________________ अंतर 74 - अभिवानराजेन्द्रः - भाग 1 अंतर पव्वयस्स दाहिणिल्ले चरमंते / एस णं सत्तासीई जोयणसहस्साई अबाहाए अंतरे पण्णत्ते / स०१६० पत्र। महाहिमवतोऽन्तरं यथामहाहिमवंतस्स वासहरपव्वयस्स समधरणितले एस णं सत्तजोयणसयाइं अबाहाए अंतरे पण्णत्ते एवं रुप्पिकूडस्स वि। भावार्थोऽयं हिमवान् योजनशतद्वयोच्छ्रितस्तत्कूटं च पञ्चशतोच्छ्रितमिति सूत्रोक्तमन्तरंभवतीति। स०१४४ पत्र। महाहिमवंतकूडस्स णं उवरिमंताओ सोगंधियस्स कंडस्स हेट्ठिल्ले चरमंते एस णं सत्तासीइजोयणसयाइं अबाहाए अंतरे पण्णत्ते / एवं रुप्पिकूडस्स वि। महाहिमवति द्वितीयवर्षधरपर्वते अष्टौ सिद्धायतनकूट महाहिमवत्कूटादीनि कूटानि भवन्ति तानि पञ्चशतोच्छ्रितानि / तत्र महाहिमवत्कूटस्य पञ्च शतानि द्वे शते महाहिमवद्वर्षधरोच्छ्रयस्य अशीतिश्च शतानि प्रत्येकं सहस्रमानानामष्टानां सौगन्धिककाण्डावसानानां रत्नप्रभाखरकाण्डावान्तरकाण्डानामित्येवं मीलिते सप्ताशीतिरन्तरंभवतीति / (एवं रुप्पिकूडस्स वित्ति) रुक्मिणि पञ्चमवर्षधरे यद् द्वितीयं रुक्मिकृटाभिधानं कूट तस्या-प्यन्तरं महाहिमवत्कूटस्येव वाच्यं समानप्रमाणत्वाद् द्वयोरपीति / स० 138 पत्र। महाहिमवतो वर्षधरपर्वतस्यान्तरं यथामहाहिमवंतस्सणं वासहरपव्वयस्स उवरिल्लाओ चरमंताओ सोगंधियस्स कंडस्स हेट्ठिल्ले चरमंते एस णं बासीई जोयणसयाई अबाहाए अंतरे पण्णत्ते।। महाहिमवतो द्वितीयवर्षधरपर्वतस्य योजनशतद्वयोच्छ्रितस्य (उवरिल्लाओत्ति) उपरितनाच्चरमान्तात् सौगन्धिककाण्डस्याऽधस्तनश्वरमान्तो ह्यशीतिर्यो जनशतानि। कथं ? रत्नप्रभापृथिव्यां हि त्रीणि काण्डानि खरकाण्डपङ्ककाण्डाऽब्बहुलकाण्डानि खरकाण्ड पङ्ककाण्डमबहुलकाण्डं चेति। तत्र प्रथम काण्डं षोडशविधं, तद्यथारत्नकाण्ड 1 वज्रकाण्डम् 2 एवं वैडूर्य 3 लोहिताक्ष 4 मसारगल्ल 5 हंसगर्भ६ पुलक 7 सौगन्धिक 8 ज्योतीरसाऽञ्जना १०ऽजनपुलक 11 रजत 12 जातरूप 13 पङ्क 14 स्फटिक 15 रिष्टकाण्डं चेति 16 एतानि च प्रत्येकं सहस्र प्रमाणानि ततश्च सौगन्धिककाण्डस्याष्टत्वादशीतिशतानि द्वे च शते महाहिमवदुच्छ्रय इत्येवं त्र्यशीतिशतानीति एवं रुक्मिणोऽपि पञ्चमवर्षधरस्य वाच्यं महाहिमवत्समानोच्छ्रयत्वात्तस्येति / स०१६५ पत्र / (24) लवणसमुद्रचरमान्तयोरन्तरं, यथालवणस्स णं समुद्दस्स पुरथिमिल्लाओ चरमंताओ पचत्थिमिल्ले चरमंते एसणं पंचजोयणसयसहस्साई अबाहाए अंतरे पण्णत्ते। तत्र जम्बूद्वीपस्य लक्षं चत्वारि च लवणस्येति पञ्च / स० 165 पत्र / (25) लवणसमुद्रद्वाराणामन्तरं, यथालवणस्स णं समुहस्य दारस्य य दारस्स य केवइयं अबाहाए अंतरे पण्णत्ते ? गोयमा ! तिणि जोयणसयसहस्साई। पंचाणउइसहस्साइंदुण्णि