________________ अंतर 76 - अभिवानराजेन्द्रः - भाग 1 अंतर कालो वनस्पतिकालो नरकादुद्वृत्तस्य पारम्पर्येणानन्तं कालं वनस्पतिष्ववस्थानात् तिर्यग्योनिकसूत्रे जघन्यतोऽन्तमुहूर्त तच्च तिर्यग्यो निकभवादुवृत्त्यान्यत्रान्तर्मुहूर्त स्थित्वा भूयः तिर्यग्योनिकत्वेनोत्पद्यमानस्य वेदितव्यमुत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेकं तिर्यग्योनिकसूत्रे मनुष्यसूत्रे मानुषीसूत्रे देवसूत्रे च जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो वनस्पतिकालः। जी०७ प्रति०। नैरयिकस्य, यथानेरइयमणुस्सदेवाण य अंतरं जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं सागरोवमसयपुहुत्तं साइरेगं। नैरयिकस्य भदन्त ! अन्तरं नैरयिकत्वात्परिभ्रष्टस्य भूय आ नैरयिकत्वप्राप्तेरपान्तरालं कालतः कियचिरं भवति ? कियन्तं कालं यावद्भतीत्यर्थः / भगवानाह- जघन्येनान्तर्मुहूर्त, कथमिति चेत् ? उच्यते-नरकादुवृत्त्य मनुष्यभवे तिर्यग्भवे वा अन्तर्मुहूर्त स्थित्वा भूयो नरकेषूत्पादात् / तत्र मनुष्यभवे भावना इयंकश्चि- न्नरकादुवृत्त्य गर्भजमनुष्यत्वेनोत्पद्य सर्वाभिः पर्याप्तिभिः पर्याप्तो विशिष्टसंज्ञानोपेतो वैक्रि यलब्धिमान् राज्याद्याकाङ्की परचक्रा-धुपद्रवमार्य स्वशक्तिप्रभावतश्चतुरङ्गं सैन्यं विकु वित्या संग्राम- यित्वा महारौद्रध्यानोपगतो गर्भस्थ एव कालं करोति, कृत्वा च काल, भूयो नरके षूत्पद्यते / तत एवमन्तर्मुहूर्त तिर्यग्भवे नरकाद् उवृत्तो गर्भध्युत्क्रान्तिकतन्दुलमत्स्यत्वेनोत्पन्नश्च महारौद्रध्यानोपगतोऽन्तर्मुहूर्त जीवित्वा भूयो नरके जायते, इति उत्कर्षतोडजन्तं कालम्, परम्परया च वनस्पतिषूत्पादादवसातव्यस्तथाचाहवनस्पतिकालः, स च प्रागेवोक्तः / तिर्यग्योनिकविषयं प्रश्नसूत्र पूर्ववत् निर्वचनं जघन्येनान्तर्मुहूर्त, तच्च कस्यापि तिर्यक्त्वं मुक्त्वा मनुष्यभवे ऽन्तर्मुहूर्त स्थित्वा भूयः तिर्यक्त्वे नोत्पद्यमानस्य द्रष्टव्यम् / उत्कर्षतः सातिरेकं, सागरोपमशतपृथक्त्वं, तच नैरन्तर्येण देवनारकमनुष्यभवभ्रमणेनावसातव्यं मनुष्यविषयमपि प्रश्नसूत्रतथैव निर्वचनं जघन्येनान्तर्मुहूर्त, तच्च मनुष्यभवादुवृत्त्य तिर्य-ग्भवेऽन्तर्मुहूर्त स्थित्वा भूयो मनुष्यत्वेनोत्पद्यमानस्यावसातव्यम् / उत्कर्षतोऽनन्तं कालं, सचानन्तकालः प्रागुक्तो वनस्पति कालः। देवविषयमपि प्रश्नसूत्रं सुगम, निर्वचनं जघन्येनान्तर्मुहूर्त / कश्चित् देवभवाद् च्युत्वा गर्भजमनुष्यत्वेनोत्पद्य सर्वाभिः पर्याप्तिभिः पर्याप्तो विशिष्टसंज्ञानोपेतस्तथाविधस्य श्रमणोपासकस्य वा धर्मध्या-नोपगतो गर्भस्थ एव कालं करोति कालं च कृत्या देवेषूत्पद्यते / ततः, एवमन्तर्मुहूर्तमुत्कर्षतोऽनन्तं कालं, सचानन्तः कालो यथोक्तस्वरूपो वनस्पतिकालः प्रतिपत्तव्यः / जी० 4 प्रति०। (गुणस्थानकान्याश्रित्यान्तरं गुणट्ठाण शब्दे) चरिमाणं भंते ! चरिमएत्ति कालतो केव चिरं होति गोयमा! चरिमे अणादिए सवज्जवसिए अचरिमे दुविहे अणादिए वा अपज्जवसिए सातीए वा अपञ्जवसिए दोण्हं पिनत्थि अंतरं। प्रश्नसूत्रं सुगम भगवानाह- गौतम ! अनादिकस्य सपर्यवसितस्य नास्त्यन्तरं, चरमत्वापगमे सति पुनश्वरमत्वायोगात् / अचरमस्थापि अनाद्यपर्यवसितस्य साद्यपर्यवसितस्य वा नास्त्यन्तरम् अविद्यमानचरमत्वात्। जी०४ प्रति०। ज्ञानमाश्रित्य जीवानामन्तरम् / णाणिम्म अंतरं जहण्णेणं अंतोमुहत्तं, उक्कोसेणऽणतं कालं अवडं पोग्गलपरियटुंदेसूणं अन्नाणिस्स दोण्ह वि आदिल्लाणं त्थि अंतरं सातियस्स सपज्जवसियस्स जहण्णेणं अंतोमुहुर्त उक्कोसेणं छावट्टि सागरोदमाई सातिरेकाई। ज्ञानिनो भदन्त ! अन्तरं कालतः कियचिरं भवति ? भगवानाहगौतम ! सादिकस्य अपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वेन सदा तभावापरित्यागात् सादिकस्य सपर्यवसितस्य जधन्येनान्तमुहूर्तमेतावता मिथ्यादर्शनकालेन व्यवधानेन भूयोऽपि ज्ञानभावात् उत्कर्षण अनन्तं कालमनन्ता उत्सपिण्यवसर्पिण्यः / कालतः क्षेत्रतोऽपार्द्ध पुद्गलपरावर्त देसोनं सम्यग्दृष्टेः, सम्यक्त्वात् प्रतिपतितस्य एतावन्तं कालं मिथ्यात्वमनुभूय तदनन्तरमवश्यं सम्यक्त्वासादनात् / “अण्णाणिस्स णं भन्ते !" इत्यादि प्रश्नसूत्रं सुगम, भगवानाह- गौतम ! अनाद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वादेवमनादि पर्यवसितस्यापि नास्त्यन्तरमवाप्तकेवलज्ञानस्य प्रतिपाताभावात्।सादिपर्यवसितस्यजधन्येनान्त-मुहूर्त जघन्यस्य सम्यग्दर्शनकालस्य एतावन्मात्रत्वात् , उत्कर्षतः षट्षष्टिसागरोपमाणि सातिरेकाणि / एतावतोऽपि कालादूर्व सम्यग्दर्शनप्रतिपाते सत्यज्ञानभावात्। जी० सर्वजी०१ प्रति०। आभिनिबोधिकादेरन्तरम् / आमिणिबोहियणाणिस्स णं मंते ! अंतरं कालओ केव चिरं होइ ? गोयमा! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं अणंतं कालं, जाव अवड्व पोग्गलपरियट्टे देसूणं / एवं सुयणाणिस्स वि, ओहिणाणिस्स वि, मणपज्जवणाणिस्स वि। केवलणाणिस्स णं भंते ! अंतरं सादियस्स अपञ्जवसियस्स णत्थिं अंतरं / मतिअण्णाणिस्सणं भंते ! अंतरं अणादियस्स अपञ्जवसियस्स णत्थि अंतरं / अणाइयस्स सपज्जवसियस्स णत्थि अंतरं / सादियस्स सपज्जवसियस्स जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं छावट्ठि सागरोवमाइं सातिरेगाई। एवं सुयणाणिस्स वि विभंगणाणिस्स णं मंते ! अंतरं जहण्णेणं अंतोमुहत्तं,उक्कोसेणं वणस्सइकालो। अन्तरचिन्तायामाभिनिबोधिकज्ञानिनोऽन्तरं जघन्येनान्तर्मुहूर्तमुत्कर्षतोऽनन्तं कालं यावदपार्द्धपुद्गलपरावर्त देशोनम् / एवं श्रुतज्ञानिनोऽवधिज्ञानिनो मनःपर्यवज्ञानिनश्चान्तरं वक्तव्यम् / केवलज्ञानिनः साद्यपर्यवसितस्य नास्त्यनतरं, मत्यज्ञानिनः श्रुत ज्ञानिनश्चानाद्यपर्यवसितस्याऽनादिसपर्यवसितस्य च नास्त्यन्तरं / सादिपर्यवसितस्य जघन्येनान्तर्मुहूर्तमुत्कर्षतः षट्षष्टिः सागरोपमाणि / विभङ्गज्ञानिनः जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतोऽनन्तं कालं, वनस्पतिकालः। जी० सर्वजी०७ प्रति०। आ० चू०। भ०। (32) सस्थावरनोत्रसस्थावराणामन्तरम् / तसस्स णं मंते ! केवतियं कालं अंतरं होति ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं वणस्सइकालो। थावरस्स णं भंते ! केवतियं कालं अंतरं होति ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं असंखेजाओ ओसप्पिणिउस्सप्पि णीओ। सुगमं नवरमसंख्येया उत्सर्पिण्यवसप्पिण्यः कालतः, क्षेत्रतोऽसंख्येया लोका इत्येतावत्प्रमाणमन्तरं तेजस्कायिकवायु