________________ अंतर 8. - अभिधानराजेन्द्रः - भाग 1 अंतर सादिसपर्यवसितस्य जघन्येनैकं समयमुत्कर्षतोऽन्तर्मुहूर्त, भाषककालस्याभाषकान्तरत्वात् , तस्य च जघन्यत उत्कर्षतश्चैतावन्मात्रत्वात्। जी०२ प्रति०। (38) योगमाश्रित्यान्तरम्। मणजोगिस्स अंतरं जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं वणस्सतिकालो / तहेव वयजोगिस्स वि / कायजोगिस्स जहण्णेणं एक समयं, उक्कोसेण अंतोमुहुत्तं, अजोगिस्स णत्थि अंतरं। अन्तरमन्तर्मुहूर्त विग्रहसमयादारभ्य औदारिकशरीरपर्याप्तकश्च यावदेवमन्तर्मुहूतं द्रष्टव्यमिति। (अत्रत्या टीका उस्सुत्तपरूवणा शब्दे)। लेश्यामाश्रित्य जीवानाम्। कण्हलेसस्स णं भंते ! अंतरं कालओ केव चिरं होति ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं तेत्तीससागरोवमाई अंतोमुत्तममहियाई / एवं नीलस्स वि, काऊलेसस्स वि / तेउलेसस्स णं भंते ! अंतरं कालओ केवचिरं होइ? गोयमा! जहण्णे णं अंतोमुत्तं उक्कोसेणं वणप्फतिकालो / एवं पम्हलेसस्स वि, सुक्कलेसस्स वि / दोण्ह वि एवमंतरं / अलेसस्स णं भंते ! अंतरं कालतो केव चिरं होइ ? गोयमा ! सादियस्स अपज्जवसियस्स पत्थि अंतरं। कृष्णलेश्याकस्याऽन्तरं जघन्यतोऽन्तर्मुहूर्त, तिर्यगमनुष्याणामन्तर्मुहूर्तेन लेश्यापरावर्त्तनात् , उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाण्यन्तर्मुहूर्ताऽभ्यधिकानि / शुक्ललेश्या कृष्णकालस्य कृष्णलेश्याऽन्तरोत्कृष्टकालत्वात्। एवं नीललेश्याकापोत-लेश्ययोरपि जघन्यत उत्कर्षतश्चाऽन्तरं वक्तव्यम् / तेजः पद्मशुक्लानामन्तरं जघन्तोऽन्तर्मुहूर्तमुत्कर्षतो वनस्पतिकालः, स च प्रतीत एवेति / अलेश्यस्य साद्यपर्यवसितस्य नाऽस्त्यन्तरम-पर्यवसितत्वात्। (36) वेदविशिष्टजीवानामन्तरम्। सवेदयस्स णं भंते ! केवतियं कालं अंतरं होति? गोयमा! अणादियस्स अपञ्जवसियस्स णत्थि अंतरं, अणादियस्स सपज्जवसियस्स विणत्थि अंतरं। सादियस्स सपज्जवसियस्स जहण्णेणं एवं समयं, उक्कोसेणं अंतोमुहत्तं / अवेदगस्स णं भंते ! केवतियं कालं अंतरं होति ? गोयमा ! सातियस्स अपज्जवसियस्स णस्थि अंतरं, सातियस्स सपज्जवसियस्स जहण्णेणं अंतोमुहुर्त, उक्कोसेण अणंतं कालं, जाव अवडं पोग्ग-लपरियट्टे देसूणं। प्रश्नसूत्रं सुगम, भगवानाह- गौतम ! अनादिकस्यापर्यवसितस्य सवेदकस्य नास्त्यन्तरमपर्यवसिततया सदा तद्भावापरित्यागात् अनादिकस्य सपर्यवसितस्यापि नास्त्यन्तरम्, अनादिसपर्यवसितो ह्यपान्तराले उपशमश्रेणिं प्रतिपद्य भावी क्षीणवेदो, न च क्षीणवेदस्य पुनः सवेदकत्वं, प्रतिपाताभावात् / सादिकस्य सपर्यवसितस्य सवेदकस्य जघन्ये नै कं समयमन्तरं द्वितीयं वारमुपशमश्रेणिं प्रतिपन्नस्य वेदोपशमसमयानन्तरं कस्यापि मरणसंभवात् / उ-कर्षणान्तर्मुहूर्त द्वितीयं वारमुपशमश्रेणिप्रतिपन्नस्योपशान्त-वेदकस्य श्रेणिसमाप्रूज़ पुनः सवेदकत्वभावात्। अवेदकसूत्रे सादिकस्यापर्यवसितस्यावेदकस्य नाऽस्त्यन्तरं क्षीणवेदस्य पुनः सवेदकत्वाभावात् , वेदानां निर्मूलकाषंकषितत्वात् / सादिकस्य सपर्यवसितस्य जघन्ये नान्तमुहूर्तमुपशमश्रेणिसमाप्तौ सवेदकत्वे सति