________________ अंतर 81 - अभिधानराजेन्द्रः - भाग 1 अंतर ततोऽन्तर्मुहूर्तेन मृत्वा भूयोऽप्यकर्मभूमिजस्त्रीत्वेन जायते, इति भवन्ति जघन्यतो दशवर्षसहस्राणि अन्तर्मुहूर्ताभ्यधिकानि, उत्कर्षतो वनस्पतिकालोऽन्तरं / संहरणं प्रतीत्य जघन्यतो- ऽन्तर्मुहूर्तम् / अकर्मभूभिजस्त्रियाः (कर्मभूमिजस्त्रियाः) कर्मभूमिषु संहृत्य तावता कालेन तथाविधबुद्धिपरावृत्त्या भूयस्तत्रैव नयनात्। उत्कर्षतो वनस्पतिकालोऽन्तरं, तावता कालेन कर्मभूम्युत्पत्तिवत्, संहरणमपि नियोगतो भवेत्। तथाहि- काचिदकर्मभूमिका कर्मभूमी संहता, सा च स्वायुःक्षयानन्तरमनन्तं कालं वनस्पत्यादिषु संसृत्य भूयोऽप्यकर्मभूमौ समुत्पन्ना / ततः केनापि संहृते ति यथोक्तं संहरणस्योत्कृष्टकालमानम् / एवं हैमवतहैरण्यवतहरिवर्षरम्यकवर्षदेवकुरूत्तरकुर्वन्तरभूमिकामपि जन्मतः संहरणतश्च प्रत्येक जघन्यमुत्कृष्टं चान्तरं वक्तव्यं, सूत्रपाठोऽपि सुगमत्वात् स्वयं परिभावनीयः / संप्रति देवस्त्रीणामन्तरप्रति- पादनार्थमाह(देवत्थियाणं भंते ! इत्यादि ) देवस्त्रिया भदन्त ! अन्तरं कालतः कियश्चिरं भवति ? भगवानाह- गौतम ! जघन्येनान्तर्मुहूर्त, कस्याश्वित् देवस्त्रिया देवीभवात् च्युताया गर्भव्युत्क्रान्तिक-मनुष्येषूत्पद्य पर्याप्तिपरिसमाप्तिसमनन्तरं तथाध्यवसायमरणेन पुनर्देवीत्वेनोत्पत्तिसंभवात् / उत्कर्षतो वनस्पतिकालः, स च सुप्रतीतः। एवमसुरकुमारदेव्या आरभ्य तावदीशानदेवस्त्रिया उत्कृष्टमन्तरं वक्तव्यं, पाठोऽपि सुगमत्वात् स्वयं परिभावनीयः। जी०२ प्रति०। पुरिसस्स णं भंते ! केवतियं कालं अंतरं होति? गोयमा! जहण्णे णं एगं समयं, उक्कोसेणं वणस्सइकालो / तिरिक्खजोणियपुरिसाणं जहण्णेणं अंतोमुहतं, उक्कोसेणं वणस्सइकालो / एवं जाव खहयरतिरिक्खजोणियपुरिसाणं।। पुरुषाणामिति पूर्ववत् , भदन्त ! अन्तरं कालतः कियचिरं | भवति ? पुरुषः पुरुषत्वात् परिभ्रष्टः सन् पुनः कियता कालेन तदवाप्नोतीत्यर्थः / तत्र भगवानाह- गौतम ! जघन्येनैकं समयं, समयादनन्तरं भूयोऽपि पुरुषत्वमवाप्नोतीति भावः / इयमत्र भावनायदा कश्चित् पुरुष उपशमश्रेणिं गतः, उपशान्ते पुरुषवेदे समयमेकं जीवित्वा तदनन्तरं म्रियते तदाऽसौ नियमाद्देवपुरुषेषूत्पद्यते इति समयमेकमन्तरं पुरुषत्वस्य। ननु स्त्रीनपुंसकयोरपि श्रेणिलाभो भवति, तत्कस्मादनयोरप्येवमेकः समयोऽन्तरं न भवति ? उच्यते-स्त्रिया नपुंसकस्य च श्रेण्यारूढाववेदकभावान्तरं मरणे तथाविधशुभाध्यवसायतो नियमेन देवपुरुषत्वेनोत्पादात् / उत्कर्षतो वनस्पतिकालः। स चैवमभिलपनीयः-अणंता उस्स- प्पिणिओसप्पिणीओ कालतो, खेत्ततो अणंता लोगा असंखेज्जा पुग्गलपरियट्टा, ते णं पुग्गलपरियट्टा आवलियाए असंखेज्जइभागो इति / तदेवं सामान्यतः पुरुषत्वस्यान्तरमभिधाय संप्रति तिर्यक्पु-रुषविषयमतिदेशमाह-(जं तिरिक्खजोणित्थीणमंतरमित्यादि) यत्तिर्यग्यो निस्त्रीणामन्तरं प्रागभिहितं, तदेव तिर्यग्योनिकपुरुषा-णामप्यविशेषितं वक्तव्यं। ततश्चैवं सामान्यतस्तिर्यक्पुरुषस्य जघन्यतोऽन्तर्मुहूर्त, तावत्कालस्थितिना मनुष्यादिभवेन व्यव- धानात् / उत्कर्षतो वनस्पतिकालोऽसंख्येयपुद्गलपरावर्ताख्यः / तावता कालेनामुक्तौ सत्यां नियोगतः पुरुषत्वयोगात्। एवं विशेषचिन्तायां जलचरपुरुषस्य स्थलचरपुरुषस्य