृतीनां परिरयप्रमाणं वक्ष्ये। प्रतिज्ञातमेव निर्वाह-यति- "पढमचउक्केत्यादि" प्रथमचतुष्कपरिरयात् प्रथमदीपचतु-ष्कपरिरयपरिमाणात् द्वितीयचतुष्कस्य द्वितीयद्वीपचतुष्टयस्य परिरयः परिरयपरिमाणमधिकः षोडशैः षोडशोत्तरैस्त्रि-भिोजनशतैरेवमेवानेनैव प्रकारेण शेषाणां द्वीपानां द्वीपचतुष्काणां परिरयपरिमाणमधिकं पूर्वपूर्वचतुष्कपरिरयपरिमाणादवसात-व्यमेतदेव चैतेन दर्शयति-(एकोरुयेत्यादि) एकोरुकपरिक्षेप एकोरुकोपलक्षितप्रथमद्वीपचतुष्कपरिक्षेपो नव शतानि एकोनपञ्चाशदधिकानि / ततस्त्रिषु योजनशतेषु षोडशोत्तरेषु प्रक्षिप्तेषु "हयकण्णाणमिति'" बहुवचनात् हयकर्णप्रमुखाणां द्वितीयानां चतुर्णा द्वीपानां परिक्षेपो भवति / स चद्वादश योजनशतानि पञ्चषष्ट्यधिकानि। तत्रापि त्रिषु योजनशतेषु षोडशोत्तरेषु प्रक्षिप्तेषु (आयंसमुहाणति) आदर्शमुखप्रमुखाणां तृतीयानां चतुर्णा द्वीपानां परिरयपरिमाणं भवति। तच्च पञ्चदशयोजनशतान्येकाशीत्य-धिकानि / ततो भूयोऽपि त्रिषु योजनशतेषु षोडशोत्तरेषु प्रक्षिप्तेषु (आसमुहाणंति) अश्वमुखप्रभृतीनां चतुर्थानां चतुर्णा द्वीपानां परिक्षेपस्तद्यथा- अष्टादशयोजनशतानि सप्तनवत्यधिकानि / तेष्वपि त्रिषु योजनशतेषु षोडशोत्तरेषु प्रक्षिप्तेषु (आसकण्णाणंति) अश्वकर्णप्रमुखाणां पञ्चमानां चतुर्णा द्वीपानांपरिक्षेपो भवति / तद्यथा- द्वाविंशतिर्योजनशतानि त्रयोदशाधिकानि / ततो भूयोऽपि त्रिषु योजनशतेषु षोडशोत्तरेषु प्रक्षिप्तेषु उल्कामुखपरिरयः। उल्कामुखप्रमुखषष्ठद्वीपचतुष्कपरिरयपरिमाणं भवति / तद्यथापञ्चविंशति-र्योजनशतानि एकोनत्रिंशदधिकानि / ततः पुनरपि त्रिषु योजनशतेषु षोडशोत्तरेषु प्रक्षिप्तेषु घनदन्तद्वीपस्य धनदन्तप्रमुखसप्तमद्वीपचतुष्कस्य परिक्षेपस्तद्यथा-वे सहस्रे अष्टौविशतानि पञ्चचत्वारिंशदधिकानि (विसे समहिओइति) किं चिविशेषमधिकोऽधिकृतः परिक्षेपः पञ्चचत्वारिंशानि किंचिद्विशेषाधिकानीति भावार्थः / इदं पदमन्तेऽभिहितत्वात्सर्वत्राप्यभिसंबन्धनीयं, तेन सर्वत्रापि किंचिद्विशेषाधिकमुक्तरूपं परिरयपरिमाणमवसातव्यम् / तदेवमेते हिमवति पर्वते चतसृषु विदिक्षु व्यवस्थिताः सर्वसंख्यया अष्टाविंशतिः। एवं हिमवत्तुल्यवर्णप्रमाणे पाहदप्रमाणायाम- विष्कम्भावगाहपुण्डरीकहृदोपशोभितशिखरिण्यपि पर्वते लव- णोदादर्णवजलसंस्पर्शादारभ्य यथोक्तप्रमाणान्तराश्चतसृषु विदिक्षु एकोरुकादिनामानोऽक्षुण्णापान्तरालायामविष्कम्भा अष्टा-विंशतिसंख्या द्वीपा वेदितव्याः। कहि णं भंते ! उत्तरिल्लाणं एगुरुयमणुस्साणं