________________ अंतरगिह 85 - अभियानराजेन्द्रः - भाग 1 अंतरगिह अथ सूत्रोक्तं द्वितीयपदं भावयति - उच्छुद्धसरीरे वा, दुब्बलतपसोसिते व जे होज / थेरे जुण्णमहिल्ले, वीसंभणवेसहतसंके / / उच्छुद्धं रोगाघ्रातं शरीरं यस्स स उच्छुद्धशरीरो, वाशब्दः उत्तरापेक्षया विकल्पार्थे दुर्बलोऽधुनोत्थितग्लानः, तपःशोषितो वा विकृष्टतपोनिष्टप्तदेहो भवेत् , यो वा स्थविरो जीर्णः षष्टिवर्षातिक्रान्तजन्मपर्यायः, सोऽपि यदि महान् सर्वेभ्योऽपि वृद्धतरः / एते विश्रामग्रहणार्थं गृहान्तरे तिष्ठेयुः। इह चव्याधितोदये उत्सर्गतो भिक्षाटनं न कार्यते, परमात्मलब्धिकारणापेक्षया भिक्षामटतां प्राकृतस्तत्रावतारो मन्तव्यः / स च व्याधितादिर्विश्रम्भणवेषः संविग्नवेषधारी हतशङ्कश्व हास्यादिविकारविकलतया असंभा- वनीयव्यलीकशङ्कः सन् तत्र स्थानादीनि पदानि कुर्यात्। अहवा ओसहहेउं, संखडिसंघाडए व वासासु / वाघाए वा तत्थ उ, जयणाए कप्पती ठाउं॥ सूत्रोक्तस्तावदपवादोदर्शितः। अथार्थतः प्रकारान्तरेणाप्युच्यते इत्यत्र वाशब्दार्थः / औषधहेतोतारं गृहे अस्वाधीनं प्रतीक्षते संखण्ड्यां वा / यावद्वेला भवति, संघाटकसाधुर्वा यावद्भक्तपानभृतं भाजनं वसतौ विमोच्य समागच्छति, वर्षासु वा गृहं प्रविष्टानां वर्ष निपतेत्, वधूवराद्यागमनेनवा रथ्यायांव्याघातो भवेत्, तावत्तत्रैव गृहान्तरे यतनया वक्ष्यमाणया स्थातुं कल्पते / एष द्वारगाथा-समासार्थः / अथैनामेव विवरीषुरौषधिसंखडिद्वारे व्याख्यानयति - पासंसि ओसहाई, ओसहदाता व तत्थ असहीणो। संखडि असती कालो, उटुंते वा पडिच्छंति / / ग्लानस्यौषधानि पेष्टव्यानि, तत्र पेषणशिला प्रतिश्रये नेतुन कल्पते, अतस्तेषां चागारिणां गृहान्तरे स्थित्वा तानि पेषन्ति / ओषधमार्गणार्थं वा कस्यापि गृहं गताः, स चौषधदाता तदानीं तत्रास्वाधीनोऽतस्तं प्रतीक्षमाणः स्थातव्यम्। संखडीवा क्वापि वर्तते, तत्र वसेत्कालोऽद्यापि देशकालो न भवति, गृहस्वामिना चोक्तं- प्रतीक्षध्वं क्षणमेकं यावद्वेला भवति, ततस्तस्मिन्नन्यस्मिन् वा गृहे प्रतीक्षणीयम् / अगारिणो वा तदानीं गृहाङ्गणमापूर्य्य भोक्तुमुपविष्टाः सन्ति, ततस्तानुपतिष्ठतः प्रतीक्षते। संघाटकद्वारमाह - एगयर उभयओ वा, अलंभे अहच वा उभयलंभे। वसहिं जा णे एगो, ता इअरो चिट्ठई दूरे॥ एकतरस्य भक्तस्य वा पानस्य वा उभयो अलाभे दुर्लभतायामित्यर्थः / (आहच) कदाचिदुभयमपि प्रचुरतरं लब्धं, तेन च भाजनमापूरितं, ततः संघाटकस्य मध्याद्यावदेकस्तद्भाजनं वसतिं नयति, तावदितरः साधुरगारिणां दूरं भूत्वा तिष्ठति। एष चूर्ण्य-भिप्रायः / पुनरयं भक्तस्य पानकस्य उभयस्य दुर्लभस्यलाभः समुपस्थितो, मात्रकं च तस्मिन् दिने अनाभोगेन न गृहीतं, ततो यावदेको मात्रकं वसतेरानयति, तावदितरस्तत्र गृहिणां दूरे तिष्ठतीति। वर्षाद्वारमाह - वासासु च