य असीए जोयणसए कोसं च दारंतरे लवणे जाव अबाहाए अंतरे पण्णत्ते। लवणस्य भदन्त ! समुद्रस्यद्वारस्यद्वारस्य (एस णमिति) एतत् अन्तरं कियत्या अबाधया अन्तरालत्वाव्याघातरूपया प्रज्ञप्तं ? भगवानाहगौतम ! त्रीणि योजनशतसहस्राणि पञ्चनवति-सहस्राणि अशीतिः द्वे योजनशते क्रोशश्चैको द्वारस्यद्वारस्याबाधया अन्तरं प्रज्ञप्तम्। तथाहिएकैकस्य द्वारस्य पृथुत्वं चत्वारि योजनानि एकैकस्मिश्च द्वारे एकैव द्वारशाखा क्रोशबाहल्याद द्वारे च द्वे द्वे शाखे ततः एकैकस्मिन् द्वारे सामस्त्येन चिन्त्यमाने सार्द्ध-योजनचतुष्टयप्रमाणं प्राप्यते, चतुर्णामपि च द्वारणामेकत्र पृथुत्व-मीलने जातान्यष्टादश योजनानि, तानि लवणसमुद्रपरिरयपरिमा- णात् पञ्चदशशतसहस्राणि एकाशीतिः सहस्राणि एकोनचत्वारिं-शद्योजनशतमित्येवं परिमाणादपनीय च यच्छे षं तस्य चतुर्मिर्भागे हृते यदागच्छति, तत् द्वाराणां परस्परमन्तरपरिमाण, तच यथोक्त- मेव / उक्तं च "असीया दोन्निसया, पणनउइसहस्स तिन्नि लक्खाय। कोसोय अंतरं सागरस्स दाराण विन्नेयं"||१|| जी०३ प्रति०। (26) वडवामुखादीनामधस्तनाचरमान्ताद् रत्नप्रभाया अधस्तनश्चरमान्तः। वलयामुहस्स णं पायालस्स हिडिल्लाओ चरमंताओ इमीसे रयणप्पभाए पुढवीए हेट्ठिल्ले चरमंते एस णं एगणासिं जोयणसहस्साई अबाहाए अंतरे पण्णत्ते / एवं केउस्स वि, जूयस्स वि, ईसरस्स वि। तत्र (वलयामुहस्सत्ति) वडवामुखाभिधानस्य पूर्वदिव्य-वस्थितस्य (पायालस्सत्ति) महापातालकलशस्याधस्तन- चरमान्ताद् रत्नप्रभापृथ्वीचरमान्त एकोनाशीत्या सहस्रेषु भवति। कथं ? रत्नप्रभा हि अशीतिसहस्राधिकं योजनानां,लक्षं बाह-ल्यतो भवति। तस्याश्चैकं समुद्रावगाहसहस्रं परिहृत्याऽधो लक्ष- प्रमाणावगाहो वलयामुखपातालकलशो भवति, ततस्तचर-मान्तात् पृथिवीचरमान्तो यथोक्तान्तरमेव भवति। एवमन्येऽपि त्रयो वाच्या इति। स०१३६ पत्र। (27) विमानकल्पानामन्तरम्। जोइसियस्स णं भंते ! सोहम्मीसाणाण य कप्पाणं केवइयं पुच्छा ? गोयमा ! असंखेज्जाई जोअणसहस्साइं जाव अंतरे पण्णत्ते। सोहम्मीसाणाणं भंते ! सणंकुमारमाहिंदाण य केवइयं एवं चेव सणंकुमारमाहिंदाणं भंते ! बंभलोगस्स कप्पस्स केवइयं एवं चेव बंभलोगस्सणं भंते !लंतगस्सय कप्पस्स केवइयं एवं चेव लंतगस्स णं भंते ! महासुक्कस्स य कप्पस्स केवइयं एवं चेव महासुक्कस्सय कप्पस्स सहस्सारस्स य एवं सहस्सारस्स आणयपाणयकप्पाणं एवं आणयपाणयाणं आरणऽचुयाण कप्पाणं एवं आरणऽचुयाणं गेविजगविमाणाण य एवं गेविजगविमाणाणं अणुत्तरविमाणाण य एवं अणुत्तरविमाणाणं भंते ! ईसिप्पन्भाराए पुढवीए केवइयं पुच्छा ? गोयमा ! दुवालस जोयणे अबाहाए अंतरे पण्णत्ते / भ० 24 श० 8 उ०।