________________ अंतरगिह 88 - अभिवानराजेन्द्रः - भाग 1 अंतरगिह जं सोऊण मणूसो, वचइ संवेगणिव्वेयं / / तपोऽनशनादि नियमाइन्द्रियनिग्रहास्तत्प्रधाना कथा तपो-नियमकथा विरागसंयुक्ता, न निदानादिना रागादिसंगता, श्रमणेन कथयितव्या। यां श्रुत्वा मनुष्यः श्रोता संवेगनिर्वेदं व्रजति। संवेगो मोक्षाभिलाषो, निर्वेदः संसारवैराग्यम्। __ महाव्रतानि न गृहान्तरे कथनीयानि। नो कप्पइ निग्गंथाणं वा निम्मंथीणं वा अंतरगिहम्मि इमाइं पंचमहत्वयाई सभावणाई आइखित्तए वा विभावित्तए वा किट्टित्तए वा पवेयत्तए वा, नन्नत्थ एगनाएण वा जाव सिलोएण वा, से विय ठिचा, नो चेव णं अद्विचा। अस्य व्याख्या प्राक्सूत्रवद् द्रष्टव्या / नवरम्- इमानि स्वयमनुभूयमानानि पञ्च महाव्रतानि सभावनानि, प्रतिव्रतं भावना पञ्चायुक्तानि आख्यातुं वा विभावयितुं वा कीर्तयितुं वा प्रवेदयितुं वा न कल्पते / आख्यानं नाम साधूनां पञ्च महाव्रतानि भावना-युक्तानि, ष्टकायरक्षणसाराणि भवन्ति / विभावनं तु प्राणाति-पाताद्विरमणं यावत्परिग्रहाद्विरमणमिति / भावनास्तु "ईरियासमिए सया जए इत्यादि" गाथोक्तस्वरूपाः षट्कायास्तु पृथिव्यादयः कीर्तनं नाम या प्रथमव्रतरूपा अहिंसा, सा भगवती सदेवमनुजासुरस्यलोकस्य पूज्या, त्राणं गतिः प्रतिष्ठेत्यादि / एवं सर्वेषामपि प्रश्न-व्याकरणाङ्गोक्तान गुणान्कीर्तयति / प्रवेदनं तु महाव्रतानुपालनात् स्वर्गोऽपवर्गो वा प्राप्यत इति सूत्रार्थः / परः प्राह- ननु पूर्वसूत्रेण गतार्थमिदमतः किमर्थमारभ्यते ? उच्यते - गहियागहियाविसेसा, गाथासुत्ता तु होति वयसुत्ते / णिइसकतो व भवे, परिमाणकतो व विण्णेयो॥ गाथासूत्राद् व्रतसूत्रे पठितो ग्रथितः विशेषो मन्तव्यः / किमुक्तं भवति? अनन्तरसूत्रे- चउगाहं वापंचगाहं वा इत्युक्तं ताश्च गाथा ग्रथिता भवन्ति, इमानितु महाव्रतानि ग्रथितानि अग्रथितानि वा भवेयुग्रंथितानि नाम पदपाठबन्धेन वा श्लोकबन्धेन वा बद्धानि कथयति, अग्रथितानि तु मुत्कलैरेव वचनैर्यान्यभिधीयन्ते, यद्वा निर्देशः कृतोऽत्र विशेषो भवति। अनन्तरसूत्रे चतुर्गाथं पञ्चगाथं वा कथयितुं न कल्पते इत्युद्देशमात्रमेव कृतम् , अत्र तु महाव्रतानि सभावनाकानीत्यनेन तस्यैव विशेष निर्देशः क्रियते / परिमाणकृतो वा विशेषो विज्ञेयः / यदधस्तनसूत्रे धर्मस्वरूपमुक्तं, तदेवात्र-- महाव्रतपञ्चक मिति संख्यया विशेषो निरूप्यते - अथात्रैव दोषानाहपंचमहव्वयतुंगं, जिणदयणं भावणापिणद्धंगं / साहणलहुगा आणाइ-दोसं जं वा णिसिजाए / इह जिनवचनं मेरुसदृशं पञ्चभिर्महाव्रतैस्तुङ्गमुच्छ्रितं पञ्चमहाव्रतमयोच्छ्रितमित्यर्थस्तस्यैव महाव्रतोच्छ्रितस्य रक्षणार्थ भावनाभिः पञ्चविंशतिसंख्याकाभिः पिनद्धं गाढतरं नियन्त्रितमीदृशं जिनवचनमन्तरगृहे उपविश्य कथयतश्चतुर्लघुकाः आज्ञादयो दोषाः / यद्वा गृहनिषद्यायां वाहितायां प्रायश्चित्तं यच्च दोषजालं तदापद्यते। तथा महाव्रतपञ्चकविषया दोषा भवन्ति / प्राणवधमापद्यते प्राणवधं वा शक्यते / एवं यावत्परिग्रहमापद्यते, परिग्रहे वा शक्यते। तथाहि पाणवहम्मि गुव्विणी, कप्पट्ठादाणए य संकाओ। भणिऊण दाइ कोइ, मोभमियं संकणा साणे / / गृहे उपविश्य साधुर्धर्मं कथयति, गुर्विणी च तस्यान्तिके उपविश्य शृणोति, यावचासौ तत्र तिष्ठति, तावत्तदीयगर्भस्याहारव्यवच्छेदेन विपत्तिर्भवति। एवं प्राणवधो लगति। तथा धर्मं कथयतः काचिदविरतिका शृण्वत्येवापान्तराले कायिकभूमिं गच्छेत्, सा च पुनस्तत्रैवास्ते, ततः सपत्नी छिद्रं लब्ध्वा तत्तनयं मिषेण साधोरगतो निपात्य द्रावयति, एवं प्राणातिपातविषया शङ्का भवेत्। तथा यत्तीर्थकरैः प्रतिषिद्धं तन्मयान कर्तव्यमिति प्रतिज्ञातैः प्रतिषिद्धा निषद्यां वाहयतो मृषावादो भवति / यद्वा स्वमुखेनैव गृहनिषद्यां निषिध्य पश्चादात्मनैव तां परिभुञ्जानो मृषावादमापद्यते / अथवा स दिने दिने तस्या अविरतिकाया अग्रे धर्म कथयति, ततो गृहस्वामिना भणितो- मे मम गृहं नाऽऽयासीरिति। साधुना भणितम् - आगमिष्यन्ति ते गृहं पाणशुनका एवमुक्त्वाऽपि जिह्वालोलतादि दोषेण तदेव गृहं व्रजन् भणितोऽपि तेन गृहस्थेन वारितोऽपि कश्चिदिति एवं मृषावादमाप्नोति / स च गृहस्थो ब्रूयात्- किं पाणशुनकः संवृत्तोऽस्तीति / यद् वा गृहस्थो भोजनं कुर्वन् धर्म शृण्वतीमगारी किमप्युत्कृष्टं द्वितीयानं याचेत् / सा ब्रूयात्- शुना भक्षितम् / अगारो ब्रूयात्- जानाम्यहं तं श्वानं, येन भक्षितमिति / एवं मृषावादविषया शङ्का भवेत्। अथास्या एव पूर्वार्द्ध व्याचष्टे - खुहिया पिपासिया वा, मंदक्खेणं न तस्स उठेइ / गब्मस्स अंतरायं, बाधिजइ संनिरोधेणं // गुर्विणी धर्मकथां शृण्वती क्षुधिता वा पिपासिता वा भवेत, सा च तस्य साधोः संबन्धिना मन्दाक्षेण लज्जमाना तिष्ठति, ततो गर्भस्यान्तरायं भवति। तेन चाहारव्यवच्छेदलक्षणेन संनिरोधेन सगर्भो बाध्यते। ततो व्यापत्तिमप्यसौ प्राप्नुयादिति प्राण-वधमापद्यते। ___ अथ प्राणवधविषयशङ्कां दर्शयति - उक्खिवितो सो हत्था, चुत्तो तस्सग्गतो णिवाडित्ता। सुणते य वियारगते, हाह त्ति सवित्तिणी कुणति / / अविरतिकाया अग्रे स धर्म कथयति, सा चापान्तराले कायि-काद्यर्थं निर्गता ततस्तस्यां शृण्वत्यां श्राविकायां विचारभूमौ गतायां सपत्नी तदीयं पुत्रं तस्य साधोरातः उत्क्षिप्य भूमौ सहसैव निपातयति, निपात्य च अहो! अनेन श्रमणेन अयं पुत्र उत्क्षिप्तः सन्नेतदीयहस्ताच्च्युतो विपन्न इति महता शब्देन हा ! हा ! इतिपूत्कारं करोति / ततो भूयान् लोको मिलितस्तं साधु तत्र स्थितं दृष्ट्वा शङ्कां कुर्यात् - किमेतत्सत्यमेवेदमिति / मृषावाददोष- प्रकाशः सप्रपञ्चमुक्त इति न भूयो भाव्यते। अथादत्तादानमैथुनयोर्दोषानाह - सयमेव कोइ लुद्धो, अपहरती तं पडुच कम्मकरी। वाणिगिणी मेहुणए, बहुसो य चिरं च संका य॥ कश्चिद् वती लुब्धः सन् विजनं मत्वा स्वयमेव सुवर्णकलिका मुद्रिकामपहरति, एवमदत्तादानमापद्यते / तं वा संयतं प्रतीत्य "साधुरत्रार्थे शङ्किष्यते नाऽहमिति" कृत्वा कर्मकारी का- चिदपहरेत् / वाणिजिका वा काचित्प्रोषितभर्तृका, तया समं मैथुनविषया आत्मपरोभयसमुत्था दोषा भवन्ति / अथवा यत्र प्रोषितपतिकास्तिष्ठन्ति,तत्रासौ बहुशो वारं व्रजति, चिरं च ताभिः सह कन्दर्पं कुर्वाणस्तिष्ठति, ततश्चतुर्थविषये शङ्कयेत।