________________ अंगारपतावणा 43 - अभिधानराजेन्द्रः - भाग 1 अंगुल अं(इं)गार(ल)पतावणा-स्त्री०(अङ्गारप्रतापना) अङ्गारेषु प्रतापनाऽङ्गारप्रतापना। शरीरस्यशीतकालादौ अङ्गारेषु प्रतापनायाम्, प्रश्न० सं०५ द्वा०। अं(इं)गार(ल)मद्दग-पुं०(अङ्गारमर्दक)जीवा-ऽश्रद्धानतोऽङ्गाराणां मर्दनेनाऽङ्गारमर्दकेति प्रसिद्धिं गते रूद्रदेवा-ऽभिधे अभव्याऽऽचार्ये / तत्संविधानकं चैवं श्रूयते"सूरिर्विजयसेनाख्यो, मासकल्पविहारतः। समायातोमहाभागः, पुरेगर्जनकाभिधे।।१।। अथाऽत्र तिष्ठतस्तस्य, कदाचिन्मुनिपुङ्गवैः। गवां विसविलायां, स्वप्नोऽयं किल वीक्षितः॥२॥ कलभानां शतैः शूरैः, शूकरः परिवारितः। पञ्चभिर्भद्रजातीना-मस्मदाश्रयमागतः॥३॥ ततस्ते कथयामासुः, सूरेः स्वप्नंतमद्भुतम्। सूरिस्तूवाच तस्यार्थं, साधूनां पृच्छताममुम्॥४॥ सुसाधुपरिवारोऽद्य, सूरिरेष्यति कोऽपिवः। प्राघूर्णकः परं भव्यो, नासाविति विनिश्चयः॥५॥ यावज्जल्पत्यसौ तेषां, साधूनां सूरिरग्रतः। रुद्रदेवाभिधः सूरिः,तावत्तत्र समागतः / / 6 / / शनैश्वर इव स्फार - सौम्यग्रहगणान्वितः। एरण्डतरुवत्कान्त - कल्पवृक्षगणान्वितः // 7 // कृताच तस्य तैस्तूर्ण-मभ्युत्थानादिका क्रिया। आतिथ्यी यथायोग, सगच्छस्य यथागमम्॥८॥ ततो विकालवेलायां, कोलाकारस्य तस्यतैः। परीक्षणाय निक्षिप्ताः, अङ्गाराः कायिकीभुवि।।६।। स्वकीयाचार्यनिर्देशात्,प्रच्छन्नैश्च तकैः स्थितैः। वास्तव्यसाधुभिर्दृष्टा-स्ते प्राघूर्णकसाधवः॥१०॥ पादसंचूर्णिताङ्गार-कृशत्काररवस्तुतौ। मिथ्यादुष्कृतमित्येतद्,ब्रुवाणाः प्राणिशङ्कया।।११।। कृशत्काररवस्थाने, कृतचिहाइतीच्छया। दिने निभालयिष्यामः, कृशत्कारः किमुद्भवः / / 12 / / आचार्यो रुद्रदेवस्तु, प्रस्थितः कायिकी भुवम्। कृशत्काररवं कुर्वन,अङ्गारपरिमर्द्धनात्॥१३॥ जीवाश्रद्धानतो मूढो, वदंश्चैतजिनैः किल। जन्तवोऽमी विनिर्दिष्टाः, प्रमाणैर्व्यकृता अपि॥१४॥ वास्तव्यसाधुभिर्दृष्टो,यथादृष्टं च साधितम्। सूरिविजयसेनस्य, तेनापि गदितं ततः // 15|| स एष शूकरो भद्रा-स्त एतेवरहस्तिनः। स्वप्नेन सूचिता येवो, न विधेयोऽत्र संशयः॥१६|| तैः प्रभातेऽथतच्छिष्या, बाधितास्तूपपत्तिभिः। यथैवं चेष्टितेनाय-मभव्य इति बुध्यताम्॥१७॥ त्याज्यो वोऽयं यतोघोर-संसारतरुकारणम्। ततस्तैरप्युपायेन, क्रमेणासौ विवर्जितः॥१८| ते चाकलङ्कसाधुत्वं, विधायाथ दिवं गताः। ततोऽपि प्रच्युताःसन्तः, क्षेत्रेऽमुत्रैव भारते||१६|| श्रीवसन्तपुरे जाता, जितशत्रोर्महीपतेः। पुत्राः सर्वेऽपि कालेन, ते प्राप्ता यौवनश्रियम्॥२०॥ अन्यदातान् सुरूपत्वात्, कलाकौशलयोगतः। सर्वत्र ख्यातकीर्तित्वात्,सर्वानाशुन्यमन्त्रयत्॥