वासंते, अणुण्णचित्ताण तत्थऽणाबाहे। अंतरगिहे गिहे वा, जयणाए दो वि चिटुंति / / वर्षासु वा क्वापि गृहे गतानां वर्ष वर्षति गृहस्वामिनमनुज्ञाप्य तानाबाधे अवकाशे अन्तरगृहे वा गृहे वा द्वावपि संघाटक साधू यतनया विकथादिपरिहारेण तिष्ठतः। प्रत्यनीकद्वारमाह - पडिणीयनिवेयंते, तस्स अंतेउरे गतो फिडिए। बुग्गहनिव्वहभावे, वाघातो एवमादीसु // प्रत्यनीकं समागच्छन्तं दृष्ट्वा यावदसौ अतिव्रजति तावदेकान्ते निलीय तिष्ठन्ति / नृपो वा सम्मुखेनैति, तस्य वा नृपस्यान्तःपुरं, मजो वा, हस्ती निर्गच्छति, ततो यावदसौ स्फिटितो भवति, तावत्त- त्रैवासते। (वुग्गहत्ति) दण्डिकौ द्विजौ वा द्वौ परस्परं विग्रहं कुर्वन्तौ समागच्छतो निर्वहं वधूवरं ततो महता विच्छन समायाति, आदिशब्देन गौष्ठिका गीतं गायन्तः समायान्ति, एवमादिषु कारणेषु व्याघातस्तत्रैवं प्रतीक्षणलक्षणो भवति। तत्र च तिष्ठतामियं यतनाअयाणगुत्ता विकहाविहीणा, अच्छण्णछण्णे व ठिया पविट्ठा। अत्थंति ते संतमुहा णिविलु, भजंति वा सेसपदे जहुत्ते // आदानैरिन्द्रियैर्गुप्तास्तथा विकथया भक्तकथादिरूपया विशेषण हस्तसंज्ञादेरपि परिहारेण हीनास्त्यक्तास्तत्र गृहान्तरे अच्छन्ने छन्ने वा प्रदेशे ऊर्ध्वस्थिता उपविष्टा वा ते साधवः शान्तमुखा आसते। निवेश्य चोपविश्य शेषाण्यपि स्वाध्यायविधानादीनि यथोक्तानि पदानियथायोगं भजन्ते, न च दोषमापद्यन्ते। कथमिति चेदुच्यते - थाणं च कालं च तहेव वत्थु, आसज्ज जो दोसकरे तु ठाणे। तेणेव अन्नस्स अदोसवंते, भवंति रोगिस्स व ओसहाई। स्थानं च स्त्रीपशुपण्डकसंसक्तं भूभागादि, कालं च ऋतु- बद्धादिकं, तथैव वस्तु तरुणनीरोगादिकं पुरुषद्रव्यमासाद्य यान्येकस्य गृहान्तरे स्थाननिषदनादीनि स्थानानि दोषकारीणि भवन्ति, तान्येवान्यस्य पूर्वोक्तविपरीतस्थानकालपुरुषवस्तुसाचि- व्याददोषवन्ति, रोगिण इवौषधानि / यथा किल यान्यौषधान्ये- कस्य पित्तरोगिणो दोषाय भवन्ति, तान्येवापरस्य वातरोगिणो न कमपि दोषमुपजनयन्ति / एवमत्रापि भावनीयम्। अन्तरगृहे धर्मकथा न कथनीया। नो कप्पति निग्गंथाण वा निग्गंथीण वा अंतरगिहम्मि जाव चउगाहं वा पंचगाहं वा आइखित्तए वा विभावित्तए वा किट्टइत्तए वा पवेयइत्तएवा, नन्नत्थ एगनाएण वा एगवागरणेन वा एगगाहाए वा एगसिलोएण वा / से विय ठिच्चा, नो चेव णं अठिचा। नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा अन्तरगृहे यावचतुर्गाथं वा पञ्चगाथं वा विभावयितुं वा कीर्तयितुं वा प्रवेदयितुं वा / एतदेवापवदनाह- "नन्नत्थ" इत्यादि, नो कल्पते इति योऽयं निषेधः, स एकज्ञाताद्वा एकगाथाया वा एकश्लोकाद्वा अन्यत्र मन्तव्यः / सूत्रं च पञ्चम्यास्स्थाने तृतीयानिर्देशः प्राकृतत्वात् / अपि च एकगाथादिव्याख्यानं स्थित्वा कर्तव्यं, नैवास्थित्वा भिक्षां पर्यटता उपविष्टन वा इति सूत्रार्थः।