SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ अंगुल 44 - अभिवानराजेन्द्रः - भाग 1 अंगुल से एगे अंगुले''। भ०३श०७ उाज्योग स्था०। अगिरगि० इत्यादिदण्डकेपठितः अगिर्गत्यर्थो धातुर्गत्यर्था ज्ञानार्था अपि भवन्त्यतोऽङ्गयन्ते प्रमाणतोज्ञायन्ते पदार्था अनेनेत्यङ्गुलम्।मानविशेष, प्रव० 254 द्वा०। तद्भेदा यथा - से किं तं अंगुले ? अंगुले तिविहे पण्णत्ते / तंजहा - आयंगुले उस्सेहंगुले पमाणंगुले / अडलं त्रिविधं प्रज्ञप्तं, तद्यथा- आत्माऽङ्गुलमुत्सेधाऽङ्गुलं प्रमाणाऽङ्गुलम् / तत्र ये यस्मिन् काले भरतसगरादयो मनुष्याः प्रमाणयुक्ता भवन्ति,तेषां च संबन्धी अत्राऽऽत्मा गृह्यते / आत्मनामङ्गुलमात्माऽङ्गुलम्। अत एवाऽऽह आत्माङ्गुलम्। से किं तं आयंगुले ? आयंगुले जे णं जया मणुस्सा भवइ, तेसिंणं तया अप्पणो अंगुलेणं दुवालस अंगुलाई मुह, नवमुहा पुरिसे पमाणजुत्ते भवइ / दोण्णिए पुरिसे माणजुत्ते भवइ / अद्धभारं तुल्लमाणे पुरिसे उम्माणजुत्ते भवइ, माणुम्माणप्पमाणजुत्ता लक्खणवंजणगुणे हिं उववे आ उत्तमकुलप्पसूआ उत्तमपुरिसा मुणे अव्वा 1, हुंति पुण अहियपुस्मिा, अट्ठ सयं अंगुलाण उक्किट्ठा / छण्णउइ अहम्मपुरिसा, चउत्तरं मज्झिमिल्लाओ 2, हीणा वा अहिया वा जे खलु सरसत्तसारपरिहीणा / ते उत्तमपुरिसाणं, अवसा पेसत्तणमुपैति 3 / एएणं अंगुलपमाणेणं छ अंगुलाई पादो, दो पाया विहत्थी, दो विहत्थीओ रयणी, दो रयणीओ कुत्थी, दो कुत्थीओ दंडं, धणू जुगे नालिया अक्खमुसले / दो धनूसहस्साई गाउअं / चत्तारि गाउआई जोअणं / एएणं आयंगुल-प्पमाणेमं किं पओयणं ? एएणं आयंगुलेणं जे णं जया मनुस्सा हवंति तेसि णं तया णं आयंगुलेणं अगडतलागदहनदी वा वि पुक्खरिणी दोहि य गुंजालिआओ सरासरपंतिआओ सरासरपंतिआओ बिलपंतिआओ आरामुजाणकाणणवणवणसंडवणराइओ देउल सभापवाथूभखाइअपरिहाओ पागारअट्टायचरिअदारगोपुरपासायघरसरणलयण आवणसिंघाडगतिग चउक्कचउम्मुहमहापहपहासगड रहजाणजुग्गगिल्लिघिल्लिसिवे असंदमाणिआओ लोहीलोहकडाहकठिल्लयभडमत्तोवगरणमाईणि अज्जकलिआईच जोअणाई मविज्जति / से समासओ तिविहे पण्णत्ते / तंजहा- सूइअंगुले पयरंगुले घणंगुले अंगुलायया एग-पएसिया सेढी सूइअंगुले ,सूई सूइगुणिया पयरंगुले, पयरं सूइए गुणितं घणं गुले / एएसि णं सूइअंगुलपयरंगुल- घणंगुलाणं कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा? सव्वथोवे सुइअंगुले, पयरंगुले असंखेजगुणे,घणंगुणे असंखेज्जगुणे। सेतं आयंगुले। ये भरतादयः प्रमाणयुक्ता यदा भवन्ति, तेषां तदा स्वकीयमङ गुलमात्माङ्गुलमुच्यत इति शेषः / इदं च पुरुषाणां कालाऽऽदिभेदेनाऽनवस्थितमानत्वादनियतप्रमाणं दृष्टव्यम् / अनेनैवाऽऽत्माङ्गुलेन पुरुषाणां प्रमाणयुक्तादिनिर्णयं कुर्वन् आह(अप्पणो अंगुलेणं दुवालसेत्यादि) यद् यस्याऽऽत्मीय-मगुलं तेनाऽऽत्मनोऽड्गुलेन द्वादशाऽगुलानि मुखं प्रमाणयुक्तं भवत्यनेन च मुखप्रमाणेन नव मुखानि सर्वोऽपि पुरुषः प्रमाण-युक्तो भवति। प्रत्येक द्वादशाऽङ्गुलै नवभिमुखैरष्टोत्तरं शत-मङ् गुलानां संपद्यते / ततश्चैतावदुच्चयः पुरुषः प्रमाणयुक्तो भवतीति परमार्थः / अथ तस्यैव