________________ अंतरगिह 87 - अभिधानराजेन्द्रः - भाग 1 अंतरगिह वागरणं पुण जा जस्स धम्मता होति अत्थस्स।। ज्ञायते अनेन दान्तिकोऽर्थ इति ज्ञातं दृष्टान्त इति चैकार्थ, व्याकरणं पुनर्या यस्य मोक्षादेरर्थस्य धर्मता स्वभावस्तस्य निर्वचनम् / अथोदकदृष्टान्तो भाव्यते-एगो साहू उन्भामग-भिक्खायरियाए अन्नं गार्म वच्चइ, तत्थ अंतरा गिहत्थो मिलितो, ते दो वि वचंता अंतरा पहे उदगं उत्तिण्णा, सो अगारो गाम पविट्ठो, तस्स य भगिणी अस्थि, तीए घरं पाहुणगो गतो। साहू वि भिक्खं हिंडतोतंघरंगतो, भगिणीए पुरेकम्म कयं, साहुणा पडिसिद्धं / भगिणीए कहियं-कीस न गिण्हसि ? साहू भणइ-उदगसमारंभो न वट्टइ। अगारा भणंति-जे मए समं पंथे उदगं उत्तिण्णो सि, तं किह कप्पइ ? अहो मायाविणो दुठ्ठिधम्माणो त्ति। साहू भणइ-न वयं मायाविणो, न वा दुट्टिधम्माणो, किंतु "पप्पं खु परिहरामो, अप्पप्पं विवजउंण विज्जति हु। पप्पं खलु सावज, वजंतो होइ अणवजो" प्राप्यमेव परिहर्तुं शक्यमेवं वयं परिहरामः, अप्राप्यस्य परिहर्तुमशक्यस्य मार्गक्रमायातोदकवाहकादेर्विवर्जकः परिहर्ता न विद्यते, अत एव प्राप्यं सावधं पुरःकर्मादिक वर्जयन् अनवद्यो निर्दोषो भवति / अपि च नाऽयमेकान्तो यदेकत्राऽनवद्यतया दृष्ट, तदन्यत्र प्राप्यमवद्यमेव भवति। तथाहिचिरपाहुणतो भगिणिं, अवयासिंतो अदोसवं होति। तुं चेव मज्झ सक्खी, गरहिज्जइ अण्णहिं काले / चिरकालादायातः प्राघूर्णको भगिनीमवकाशमानः सस्ने-हमालिङ्गन् अदोषवान् भवति / तथा चाऽत्र त्वमेव मम साक्षी प्रमाणं / सांप्रतमेव भवता चिरप्राघूर्णकतया भगिनीपरिष्वङ्ग स्य कृतत्वादिति भावः। तामेव च भगिनीमन्यस्मिन् काले परिष्वजन गर्दाते निन्द्यते, अत्रापि त्वमेव प्रमाणमिति। तथापादेहि अधोतेहि वि, आकमिय तम्मि कीरती अचा। सीसेण वि संकिञ्जति, सचेव चितीकया ठविओ।। अर्चा प्रतिमा, सा यावन्नाद्यापि प्रतिष्ठिता, तावदधौ तैरपि पादैराक्रम्योपरि चढित्वाऽपि क्रियते। सैव प्रतिमा चितीकृता चैत्यत्वेन व्यवस्थापिता शीर्षणापि स्प्रष्टुं शक्यते, शिरसा स्पृशद्भिरपि शङ्का विधीयत इति भावः। केइ सरीरावयवा, देहत्था पूइया न पुण विउता। सोहिजंति वणमुहा, मलम्मि बूढे ण सव्वे उ॥ केचित् शरीरावयवा दन्तकेशनखादयो देहस्थाः सन्तः पूजिताः प्रशस्ता भवन्ति, न पुनर्वियुताः शरीरात्पृथग्भृताः / तथा व्रणमुख्यान्यपि श्रोत्रचक्षुःपायुप्रभृतीनि मले व्यूढे सति न सर्वाण्यपि शोध्यन्ते, किंतु कानिचिदेवेति। जइ एगत्थुवलद्धं, सव्वत्थ वि एवमण्णसी मोहा। भूमीतो होति कणगं, किं ण सुवण्णा पुंणो भूमी। यदि नाम एकत्र यदुपलब्धं सर्वत्रापि तेन भवितव्यमित्येवं मोहादज्ञानात् मन्यसे, ततः कथय-भूमीतः कनकमुत्पद्यमानं दृश्यते, ततः सुवर्णात्पुनरपि किं न भूमिः सम्पद्यते। तम्हा उ अणेगंतो, ण दिट्ठमेगत्थ सव्वहिं होति। लोए भक्खमभक्खं, पिज्जमपिज्जं च दिट्ठाई। तस्मादनेकान्तोऽनियमो यः कीदृश इत्याह- नैकत्र दृष्टं सर्वत्रापि | भवतीति। तथाच