२१।। हस्तिनागपुरे राजा, कनकध्वजसंज्ञितः। स्वकन्याया वरार्थाय, तान् स्वयंवरमण्डपे॥२२॥ तत्राऽऽयातैः स तैर्दृष्टो, गुरुरङ्गारमर्दकः। उष्ट्रत्वेन समुत्पन्नः, पृष्ठाऽऽरूढमहाभरः॥२३॥ गलावलम्बितस्थूल-कुतुपोऽपेसलं रटन्। पामनः सर्वजीर्णाङ्गो, गतत्राणोऽतिदुःखितः॥२४॥ तमुष्ट्रमीक्षमाणानां, तेषां कारुण्यतो भृशम्। जातिस्मरणमुत्पन्न, सर्वेषां शुभभावतः॥२५|| देवजन्मोद्भवज्ञान-ज्ञातत्वात्तैरसौ स्फुटम्। करभः प्रत्यभिज्ञातो, यथाऽयं चलनो गुरुः // 26|| ततस्ते चिन्तयामासुः, धिक् संसारविचेष्टितम्। येनैष तादृशज्ञान-मवाप्यापि कुभावतः।।२७।। अवस्थामीदृशीं प्राप्तः, संसारं च भ्रमिष्यति। ततोऽसौ मोचितस्तेभ्यः,तत्स्वामिभ्यः कृपापरैः // 28 // ततस्तदैवते प्राप्य, भवनिर्वेदकारणम्। कामभोगपरित्यागात्,ते प्रव्रज्यां प्रपेदिरे।।२६।। ततः सुगतिसंतानात्, निर्वास्यन्त्यचिरादमी। अन्यः पुनरभव्यत्वाद्, भवारण्ये भ्रमिष्यतीति॥३०॥ पंचा०२ विव० गाथा 12 / अं(इं)गार(ल)रासि-पुं०(अङ्गाररासि) खदिराऽङ्गारपुजे, सूत्र०१ श्रु०५ अ० 1 उ०अ०का आव०ा आ० चू० अं(इं)गारवई-स्त्री० (अङ्गारवती) धुन्धुमारनृपसुतायाम्, (तद् वक्तव्यता संवेग-शब्दे वक्ष्यते) अं(ई)गार(ल)सहस्स-न०(अङ्गारसहस्र) 6 त०। लघुतराणामग्निकणानां सहस्रे, स्था०८ ठा। अं(इं)गालसोल्लिय-त्रि० पअङ्गारशू(लोल्यब अङ्गारैरिव पक्वे,भ० ११श०६उन अं(इं)गारा(ला)यतण-न०(अङ्गाराऽऽयतन)यत्रा-ऽङ्गारपरिकर्म क्रियते, तस्मिन् गृहे, आचा०२ श्रु०२ अ०२ उ०। अं(इं)गारि(लि)य-त्रि०(अङ्गारित)विवर्णीभूते,आचा०२ श्रु०१ अ० 8 उ०॥ अंगिरस-पुं०(अङ्गिरस)गोतमगोत्रविशेषभूताऽङ्गिरःपुरुषा-ऽपत्ये, स्था०७ठा। अंगीकड-त्रि०(अङ्गीकृत) अङ्गीति च्च्यन्तं, तत्पूर्वकात् कृत्रः क्तः। स्वीकृते / स्था०५ ठा०। 'अङ्गीकृतं सुकृतिनः परिपालयन्तीति'। चौरपञ्चाशिका / वाचा अं(इं)गुअ-पुं०(इगुद) इगि-उः, इगुः रोगः, तं द्यति खण्डयति, दो-क। शिथिलेऽगुदे वा।।१।८६। इति सूत्रेण प्राकृते आदेर्वा अत्वम् / तापसतरौ, प्रा०। अंगुट्ठ-पुं०(अङ्गुष्ठ)- अङ्गौ पाणी प्राधान्येन तिष्ठति, स्था-क, षत्वम्। हस्ताऽवयवे, स्था०१० ठा०। अंगुट्टपसिण-न०(अङ्गुष्ठप्रश्न) विद्याविशेषे, यथाऽङ्गुष्ठे देवताऽवतारः क्रियते, तत्प्रतिपादके प्रश्नव्याकरणानां नवमे- ऽध्ययने च, परमिदानींतने प्रश्नव्याकरणपुस्तके नेदमुप- लभ्यते। स्था० 10 ठा० / अंगुम-धा०(पूरि) पूर-णिच् / पूरेरग्घाडाऽग्घवोद्भुमाऽङ गुमाऽहिरेमाः।८।४।१६। इति सूत्रेण पूरेरगुम इत्यादेशः।पूर्ती अगुमेइ, पूरयति / प्रा०। अंगुल-पुं०(अङ्गुल) अङ्ग उल / हस्तपादशाखायाम, वाच०। अष्टयवमध्यात्मके परिमाणभेदे, ना "अट्ठजवमज्झाओ