खचरपुरुष- स्यापि प्रत्येकं जघन्यतः उत्कर्षतश्चान्तरं वक्तव्यम्।। सम्प्रति मनुष्यपुरुषत्वविषयान्तरप्रतिपादनार्थमाह - मणुस्सपुरिसाणं भंते ! केवतियं कालं अंतर होति? गोयमा! खेत्तं पडुच जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं वणस्सतिकालो। धम्मचरणं पडुचजहण्णेणं एवं समयं, उक्कोसेणं अणंतं कालं। अणंता उस्सप्पिणीओ जाव अवडं पोग्गलपरियट्ट देसूणं / कम्मभूमकाणं जाव विदेहो जाव धम्मचरणे एक्को समओ, सेसं जहत्थीणं जाव अंतरदीवकाणं। यन्मनुष्यस्त्रीणामन्तरं प्रागभिहितं तदेव मनुष्यपुरुषाणामपि वक्तव्यं, तश्चैवं-सामान्यतो मनुष्यपुरुषस्य जघन्यतः क्षेत्रमधिकृत्यान्तरमन्तर्मुहूर्त, तच्च प्रागिव भावनीयम्।उत्कर्षतो वनस्पति-कालो, धर्मचरणमधिकृत्य जघन्यत एकं समयं चरणपरि-णामात्परिभ्रष्टस्य समयानन्तरं भूयोऽपि कस्यचित् चरणप्रतिपत्ति-संभवात् ,उत्कर्षतो देशोनोऽपार्द्धपुद्गलपरावर्त्तः। एवं भरतैराव-तकर्मभूमकमनुष्यपुरुषस्य पूर्व विदेहापरविदेहाकर्मभूमकमनुष्य- पुरुषस्य जन्म प्रतीत्य चरणमधिकृत्य च प्रत्येकं जघन्यत उत्क- र्षतश्चान्तरं वक्तव्यं / सामान्यतोऽकर्मभूमकमनुष्यपुरुषस्य जन्म प्रतीत्य जघन्यतोऽन्तरं दश वर्षसहस्राणि अन्तर्मुहूर्ताभ्यधिकानि / अकर्मभूमकमनुष्यपुरुषत्वेन मृतस्य जघन्यस्थितिषु देवेषूत्पद्य ततोऽपि च्युत्वा कर्मभूमिषु स्त्रीत्वेन पुरुषत्वेन वोत्पद्य कस्या- प्यकर्मभूमकत्वेन भूयोऽप्युत्पादात् / देवभवात् च्युत्वा अनन्त- रमकर्मभूमिषु मनुष्यत्वेन तिर्यक्संज्ञिपञ्चेन्द्रियत्वेन उत्पादा- भावादपान्तराले कर्मभूमिधुत्पादाभिधानमुत्कर्षतो वनस्पति- कालोऽन्तरं / संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमकर्मभूमेः कर्मभूमिषु संहृत्यान्तर्मुहूतानन्तरं तथाविधबुद्धिपरावर्तादिभावतो भूयस्तत्रैव नयनसंभवात्, उत्कर्षतो वनस्पतिकालः / एतावतः कालादूर्ध्वमकर्मभूमिषूत्पत्तिवत् संहरणस्यापि नियोगतो भावात् / एवं हैमवतहरण्यवतादिष्वप्यकर्मभूमिषु जन्मतः संहरणतश्च जघन्यतः उत्कर्षतश्चान्तरं वक्तव्यं, यावदन्तरद्वीपकाकर्मभूमकम- नुष्यपुरुषत्यवक्तव्यता। ___संप्रति देवपुरुषाणामन्तरप्रतिपादनार्थमाह - देवपुरिसाणं जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं वणस्सतिकालो / भवणवासिदेवपुरिसाणं ताव जाव सहस्सारो / जहण्णेणं अंतोमुहुर्त, उक्कोसेणं वणस्सतिकालो। आनतदेवपुरिसाणं भंते! केवतियं कालं अंतरं होति? गोयमा! जहण्णेणं वासपुहुत्तं, उक्कोसेणं वणस्सतिकालो / एवं जाव गेवेज्जगदेवपुरिसाण वि। अनुत्तरोववातियदेवपुरिसाणं जहण्णेणं वासपुहुत्तं, उक्कोसेणं संखेज्जाइं सागरोवमाइं। अनुत्तराणं अंतरे एक्को आलावओ। देवपुरुषस्य भदन्त ! कालतः कियच्चिरमन्तरं भवति? भगवानाह- गौतम ! जघन्येनान्तर्मुहूर्त, देवभवात् च्युत्वा गर्भव्युत्क्रान्तिकमनुष्येषूत्पद्यपर्याप्तिसमनन्तरंतथाविधाध्यवसायमरणेन भूयोऽपि कस्यापि देवत्वेनोत्पादसंभवात् ,उत्कर्षतो वनस्पति- कालः। एवमसुरकु मारादारभ्य निरन्तरं तावद्वक्तव्यं यावत् - सहस्रारकल्पदेवपुरुषस्यान्तरम् / आनतकल्पदेवस्यान्तरं जघन्येन वर्षपृथक्त्वं, कस्मादेतावदिहान्तरमिति चेत् उच्यते- इह यो गर्भस्थः सर्वाभिः पर्याप्तिभिः पर्याप्तः, स शुभाध्यवसायोपेतो