लोके प्राण्यङ्गत्वे समानेऽप्योदनपक्वान्नादिकं भक्ष्यं, मांसवसादिकमभक्ष्यं, तक्रजलादिकं पेयं, मद्यरुधिरा दिकमपेयमित्यादीनि पृथक् व्यवस्थोत्तराणि दृष्टानि तथा अपि उदक-समारम्भादौ मन्तव्यानि गतमेकज्ञातम्। अथैकव्याकरणेन यथा धर्मोऽभिधीयते, तथा दर्शयतिजं इच्छसि अप्पणतो, जंच ण इच्छसि अप्पणतो। तं इच्छ परस्स वि य, इत्तियगं जिणसासणयं / / यदात्मनः स्वजीवस्य सुखादिकमिच्छसि, यच्च दुःखादिक-मात्मनो नेच्छसि, तत्परस्याप्यात्मव्यतिरिक्तस्य जन्तोरिच्छ आत्मवत्परमपि पश्येति भावः। एतावत् जिनशासनमियन्मात्रो जिनोपदेश इति।गाथया पुनरित्थं धर्म उपदिश्यते - सव्वारंभपरिग्गह-णिक्खेदो सव्वभूतसमया य। एक्कग्गमणसमाहाणया अह एत्तिओ मोक्खो। सर्वस्य सूक्ष्मबादराद्यशेषजीवविषयस्यारम्भस्य सर्वस्य च सचित्ताचित्तमिश्रभेदभिन्नस्य परिग्रहस्य यो निक्षेपः, स न्यासो यावत्सर्वभूतेषु समता, या च एकाग्रमनःसमाधानता, अथैष एतावान् मोक्ष उच्यते / कारणे कार्योपचारादेषो मोक्षोपाय इत्यर्थः / श्लोकेन यथासव्वभूतप्पभूतस्स, सम्म भूताइ पासउ। पिहियासवस्स दंडस्स, पावं कम्मं न बंधइ / / पाठसिद्धः। ये तुसंस्कृतरुचयस्तेषामित्थं गाथया श्लोकेन वाधर्मकथा क्रियते / व्रतसमितिकषायाणां, धारणरक्षणविनिग्रहाः सम्यक् / दण्डेभ्यश्चोपरमो, धर्मः पञ्चेन्द्रियदमश्च / / 1 / / यत्र प्राणिवधो नास्ति, यत्र सत्यमनिन्दितम्। तत्रात्मनिग्रहो दृष्टः स धर्ममपि रोचयेत् / / 2 / / अथ किं कारणं स्थित्वा धर्मः कथनीयः? इत्याशङ्कयाह - ईरियावहियाऽवण्णे, सिटुंण गिण्हए अतो ठिच्चा। भद्दिड्डी पडिणीए, अभिओगे चउण्ह वि परेण / / ईर्यापथिकी चंक्रमणक्रिया तां कुर्वन् यदि कथयति, तदालोके अवर्णो भवति दुदृष्टधर्माणोऽमी, यदेवं गच्छन्तोधर्म कथयन्तिाअपिच शिष्टमपि कथितमपि धर्ममेवं श्रोता न गृह्णाति / अतः स्थित्वा एकश्लोकादि कथनीयम्। अथापवाद उच्यते कश्चिद् भद्रको धर्मश्रद्धालुः ऋद्धिमान् धर्म पृच्छति, ततः सत्त्वानुकम्पया प्रवचनोपग्रहकरश्व भविष्यतीति कृत्वा तिस्रश्चतस्रः पञ्च वा बहुतरा वा गाथा उपविश्य कथयितव्याः। प्रत्यनीको वा कश्चिद् व्यतिव्रजति, तं प्रतीक्षमाणस्तावद्धर्म कथयेत् यावदसौ व्यतीतो भवति / यद्वा स प्रत्यनीकः सहसा दृष्टो भवेत् , ततो यः सलब्धिकः स उपशमेनानिमित्तं बहुविधमुपदेशं दद्यात्। दण्डिकस्य वा अभियोगो बलात्कारो भवेत्। किमुक्तं भवति। एकश्लोकेन धर्मे उपदिष्टे दण्डिको ब्रूयात्-कथय कथय मे संप्रति महती श्रद्धा वर्तते, ततश्चतुर्णा श्लोकानां परतोऽपि कथयेत्। आह- कीदृशी पुनः कथा कथयितव्या ? कीदृशी वा नेति - सिंगाररसुत्तिजिया, मोहमई फुफुका हसहसेति। जं पुण माणुस्सकहं, समणेण नु सा कहेयव्वा / / यां कथां शृण्वतः श्रोतुः स्त्रीसुवर्णकादिश्रवणजनितो रसः,सः शृङ्गारो नाम रसस्तेनोत्तेजिता सती मोहमयी फुफुका (हसहसत्ति) जाज्वल्यते, सा कथं श्रमणेन कथयितव्या ? / समणेण कहेयव्वा, तवनियमकहा विरागसंजुत्ता।