मानयुक्तताप्रतिपादनार्थमाह- द्रौणिकः पुरुषो मानयुक्तो भवति द्रोणी जलपरिपूर्णा महती कुण्डिका, तस्यां प्रवेशितो यः पुरुषो जलस्य द्रोणं पूर्वोक्तस्वरूपं निष्काशयति, द्रोणजलोनां वा तां पूरयति, स द्रोणिकः पुरुषो मानयुक्तो निगद्यते इति भावः। इदानीमेत-स्यैवोन्मानयुक्ततामाह - सारपुद्गलरचितत्वात् तुलारोपितः सन्नद्धभारं तुलयन् पुरुष उन्मानयुक्तो भवति। तत्रोत्तमपुरुषाः यथोक्तैः प्रमाणमानोन्मानैः अन्यैश्च सर्वैरेव गुणैः संपन्ना एव भवन्तीत्ये, तद् दर्शयन्नाह(माणुन्माणगाहा)अनन्तरोक्तस्वरूपैमानोन्मान-प्रमाणैर्युक्ता उत्तमपुरुषाश्चक्रवत्यार्यदयो ज्ञातव्या इति संबन्धः / तथा लक्षणान् शङ्कस्वस्तिकादीनि व्यञ्जनानि मषीतिलकादीनि गुणाः क्षान्त्यादयस्तैरुपेतास्तथोत्तमकुलान्युग्रादीनि तत्प्रसूता इति गाथार्थः। अथाऽऽत्मगुलेनैवोत्तममध्यमाऽधमपुरुषाणां प्रमाणमाह- (हुति पुणगाहा) भवन्ति पुनरधिकपुरुषा उत्तम पुरुषाश्चक्रवादयोऽष्टशतमगुला(उक्किट्ठा उ)उन्नमिता उच्चैस्त्वेन वा पुनःशब्दस्त्वेषामेवाऽधिक पुरुषादीनामने क-भेदतादर्शकः / आत्माङ्गुलेनैव षण्णवत्यङ् गुलान्यधमपुरुषा भवन्ति (चउरुत्तरमज्झिमिल्लाउत्ति) तेनैवाऽङ्गुलेन चतुरुत्तरमगुलशतं मध्यमानः तुशब्दो यथानुरूपशेष-लक्षणादिभावप्रतिपादनपर इति गाथार्थः / अष्टोत्तरशताऽङ्गुलमानाद् हीना अधिका वा ते किं भवन्तीत्याह- (हीणा वा गाहा) अष्टोत्तरशताऽगुलहीना वा अधिका वा, ये खलु स्वरः सकलजनादेयत्वप्रकृतिगम्भीरतादिगुणाऽलंकृतो ध्वनिः,सत्त्वं दैन्यविनिर्मुक्तो मानसोऽवष्टम्भः सारःशुभपुद्गलोपचयजः शरीरशक्तिविशेषस्तैः परिहीना सन्तस्ते उत्तम-पुरुषाणां उपचितपुण्यप्राग्भाराणाम् अवशा अनिच्छन्तोऽप्य-शुभकर्मवशतः प्रेष्यत्वमुपयान्ति, स्वरादिशेषलक्षणवैकल्य-साहाय्यात्, यथोक्त प्रमाणाद् हीनाऽधिक्यमनिष्टफलप्रदायि प्रतिपत्तव्यं, तत्के वलमिह लक्ष्यते / भरतचक्र वादीनां स्वाऽङ्गुलतो विंशत्यधिकाऽगुलशतप्रमाणानामपि निर्णीत-त्वात् / महावीरादीनां च केषांचित् मतेन चतुरशीत्याद्यड्गुल-प्रमाणत्वाद् भवन्ति विशिष्टाः स्वरादयः प्रधानफलदायिनः / यत उक्तम्- अस्थिष्वर्था सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु / गतौ यानं स्वरे चाऽऽज्ञा, सर्वं सत्त्वे प्रतिष्ठितम् // 1 // इति गाथाऽर्थः / एतेनाऽगुलप्रमाणेन षडङ्गुलानि पादः, पादस्यमध्यत प्रदेशः षडङ्गुलविस्तीर्णः, पादैकदेशत्वात् पादाः। द्वौ च युग्मीकृतौ पादौ वितस्तिः, द्वे च वितस्ती रत्निर्हस्त इत्यर्थः / रत्निद्वयं कुक्षिः, प्रत्येकं कुक्षिद्वयनिष्पन्नास्तु षट् प्रमाणविशेषा दण्डधनुर्युग-नालिकाऽक्षमुसललक्षणा भवन्ति / अत्राऽक्षा धुरी, शेषो गतार्थः / द्वे धनुःसहस्रे गव्यूतं चत्वारि गव्यूतानि योजनम्। ''एतेणं आयंगुलप्पमाणेणं किं पओअणमिति" गताऽर्थ, नवरं ये यदा मनुष्या भवन्ति, तेषां तदा आत्मनामङ्गुलेन स्वकीयस्वकीय-कालसंभवीनि अवटहृदादीनि मीयन्त इति संटङ्कः। (अवटादीनां व्याख्या स्वस्वस्थाने) / अनु० / तदेवमात्मा
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy