________________ अंतकिरिया 56 - अभिधानराजेन्द्रः - भाग 1 अंतकिरिया (तस्स णंति यश्चैवंविधस्तस्य णं वाक्यालङ्कारे नो तथाप्रकारमत्यन्तघोरं वर्द्धमानजिनस्येव तपोऽनशनादिर्भवति / तथा नो तथाप्रकारा अतिघोरैर्वोपसर्गादिभिः सम्पाद्या वेदनादुःखासिका भवति, अल्पकर्मप्रत्यायातत्वादिति। ततश्च तत्तथाप्रकार मल्पकर्मप्रत्यायातादिविशेषणकलापोपेतं पुरुषजातं पुरुष-प्रकारो दीर्घेण बहुकालेन पर्यायण प्रव्रज्यालक्षणेन कर्मभूतेन सिध्यति / अणिमादियोगेन निष्ठितार्थो वा विशेषतः सिद्धिगमन-योग्यो वा भवति सकलकर्मनायकमोहनीयघातात, ततो घातिचतुष्टयघातेन बुध्यते केवलज्ञानभावात् समस्तवस्तूनि,ततो मुच्यन्ते भवोपग्राहिकर्मभिः, परिनिर्वाति सकलकर्मकृविकारव्यतिकरनिराकरणेन शीतीभवति / किमुक्तं भवतिय? इत्याहसर्वदुःखानामन्तं करोति, शारीरमानसानामित्यर्थः / अतथाविधतपोवेदनो दीर्घेणाऽपि पर्यायण किं कोऽपि सिद्धः? इति शङ्कापनोदार्थमाह। "जहा से इत्यादि" यथाऽसौ प्रथमजिनप्रथमनन्दनो नन्दनशतागजन्मा भरतो राजा चत्वारोऽन्ताः पर्यन्ताः पूर्वदक्षिणपश्चिमसमुद्रहिमवल्लक्षणा यस्याः पृथिव्याः सा चतुरन्तातस्या अयं स्वामित्वेनेति चातुरन्तः। स चाऽसौ चक्रवर्ती चेति स तथा। स हि प्राग्भवे लघुकृतकर्मा सर्वार्थसिद्धविमानात् च्युत्वा चक्रवर्तितयोत्पद्य राज्यावस्थ एव केवलमुत्पाद्य कृत-पूर्वलक्षप्रव्रज्यः अतथाविधतपोवेदन एव सिद्धिमुपगत इति प्रथमाऽन्तक्रियेति। अहावरे दोचा अंतकिरिया महाकम्मं पञ्चायाए यावि भवइ। से णं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए संजमबहुले संवरबहुले जाव उवहाणवं दुक्खक्खवे तवस्सी / तस्स णं तहप्पगारे तवे भवइ तहप्पगारा वेयणा भवइ / तहप्पगारे पुरिसजाए निरुद्धेणं परियाएणं सिज्झइ जाव अंतं करेइ। जहा से गजसुकुमाले अणगारे / दोचा अंतकिरिया। अथानन्तरमपरा पूर्वापेक्षया अन्या द्वितीयस्थानेऽभिधानात् द्वितीया महाकर्मभिर्गुरुकर्मभिः महाकर्मा वा सन् प्रत्यायातः प्रत्याजातो वा यः सतथा "तस्सणमित्यादि" तस्य महाकर्म प्रत्याजातत्वेन तत्क्षपणाय तथाप्रकारं घोरं तपो भवति / एवं वेदनाऽपि कर्मोदयसम्पाद्यत्वादुपसर्गादीनामिति निरुद्धेनेति अल्पेन यथाऽसौ गजसुकुमारो विष्णोर्लघुभ्राता स हि भगवतो-ऽरिष्टनेमिजिनना-थस्यान्तिके प्रव्रज्यां प्रतिपद्य स्मशाने कृत-कायोत्सर्गलक्षणमहातपाः शिरोनिहितजाज्वल्यमानाऽङ्गार-जनितात्यन्तवेदनोऽल्पेनैवपर्यायण सिद्धवानिति शेष कण्ठ्य म्। अहावरे तचा अंतकिरिया महाकम्मपचायाए यावि भवइ। से णं मुंडे भवित्ता अगाराओ जाव पव्वइए। जहा दोचा, णवरं दीहेणं परियाएणं सिज्झइ जाव सव्वदुक्खाणमंतं करेइ। जहा से सणंकुमारे राया चाउरंतचक्कवट्टी। तचा अंतकिरिया 31 "अहावरेत्यादि"कण्ट्य, यथाऽसौ सनत्कुमार इति, चतुर्थचक्रवर्ती। स हि महातपाः महावेदनश्च सरोगत्वात् दीर्घतरपर्यायेण च सिद्धस्तद्भवे सिद्ध्यभावेन भवाऽन्तरे सेत्स्यमानत्वादिति। अहावरा चउत्था अंतकिरिया अप्पकम्मपञ्चायाए यावि भवइ / से णं मुंडे भवित्ता जाव पव्वइए संजमबहुले जाव तस्स णं णो तहप्पगारे तवे भवइ, नो तहप्पगारा वेयणा भवइ / तहप्पगारे पुरिसजाए निरुद्धेणं परियाएणं सिज्झइ जाव सव्वदुक्खाणमंतं करेइ / जहा सा मरुदेवी भगवई / चउत्था अंतकिरिया। "अहावरेत्यादि" कण्ठ्यं यथाऽसौ मरुदेवी प्रथमजिनजननी, सा हि स्थावरत्वेऽपि क्षीणप्रायकर्मत्वेनाऽल्पकर्मा अविद्यमानतपोवेदनाच सिद्ध गजवराऽऽरूढाया एवाऽऽयु:समाप्तौ सिद्धत्यादिति / एषाञ्च दृष्टान्तद्रान्तिकानामर्थानां न सर्वथा साधर्म्यमन्वेषणीयं देशदृष्टान्तत्वादेषां, यतो मरुदेव्याः "मुण्डे भवित्ता" इत्यादि विशेषणानि कानिचित् न घटन्ते / अथवा फलतः सर्वसाधर्म्यमपि मुण्डनादिकार्यस्य सिद्धत्वस्य सिद्धत्वादिति / स्था०४ ठा०१ उ०। अन्तक्रियायाः सकला वक्तव्यता प्रदर्श्यते, तत्रेयमादावधिकारगाथा - नेरइयअंतकिरिया, अणंतरं एगसमय उव्वट्टा। तित्थगरचकिबलदेव-वासुदेवमंडलियरयणा य / / 1 / / प्रथमतो नैरयिकोपलक्षितेषु चतुर्विशतिस्थानेष्वन्तक्रिया। चिन्तनीया, ततोऽनन्तरागताः किमन्तक्रियां कुर्वन्ति, परम्परागता वेत्येवमन्तरं चिन्तनीयम् / ततो नैरयिकादिभ्योऽनन्तरमागताः कियन्त एकसमये अन्तक्रियां कुर्वन्तीति चिन्त्यं, तत"उव्वट्टा० इति" उद्वृत्ताः सन्तः कस्यां योनावुत्पद्यन्ते ? इति वक्तव्यं, तथा यत उवृत्तास्तीर्थकराश्चक्रवर्तिनो बलदेवा वासुदेवा मण्डलिका-चक्रवर्तिनी रत्नानि च सेनापतिप्रमुखाणि भवन्ति, ततस्तानि क्रमेण वक्तव्यानीति द्वारगाथासंक्षेपार्थः / विस्तारार्थं तु सूत्रकृ देव वक्ष्यति / तत्र प्रथमतोऽन्तक्रियामभिधित्सुराह - जीवे णं भंते ! अंतकिरियं करेजा ? गोयमा ! अत्थे- गतिए करेजा, कत्थेगइए नो करेजा। एवं नेरइए जाव वेमाणिए। जीवेणमिति वाक्यालंकृतौ भदन्त ! अन्तक्रियामिति अन्तो-ऽवसानं, तच प्रस्तावादिह कर्मणामवसातव्यम्। अन्य-त्रागमेऽन्तकियाशब्दस्य रूढत्वात्, तस्य क्रिया करणमन्तक्रिया कर्माऽन्तकरणं मोक्ष इति भावार्थः / कृत्स्नकर्मक्षयात् मोक्ष इतिवचनात्। तां कुर्याद् / भगवानाहगौतम ! अस्त्येकको यः कुर्यात्, अस्त्येकको यो न कुर्यात् / इयभत्र भावना- यतः तथाविधभव्यत्वपरिपाकवशतो मनुष्यत्वादिकामविकलां सामग्रीमवाप्य तत्सामर्थ्यसमुद्भूताऽतिप्रबलवीर्योल्लास- वशतः क्षपकश्रेणिसमारोहणेन केवलज्ञानमासाद्य घातीन्यपि कर्माणि क्षपयेत्, स कुर्यात्, अन्यस्तु न कुर्याद् विपर्ययादिति / एवं नैरयिकादिचतुर्विशतिदण्डकक्रमेण तावद्भावनीया, यावद् वैमानिकाः / सूत्रतस्त्वेवम् "नेरइया णं भंते ! अंतओ किरियं करेजा गोयमा ! अत्थेगइए करेजा, अत्थेगइए नो करेजा इत्यादि / इदानी नैरयिकेषु मध्ये वर्तमानोऽन्तक्रियां करोति ? किंवा न करोतीति पिपृच्छिषुरिदमाह - नेरइएणं भंते ! असुरकुमारेसु अंतकिरियं करेज्जा ? गोयमा ! नो इणढे समढे / एवं जाव वेमाणिएसु, णवरं मणुस्सेसु अंतकिरियं करेज्जइ पुच्छा ! गोयमा ! अत्थेगतिए करेजा, अत्थेगतिए नो करेजा। एवं असुरकुमारे जाव वेमाणिए / एवमेवं चउवीसं चउवीसा दंडगा भवंति। नेरइए णमित्यादि, भगवानाह- गौतम! नाऽयमर्थः समर्थो युक्तयुपपन्न इत्यर्थः / कथमिति चेदुच्यते- इह कृत्स्नकर्मक्षयः प्रकर्षप्राप्तात् सम्यग्दर्शनज्ञानचारित्रसमुदायाद् भवति,न च नैरयिकावस्थायां चारित्रपरिणामस्तथास्वाभाव्यादिति।