________________ अंत 55 - अभिधानराजेन्द्रः - भाग 1 अंतकिरिया दो अंता, पंच पंच वायामा पण्णत्ता / तंजहा- थूलंते य, तणुयंते या तत्थ णं जे से थूलंते, ते णं उचारे परिणमइ। तत्थ | गंजे से तणुयंते, ते णं पासवणे परिणमइ। द्वे अन्त्रे, प्रत्येकं पञ्च पञ्च व्यायामप्रमाणे प्रज्ञप्ते जिनैः / तद्यथास्थूलाऽन्त्रं 1, तन्वन्त्रम् 21 तत्र यत्स्थूलाऽन्त्रं, तेनोचारः परिण-मति / तत्रच यत्तन्वन्त्रं, तेन प्रश्रवणं मूत्रं परिणमति। तथा प्रतिबोधार्थ भगवता वीरेण दृष्ट चतुर्थे स्वप्ने च / आ० म० द्वि० *आन्त-न०। अन्ते भवमान्तम् / मुक्तावशेष, पंचा० 16 विव०॥ अरसतया सर्वधान्यान्तवर्तिनि वल्लचणकादौ, भ०६ श० 33 उ०। स्था०। "णिप्पावमाइ अंतं' निष्पावा वल्लाश्चणकाः प्रतीता: आदिशब्दात् कुल्माषादिकं च आन्तमित्युच्यते। बृ०१ उ०। ज्ञा०। अंत(२)अव्य०(अन्तर्) / अम्-अरन्, तुडागमश्च / वाच॥ स्वरेऽन्तरश्च / 11 / 14 / इति अन्तःशब्दस्याऽन्त्यव्यञ्जनस्य स्वरे परे न लुक् अन्यत्र लुक् / प्रा० मध्ये। आ० म० द्वि० रा०। आचा०। विशे०। "अंतरप्पा' अत्र स्वरपरत्वात् न लुक् / क्वचिद् भवत्यपि "अंतोवरि" प्रा० अंतक (ग)-पुं०(अन्तक) अन्तयति अन्तं करोति, अन्त-णिचण्वुल्। वाचा मृत्यौ, "समागम कंखति अंतकस्स"। सूत्र०१श्रु०७ अ० पर्यन्ते, "जे एवं परिभासंति, अंतए ते समाहिए। सूत्र०१ श्रु० 2 अ० अन्तर्वर्तिनि च / सूत्र०१ श्रु०१५ अ०) अंतकम्म-न०(अन्तकर्मन्) अचलकर्मणि, औ०। अंतक (ग)र-त्रि०(अन्तकर) अन्तस्य करः। संसारस्य तत्कारणस्य वा क्षयकारिणि, "अंताणि धीरा सेवंति, तेणं अंतकरा इह"। सूत्र०१ श्रु० 15 अ०1 आ० म० द्वि० भ०। स्था०। अंतकर(गड)भूमि-स्त्री०[अन्तकर(कृद्)भूमि] अन्तं भवस्य कुर्वन्तीति अन्तकराः(अन्तकृतो वा), तेषां भूमिः कालः, कालस्य चाऽऽधारत्वेन कारणत्याद् भूमित्वेन व्यपदेशः / मुक्तिगामिनां काले, सा द्विधा युगान्तकरभूमिः पर्यायान्तकरभूमिश्च / जं० 2 वक्ष०। (यस्य तीर्थकृतो यावती अन्तकरभूमिः, सा तच्छब्दे वक्ष्यते) अंतकाल-पुं०(अन्तकाल) मरणकाले, सूत्र० 1 श्रु० 5 अ० / अंतकिरिया-स्त्री०(अन्तक्रिया) अन्तोऽवसानं, तच्च प्रस्तावा-दिह कर्मणामवसातव्यमन्यत्राऽऽगमे अन्तक्रियाशब्दस्य रूढत्यात्तस्य क्रिया करणमन्तक्रिया / कर्माऽन्तकरणे, मोक्षे, कृत्स्नकर्मक्षयात् मोक्ष इति वचनात् / प्रज्ञा० 15 पद। *अन्त्य(न्त)क्रिया-स्त्री० अन्त्याचसापर्यन्तवर्तिनी क्रिया अन्त्यस्य वा कर्माऽन्तस्य क्रियाऽन्त्यक्रिया। कृत्स्नकर्मक्षय-लक्षणायां मोक्षप्राप्ती, भ०१ श०२ उ०। आ० म०प्र० स० चत्तारि अंतकिरियाओ पण्णत्ता / तंजहा- तत्थ खलु इमा पढमा अंतकिरिया अप्पकम्मपचायाए यावि भवइ। से णं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए संजमबहुले संवरबहुले / समाहिबहुले लूहे तीरट्ठी उवहाणवं दुक्खक्खवे तवस्सी। तस्स णं णो तहप्पगारे तवे भवइ, णो तहप्पगारा वेयणा भवइ / तहप्पगारे पुरिसजाए दीहेणं परियाएणं सिज्झइ, बुज्झइ मुच्चइ परिणिज्जाइ सव्वदुक्खाणमंतं करेइ / जहा से भरहे राया चाउरंतचक्कवट्टी। पढमा अंतकिरिया। यस्य न तथाविधं तपो, नाऽपि परीषहादिजनिता तथाविधा वेदना, दीर्पण प्रव्रज्यापर्यायेण सिद्धिर्भवति, तस्यैका 1, यस्य तु तथाविधे तपोवेदने अल्पेनैव च प्रव्रज्यापर्यायण सिद्धिः स्यात्तस्य द्वितीया 2, यस्य च प्रकृष्ट तपोवेदने दीर्घेण च पर्यायण सिद्धिस्तस्य तृतीया 3. यस्य पुनरविद्यमानतथाविधतपोवेदनस्य हस्वपर्यायेण सिद्धिस्तस्य चतुर्थीति 4 / अन्तक्रियाया एकस्वरूपत्वेऽपि सामग्रीभेदात् चातुर्विध्यमिति समुदायार्थः / अवयवार्थस्त्वयम्- चतस्रोऽन्तक्रियाः प्रज्ञप्ताः भगवतेति गम्यते, तत्रेति सप्तमी निर्धारणे तासु चतसृषु मध्य इत्यर्थः खलु-वक्यिालङ्कारे इयमनन्तरवक्ष्यमाणत्वेन प्रत्यक्षासन्ना प्रथमा इतराऽपेक्षया आद्या अन्तक्रिया। इह कश्चित् पुरुषः देवलोकादौ गत्वा ततोऽल्पैः स्तोकैः कर्मभिः करणभूतैः प्रत्यायातः प्रत्यागतो मानुषत्वमिति अल्पकर्मप्रत्यायातोय इति गम्यते। अथवा एकत्र जनित्वा ततोऽल्पकर्मा सन् यः प्रत्यायातः स तथा लघुकर्मतयोत्पन्न इत्यर्थः / चकारो वक्ष्यमाणमहाकर्माऽपेक्षया समुच्चयार्थः / अपिः सम्भावने, सम्भाव्यतेऽयमपि पक्ष इत्यर्थः / भवति स्यात् स इति। असौ णमिति वाक्यालङ्कारे मुण्डो भूत्वा द्रव्यतः शिरोलोचेन, भावतो रागाद्यपनयनेनाऽगारात् द्रव्यतो गेहात् भावतः संसाराऽभिनन्दिना देहिनामावासभूतादविवेकगेहात् निष्क्रम्येति गम्यतेऽनगारिताम्, अगारी गृही असंयतः, तत्प्रतिषेधादनगारी संयतस्तभावस्तत्ता, तां साधुतामित्यर्थः / प्रव्रजितः प्रगतः प्राप्त इत्यर्थः / अथवा विभक्तिपरिणामादनगारितया निर्ग्रन्थतया प्रव्रजितः प्रव्रज्यां। प्रतिपन्नः किंभूतः ? इत्याह (संजमबहुलेत्ति) संयमेन पृथिव्यादिसंरक्षणलक्षणेन बहुलः प्रचुरो यः स तथा। संयमो वा बहुलः प्रचुरो यस्य स तथा! एवं संवरबहुलोऽपि नवरमाश्रवनिरोधः संवरः अथवा इन्द्रियकषायनिग्रहादि भेदः / एवं च संयमबहुलग्रहणं प्राणातिपातविरतेः प्राधान्यख्यापनार्थम् / यतः 'एक चिय एत्थ वयं, निद्दिढ़ जिणवरेहि सवे हिं / पाणाइवायविरमणमवसेसा तस्स रक्खट्टत्ति' // 11 // एतच्च द्वितयमपि रागाद्युपशमयुक्तचित्तवृत्तेर्भवति / यत आह-सामाधिबहुलः, समाधिस्तु प्रशमवाहिता ज्ञानादिर्वा समाधिः / पुनर्निःस्नेहस्यैव भवतीत्याह(लूहेत्ति) रूक्षः शरीरे मनसि च द्रव्यभावस्नेहवर्जितत्वेन रुषः लूषयति वा कर्ममलमपनयतीति लूषः कथमसावेवं संवृत्त इत्याहयतः(तीरडी)तीरं पारं भवा-वर्णवस्याऽर्थयत इत्येवंशीलस्तीराऽर्थी तीरस्थायी वा तीर-स्थितिरिति वा प्राकृतत्वात् 'तीरट्ठीति' अत एवाह(उवहाण-वंति) उपधीयते उपष्टभ्यते श्रुतमनेने ति उपधानं श्रुतविषयस्तप उपचार इत्यर्थस्तद्वान् अत एव च (दुक्खक्खवेत्ति) दुःखमसुखं तत्कारणत्वाद्वा कर्म, तत्क्षपयतीति दुःखक्षपः / कर्मक्षपणं च तपोहेतुकमित्यत आह-(तवस्सीति)तपोऽभ्यन्तरकर्मेन्धनदहनज्वलनकल्पमनवरतशुभध्यानलक्षणमस्ति यस्य स तपस्वी