SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ अंतरगिह 86 - अभियानराजेन्द्रः - भाग 1 अंतरगिह जिआ। अत्र विषमपदानि भाष्यकृद् विवृणोतिसंहियकडणमादि-क्खणं तु पदछेद मो विभागो उ। सुत्तत्थोक्किट्टणया, पवेतणं तत्फलं जाण // इह संहिताया अस्खंलितपदोचारणरूपाया यदाकर्षणं, तदाख्यानमुच्यते / तचेदं-व्रतसमितिकषायाणां धारणरक्षणवि- निग्रहाः, सम्यग्दण्डेभ्यश्चोपरमो धर्मः पञ्चेन्द्रियदमश्च / एवं भिक्षां गते गृहस्थानां धर्मकथनार्थ संहिताकर्षणं करोति। यस्तुपदच्छेदः, 'मो' इति पादपूरणे, स विभागो विभावना भण्यते। यथा-व्रतानां धारणं, समितीनां रक्षणं, कषायाणां निग्रह इत्यादि-यत्तु सूत्रार्थ कथनं, सा उत्कीर्तना। सा चेयव्रतानि प्राणातिपातादिविर-मणरूपाणि, तेषां सम्यगप्रमत्तेन धारणं कर्तव्यम् / समितय ईसिमित्यादयस्ता-सामेकाग्रचेतसा रक्षणं विधेयमित्यादिकस्य धर्मस्य यत्फलमैहिका-मुष्मिकलाभलक्षणं, तत्प्ररूपणं प्रवेदनं जानीयात् / यथा-भगवत्प्रणीतममुं धर्ममनुतिष्ठत, इहैव भुवनवन्दनीय-तायशःप्रवादादयो गुणा उपढौकन्ते, परत्र च स्वर्गापवर्गसौख्य-प्राप्तिर्भवतीति। एवं श्लोकादेराख्यानादिषु भिक्षां गतेन विधीयमानेषु दोषानाहएका वि ता महल्ला, किमंग ! पुण होति पंच गाहाओ। साहण लहूगा आणा-दिदोसा ते चेविमे अण्णे // एवं संहितादिविस्तारेण व्याख्यायमाना तावदेकाऽपि गाथा महती महाप्रभाणा भवति, किमङ्ग ! पुनः पञ्च गाथाः। अतो यद्येकामपि गाथां कथयति, तदा चतुर्लघुका आज्ञादयश्च दोषाः / तथा च तुरङ्गमादिहतनष्टशङ्कादयस्त एवान्तरगृहोक्ता दोषा भवन्ति / इमे च वक्ष्यमाणा अन्ये दोषास्तानेवाह - अद्धीकारगपोत्थग-खररडणमक्खरा चेव। साहारणपडिणत्ते, गिलाणलहुगाइ जा चरिमं / / भिक्षां पर्यटन कमप्यगारिणमशुद्धां गाथां पठन्तं श्रुत्वा ब्रवीति विनाशितेयं त्वया गाथा। तथा (अद्धीकारगत्ति) गाथाया अर्द्धमहं करोमि, अर्द्ध पुनस्त्वया कर्तव्यम्। (पुत्थगत्ति) पुस्तकादेव शास्त्रमधीतं भवता, न पुनर्गुरुमुखात् / (खररडणत्ति) किमेवं खर इवारटनं करोषि ? (अक्खरा चेवत्ति) अक्षराण्येव तावद्भवान्न जानीते, अतः पट्टिकामानयाऽहं भवन्तं तानि शिक्षयामि इत्यादि-ब्रुवाणो यावत्तत्र व्याक्षेपं करोति, तावत् इमे दोषाः। (साहारणंति) साधारणं सर्वेषु मिलितेषु यन्मण्डल्यां भोजनं, तन्निमित्तमितरे साधवः तं प्रतीक्षमाणास्तिष्ठन्ति / (पडिणित्तित्ति) तेन साधुना कश्चित् ग्लानः प्रतिज्ञप्तः-अद्याऽहं भवतः प्रायोग्यमानेष्यामीति ततस्तेन वेलाविलम्बन यदसौ ग्लानः परितापादि प्राप्रोति, तत्र चतुर्लघुकादि चरमं पाराञ्चिक यावत्प्रायश्चित्तमिति द्वारगाथा समासार्थः। सांप्रतमेनामेव व्याख्यानयतिभग्गविभग्गा गाहा, भणई हीणा च जा तुमे भणिता। अहं से करेमि अम्हं, तुम से अद्धं पसाहेहि॥ साधुर्भिक्षां गतः सुपाण्डित्यख्यापनार्थ गृहस्थं पठन्तं श्रुत्वा ब्रवीतियेयं त्वया गाथा भणिता, सा भग्नविभना इति भणति, हीना वा कृता / यद्वा अर्द्ध (से) तस्या गाथाया अहं करोमि, अर्द्ध पुनस्त्वं प्रसाधय इत्येवमभिनवा गाथा क्रियते। पोत्थगपञ्चगपडियं, किं रडसि रासहु व्व अभिलापं / अकयमुह ! फलयमाणय, जा ते लिक्खंतु पंचग्गं / / पुस्तकप्रत्ययादेव भवता पठितं, न गुरुमुखात्,अतः किमेतेन प्रयासेन? किंवा त्वमेव रासभ इव अभिलापं विस्तारमारटसि ? यद्वा अकृतमक्षरसंस्कारेणासंस्कृतं मुखं यस्यासावकृतमुखः, तस्यामन्त्रणहे अकृतमुख ! अपठिताशिक्षित ! एवं भवान्न किमपि ज्ञास्यति, अतः फलकं पट्टिकामानय येन तव योग्यानि पञ्चाग्राण्यक्षराणि लिख्यन्तामस्माभिः / एवं भिक्षां पर्यटन् यदि विकत्थते, तत इदं प्रायश्चित्तम् - लहुगादी छग्गुरुगा, तवकालविसेसिया चऊगुरुगा। अधिकरणमुत्तरुत्तर - एसणसंकाइ फिडियम्मि / गाथायामीकारके च चतुर्लघु, पुस्तके चतुर्गुरु, अक्षरशिक्षणे षड्लघु, खररटने षड्गुरु / अथवा तपःकालविशेषिता श्तुलघकाः। तद्यथा-गाथार्थीकारकयोस्तपःकालाभ्यां लघुकाः, पुस्तके कालेन गुरुकाः, अक्षरेषु तपसा गुरुकाः, खररटने तपसा कालेन च गुरुकाः / अधिकरणं च कलहस्तेनसमभवति। उत्तरोत्तरा उक्तिप्रत्युक्ती: कुर्वाणस्य च तस्य भिक्षायां देशकाल:- स्फिटति। तस्मिन स्फिटिते पर्यटनैषणयोः प्रेरणं कुर्यात् / अकाल- चारिणश्च शठकादयो दोषा भवन्ति। वागिण्हति इय सो जाव, तेण ता गहिय भायणा इयरे / अत्यंते अंतराय, एमेव य जो पडिण्णत्तो // यावदसौतेन सममुत्तरप्रत्युत्तरिकां कुर्वन् व्यागृह्णाति, व्याक्षेपेण वेला गमयति, तावदितरे साधवो गृहीतभाजनाः सन्तः आसते, ततोऽन्तरायदोषः / एवमेव यो ग्लानः प्रतिज्ञप्तस्त्वद्योग्यं प्रायोग्यमद्य मया आनेतव्यमित्यर्थः, ततस्तस्मिन्नपि तावन्तं कालं बुभुक्षिते तिष्ठति, तस्य साधोरन्तरायं भवति। कालाइक्कमदाणे, होइ गिलाणस्स रोगपरिवुड्डी। परितावणगाढाति, चउलहुगा जाव चरिमपदं / कालातिक्रमेण च ग्लानस्य भक्तपानदाने रोगपरिवृद्धिर्भवति, ततश्च यदसावनागाढपरितापादिकं प्राप्नोति,तत्र चतुर्लघुकादि- प्रायश्चित्तं यावत् कालगते चरमपदं पाराञ्चिकम्। द्वितीयपदे गोचरप्रविष्टोऽपि परेण पृष्टः सन् कथयेत्। किं कारणमिति चेदुच्यते - किं जाणंति य चरगा, हलं जहित्ताण जे उ पव्वइया / एवंविधो अवण्णो, मा होहिइ तेण कहयंति।। यदा परेण प्रश्निता अपि न कथयन्ति, तदास चिन्तयति-किमेते चरका जानन्ति ? ये हलं परित्यज्य प्रव्रजिताः / एवंविधोऽवर्णः- प्रवचनस्य मा भूत , तेन कारणेन कथयन्ति / अथ "एगनाएण वा" इत्यादिसूत्रपदव्याचिख्यासयाऽऽह - एग नायं उदगं, वागरणमहिंसलक्खणो धम्मो। गाहाहिं सिलोगेहि व, समासतो तं पि ठिच्चा णं / / परप्रश्नितेन विवक्षितार्थसमर्थनार्थमेकं ज्ञातमभिधातव्यं / तत्र चोदकदृष्टान्तो भवति / व्याकरणं निर्वचनं, यथा-केनचित् धर्मलक्षणं पृष्टस्ततः प्रतिब्रूयात्-अहिंसालक्षणो धर्मः / अथवा गाथाभिःश्लोकैर्या समासतो धर्मकथनं कर्तव्यं, तदपि च स्थित्वा, नोपविष्टन, न वा भिक्षां हिण्डमानेनेति नियुक्तिगाथासमासार्थः / अथैनामेव विवृणोति - नजइ अणेण अत्थे, णायं दिटुंत इति च एगटुं।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy