________________ अइसेस 29 - अभिधानराजेन्द्रः - भाग 1 अइसेस वैकटिको नाम सुरासन्धानकारी, तौ द्वावपि श्रावकावार्य-समुद्राणां योग्यमतिशायिपौद्गलिकप्रभृतिकविष्वक्मात्रके गृह्यमाण-मार्यमगूनां पुनर्यो ग्यमेकस्मिन्नेव पतद्गृहे गृह्यमाणं पश्यतो दृष्ट्वाऽऽचार्यमगुसमीपमागच्छताम्। बैंति ततो णं सड्ढा, तुब्मे वि वीसुं न घेप्पए कीस। तो बेंति अञ्जमंगू, तुम्भे चिय इत्थ दिटुंतो॥ ततः समीपागमनानन्तरं तौ श्रावको वाते- किं नाऽऽर्य-समुद्राणामिव युष्माकमपि विष्वक् प्रायोग्यं गृह्यते? ततो ब्रुवन्त्यार्यमङ्गवः आचार्याःअत्राऽर्थे यूयमेव दृष्टान्तः। कथमित्याह - जा भंडी दुब्बुला उ, तं तुब्भे बंधह प्पयत्तेण। न वि बंधह बलियाउ, दुब्बलबलिए व कुंडी वि॥ अहो शाकटिक!या तव भण्डी गन्त्री दुर्बला, तां यूयं प्रयत्नेन बनीथ / ततः सा वहति, यदि पुनरबद्धा वाह्यते, तदा विनश्यति।या पुनर्बलिका, तां नैव बनीथ। बन्धनव्यतिरेकेणाऽपि तस्या वहनात्। वैकटिकं प्रति ब्रुवते- भो वैकटिक ! या तव कण्डी दुर्बला, तां वंशदलैर्बद्ध्वा तत्र मद्यं संधत्था यातुबलिका कुण्डी, तस्या बन्धमकृत्वाऽपितत्र संधानं कुरुथ "दुब्बलबलिए व कुंडी वि" एवं कुण्ड्यपि दुर्बला बलिका च भण्डीवत् वक्तव्या। उक्तो दृष्यन्तः। सांप्रतमुपनयमाह - एवं अज्जसमुद्दा, दुब्बलभंडी व संठवयणाए। धारति सरीरंतु, बलिभंडीसरिसगावयं तु // एवमुक्तेन प्रकारेण दुर्बलभण्डी दुर्बला गन्त्री चात्मीयं शरीरं संस्थापनया धारयति, नेतरथा / ततस्तेषां योग्यं विष्वक् मात्रके गृह्यते, वयं तु बलिकभण्डीसदृशास्ततोन शरीरस्य संस्थापना-मपेक्षामहे / निप्पडि कम्मो वि अहं, जोगाण तरामि संधणं काऊं। नेच्छामि य बितियंगे, वीसुं इति बेंति ते मंगू॥ निष्प्रतिकर्माऽपि योगानां संधानं कर्तुं शक्नोति, ततो नेच्छामि। द्वितीये अङ्गे गात्रके विष्वक् गृह्यमाणमिति ते मङ्वाचार्या ब्रुवतेन तरंति य तेण विणा, अज्जसमुद्दा उ तेण वीसं तु। इय अतिसेसायरिए, सेसा पंतेण लाडेति॥ आर्यसमुद्राः पुनराचार्यास्तेन विष्वक् प्रायोग्यग्रहणेन विना योगानां सन्धानं कर्तुन शक्नुवन्ति, तेन तत्प्रायोग्यं विष्वक् गृह्यते। एवं शेषाणामपि इत्यस्मात् कारणात् अतिशेषा अतिशया आचार्ये भवन्ति / शेषाः पुनः साधवः प्रान्तेन लाढयन्ति, आत्मानं यापयन्ति, गतस्तृतीयोऽतिशयः 3 / आचार्योपाध्यास्य वसतेरन्तर्बहिर्वा एकाकित्वेन वास इति चतुर्थपञ्चमावतिशयौ 4-5 / संप्रति चतुर्थपञ्चमावतिशयावाह- "अंतो उवस्सयस्स एगरायं वा दुरायं वा" इत्यादिलक्षणं(पूर्वोक्तं)विभावयिषुरिदमाह - अंतो बहिं व वीसुं, वसमाणे मासियं तु भिक्खुस्स। संजमआयविराहण, सुण्णे असुभोदतो होइ।। यदि भिक्षुरुपाश्रयस्याऽन्तरपवरके विष्वक् वसति, यदि वा बहिरुपाश्रयात् शून्यगृहादिषु, तदातस्य प्रायश्चित्तं मासिकं, न केवलमिदं प्रायश्चित्तं, किन्तु दोषाश्च / तानेवाऽऽह- अन्तर्बहिर्वा शून्यस्थाने वसतोऽशुभोदयोऽशुभकर्मोदयो भवति,तद्भावात् चाऽऽत्मविराधना संयमविराधना च / एनामेव भावयति - तब्भावुवयोगेणं, रहिए कम्मादि संजमे भेदो। मेरावलंबिया मे, वेहाणसमादिनिव्वेदा।। तस्य भावस्तभावः पुंवेद इत्यर्थः / तस्मिन्नुपयोगः, तेन तभावोपयोगेन विजने स्थाने च वर्तमानः सहायरहितो हस्तकर्मादि कुर्यात्, एवं संयमे संयमस्य भेदो विराधना / तथा कोऽप्यतिप्रबलपुंवेदोदयपीडित एवं चिन्तयेत् , यथा- मया मर्यादा सकलजनसमक्ष गुरुपादसमीपेऽवलम्बिता, संप्रति चाऽहमतिपीडित आसितुं न शक्रोमि ततो निर्वेदात् वैहानसमुत्कलम्बन-मादिशब्दादन्यता आत्मघातादिकमाचरेत् एषा आत्मविराधना / तथा विहरता या एकाकिनान स्थातव्यम्। आह-यदि संयमात् निर्गत भावः, ततस्तस्य सहाया अपि किं करिष्यन्ति ? तत आहजइ विय निग्गयभावो, तह वि य रक्खिज्जए स अण्णेहिं। वंसकडिल्ले छिन्ने, वि वेणुतो पावए न महिं॥ यद्यपिचस संयमात् निर्गतभावस्तथापि सोऽन्यैर्हस्तकर्मादि वैहानसादि वा समाचरन् रक्ष्यते। अत्रैवाऽर्थे प्रतिवस्तूपमामाह-(वंसकडिल्लेत्ति) वेणुको वंशो महींन प्राप्नोति, अन्यैरन्यैर्व शैरपान्तराले स्खलितत्वात्, एवं संयमभावात् निर्गतोऽपि शेषसाधुभिः सर्वथा पतन् रक्ष्यते। तदेतद् भिक्षोरुक्तम्। इदानीं गणाऽवच्छेदकाऽऽचार्ययोराह - वीसु वसंते दप्पा, गणिआयरिए यति एमेव। सुत्तं पुण कारणियं, भिक्खुस्स वि कारणेऽणुन्ना / / विष्वक् दर्पात् कारणमन्तरेण गणिनि गणावच्छेदके आचार्ये च, एवमेव भिक्षोरिव प्रायश्चित्तं संयमात्मविराधने च भवतः / यद्येवं तर्हि सूत्रमनवकाशमत आह- सूत्रं पुनः कारणिकं कारणमधिकृत्य प्रवृत्तं, ततो नाऽनवकाशं न केवलं गणावच्छेदकाऽऽचार्ययोः कारणे वसतेरन्तर्बहिर्वा वसनमनुज्ञातं, किंतु भिक्षोरपि कारणे बहिरन्तर्वा वसनस्याऽनुज्ञा। अथ किं तत्कारणं, यदधिकृत्य सूत्रं प्रवृत्तम् ? अत आह - विजाणं परिवाडी, पव्वे एए य देंति आयरिया। मासद्धमासियाणं, पव्वं पुण होइ मज्झं तु॥ आचार्याः पर्वणि विद्यानां परिपाटीर्ददति, विद्याः परावर्तन्ते इति भावः / अथ पर्व किमुच्यते ? तत आह- मासार्द्ध मासयोर्मध्यं पुनः पर्व भवति। तदेवाऽऽहपक्खस्स अट्ठमी खलु, मासस्स य पक्खियं मुणेयव्वं / अण्णं पि होइ पव्वं, उवरागो चंदसूराणं // अर्द्धमासस्य पक्षात्मकस्य मध्यमाऽष्टमी सा खलु पर्व। मासस्य मध्यं पाक्षिकं पक्षण निर्वृत्तं ज्ञातव्यं, तच कृष्ण- चतुर्दशीरूपमवसातव्यम। तत्र प्रायो विद्यासाधनोपचारभावात् बहुलादिका मासा इति वचनाच, न केवलमेतदेव पर्व, किंत्वन्यदपि पर्व भवति / यत्रोपरागो ग्रहणं चन्द्रसूर्ययोरेतेषु पर्वसु विद्यासाधनप्रवृत्तिः। यद्येवं, तत एकरात्रग्रहणं / तत आहचउहसीगहो होइ, कोई अहवा वि सोलसिग्गहणं। वत्तं तु अणुजंतो, होइ दुरायं तिरायं वा / / कोऽपि विद्याया गृहश्वतुर्दश्यां भवति, अथवा षोडश्या शुक्लपक्षप्रतिपदि विद्याया ग्रहणम् / किमुक्तं भवति ? कोऽपि विद्याग्रहश्चतुर्दश्यां कृतः, कोऽपि प्रतिपदि क्रियते, इत्येवं त्रिरात्र