पुनरन्तर्मुहुर्तेनोपशमश्रेणिलाभतोऽवेदकत्वोपपत्तेः, उत्कर्षतोऽनन्तं कालम् अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽपार्द्ध पुद्गलपरावर्त देशोनमेकं वारमुपशमश्रेणिं प्रतिपद्य तत्रावेदको भूत्वा श्रेणिसमाप्तौ सेवदकत्वे सति पुनरेतावता कालेन श्रेणिप्रतिपत्ताववेदकत्वोपपत्तेः। जी० सर्वजी०२ प्रति०। वेदविशेषविशिष्टानां स्त्रीणां पुंसां नपुंसकानां चान्तरम्। इथिए णं भंते ! केवतियं कालं अंतरं होति ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं अनंतं कालं, वणस्सतिकालो। एवं सव्वासिं तिरिक्खत्थीणं मणुसित्थीणं / मणुसित्थीए खेत्तं पडुच जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं वणस्सतिकालो। धम्मचरणं पडुच जहण्णेणं समओ, उक्कोसेणं अणंतं कालं, जाव अवडपोग्गल- परियट्टं देसूणं, एवं जाव पुव्वविदेहं अवरविदेहियाओ। अकम्मभूमगमणुस्सीणं भंते! केवतियं कालं अंतरं होति ? गोयमा! जम्मणं पडु च जहण्णेणं दसवाससहस्साई अंतोमुहुत्त-ममहियाई, उक्कोसेणं वणस्सइकालो। संहरणं पडुचजहण्णेणं अंतोमुहत्तं, उक्कोसेणं वणस्सइकालो / एवं जाव अंतरदी-वियाओ / देवित्थियाणं सव्वासिं जहण्णेण अंतोमुहुत्तं, उक्कोसेणं वणस्सतिकालो। स्त्रिया भदन्त ! अन्तरं कालतः कियचिरं भवति? स्त्री भूत्वा स्त्रीत्वात् भ्रष्टा सती पुनः कियता कालेन स्त्री भवतीत्यर्थः। एवं गौतमेन प्रश्ने कृते सति भगवानाह- गौतम ! जघन्येनान्तर्मुहूर्त, कथमिति चेत् ? उच्यतेइह काचित् स्त्री स्त्रीत्वान्मरणेन च्युत्वा भवान्तरे नपुंसकवेदं पुरुषवेदं वाऽन्तर्मुहुर्तमनुभूय स्त्रीत्वेनोत्पद्यते, तत एवं जघन्यतोऽन्तर्मुहुर्त भवति, उत्कर्षतो वनस्पतिकालो- ऽसंख्येयपुद्गलपरावर्ताख्यो वक्तव्यस्तावता कालेनामुक्तौ सत्यां नियोगतः स्त्रीत्वयोगात्। स च वनस्पतिकालः, एवं वक्तव्यः- अणंताओ ओसप्पिणिउस्सप्पिणीओ कालओ, खेत्तओ अणंता लोगा असंखेजा पोग्गलपरियट्टा, ते णं पोग्गलपरियट्टा आवलियाए असंखेजइभागो इति / एषामौधिक तिर्यक स्त्रीणा जलचरस्थलचरख-चरस्त्रीणामौधिकमनुष्यस्त्रीणां च जघन्यतः उत्कर्षतशान्तरं वक्तव्यमभिलापोऽपि सुगमत्वात् स्वयं परिभावनीयः। कर्मभूमिक-मनुष्यस्त्रियाः क्षेत्रं कर्मभूमिक्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतोऽनन्तं कालं, वनस्पतिकालप्रमाणं यावत् / धर्मचरणं प्रतीत्य जघन्येनैकं समयं, सर्वजघन्यस्य समयत्वात् उत्कर्षणानन्तं कालं देशोनमपार्द्ध पुद्गलपरावर्ते यावत् नातो ह्यधिकतरश्चरणलब्धिपातकालासंपूर्णस्याप्यपार्द्धपुद्गलपरावर्त्तस्य दर्शनलब्धिपात-कालस्य तत्र प्रतिषेधात् / एवं भरतैरावतमनुष्यस्त्रियाः, पूर्व विदेहापरविदेहस्त्रियाश्च / क्षेत्रतो धर्मचरणं वा आश्रित्य वक्तव्यम् / अकर्मभूमकमनुष्यस्त्रिया जन्म प्रतीत्यान्तरंजधन्येन दशवर्ष-सहस्राणि अन्तर्मुहूत्तभ्यिधिकानि / कंथमिति चेदुच्यते- इह काचिदकर्मभूमिका स्त्री मृत्वा जघन्यस्थितिषु देवेषूत्पन्ना तत्र दशवर्षसहस्राण्यायुः परिपाल्य तत्क्षये च्युत्वा कर्मभूमिषु मनुष्यपुरुषत्वेन मनुष्यस्त्रीत्वेन योत्पद्यते, देवेभ्योऽनन्तरमकर्मभूमौ न जन्मेति कर्मभूमिषूत्पादिता