________________ अइसेस 28- अभिधानराजेन्द्रः - भाग 1 अइसेस अन्ने वि अत्थि भणिया, अतिसेसा पंच होंति आयरिए। जो अन्नस्सन कीरइ, न यातिचारो असति सेसे॥ अतिशेषाः पञ्च भवन्त्याचार्ये, इत्यनेन वचनेनाऽन्येऽप्यति-शयाः पञ्चार्थतो भणिताः सन्ति यः पञ्चानामन्यतरोऽप्यन्य-स्यानाचार्यस्य न क्रियतेनचशेषेऽनाचार्ये पञ्चानामेक तरस्मिन्नप्यक्रियमाणेऽतीचारः / तानेव पञ्चातिशयानाऽऽह - भत्ते पाणे धुव्वण, पसंसणा हत्थपायसोए य। आयरिए अतिसेसा, अणतिसेसा अणायरिए। उत्कृष्ट भक्तमुत्कृष्ट पानं मलिनोपधिधावनं प्रशंसनं हस्तपाद शौचंच।। एते पञ्चाऽतिशेषा अतिशया आचार्य, अनाचार्ये त्वनतिशयाः। अनाचार्ये एतेन कर्तव्या इति भावः। संप्रति रक्तादिव्याख्यानार्थमाह - कालसहावाणुमयं, भत्तं पाणं च अचितं खेत्ते। मलिणमलिणा य जाया, चोलादी तस्स धोवंति॥ यत् कालानुमतं स्वभावानुकूलं चेत्यर्थः भक्तमाचार्यस्य आदेय-मिति प्रथमोऽतिशयः 1, तथा यत् यत्र क्षेत्रे अर्चितं पानीयं, तत् संपाद्यमाचार्यस्येति द्वितीयोऽतिशयः 2, तथा चोलादीनि मलिनमलिनानि जातानि, तस्याऽऽचार्यस्य प्रक्षाल्यन्ते, किं कारणमिति चेद् ? अत आहपरवादीण अगम्मे, नेव अवण्णं करिति सुइमेहा। जह अकहितो वि नजइ, एस गणीऽणुज्जपरिहीणो / / यथापरवादिनामगम्यो भवति, यथा च शुचिशैक्षाश्चोक्षशिष्याः अवज्ञानं न कुर्वते, यथा चाऽकथितोऽपि ज्ञायते, एष गणी आचार्यः / तथाऽनुद्यमसौन्दर्य,तत्परिहीनः / मलिनमलिनवस्त्रप्रक्षालनं कर्तव्यं, नचएवं विभूषादोषप्रसक्तिर्यत आह - जह उवगरणं सुज्झइ, परिहरमाणो अमुच्छतो साहू। तह खलु विसुद्धभावो, विसुद्धवासाण परिभोगो॥ यथा साधुरुपकरणं धर्मोपकरणममूञ्छितः सन्परिहरन्परि-भोगयन् शुद्धयते, न परिग्रहदोषेण लिप्यते, अमूञ्छितत्वात् / तथाऽऽचार्योऽपि विशुद्धवाससां परिभोगेन विशुद्धभावः सन् शुद्ध्यतीति गतस्तृतीयोऽतिशयः३। संप्रति प्रशंसनमाह - गंभीरो मद्दवितो, अब्भुवगयवच्छलो सिवो सोमो। वित्थिण्णकुलुप्पन्नो, दाया य कयण्णुतो सुयवं॥ खंतादिगुणोवेओ, पहाणणाणतवसंजमावसतो। एमाइसत्तगुरुगुण, विकत्थणं संसणातिसये। गम्भीरोऽपरिश्रावी मार्दवितो मार्दवोपेतः, तथा अभ्युप- गतस्य शिष्यस्य प्रातीच्छिकस्य वत्सलो, यथोचित- वात्सल्यकारी। तथा शिवोऽनुपद्रवः, तथा सोमः शान्ताऽऽकृतिः, तथा विस्तीर्णकुलोत्पन्नो, दाता, कृतज्ञः, श्रुतवान् / तथा क्षान्त्यादिगुणोपेतः प्रधानज्ञानतपः ਸੰਸਾਰ ਵਾਰਸਾਵੀਰਾਂ ਰਾਂਝਾ ਜਰਿਵਾਜੇ ਗਏ चतुर्थः 4 / प्रशंसनातिशयः अथवा प्रशंसनस्य फलनात्। सगुणुकित्तणाए, अवण्णवादीण चेव पडिघातो। अवि होज्ज संसईणं, पुच्छाभिगमे दुविहलाभो / / सद्गुणोत्कीर्तनायां महती निर्जरा भवति, तथा सद्गुणकीर्तनया | अवर्णवादिनां प्रतिघातः कृतो भवति / अपि भवेदयं महान् गुणो, गुणवन्तमाचार्य श्रुत्वा बहूनां राजेश्वरतलवरप्रभृतीनां पृच्छर्थमभिगमो भवति / पृच्छानिमित्तमाचार्यसमीपमागच्छन्तः, आगताश्च धर्म श्रुत्वा अगारधर्ममनगारधर्म वा प्रतिपद्यन्ते, इति द्विविधलाभ / पञ्चमाऽतिशयप्रतिपादनार्थमाह - करचरणनयणदसणाईधावणंपंचमो उ अतिसेसो। आयरियस्स उसययं, कायव्वो होति नियमेण / / करचरणनयनदशनादिप्रक्षालनपञ्चमोऽतिशयः 5 / सततमा-चार्यस्य नियमेन भवति कर्तव्यः / अत्र पर आहमुहनयणदंतपाया-दिधोवणे को गुणो त्ति ते बुद्धी। अम्गिमतिवाणिपडुया, होइ अणोतप्पया चेव॥ मुखनयनपदादिधावने को गुणः? इति एषा ते बुद्धिः स्यात्, अत्रोच्यतेमुखदन्तादिप्रक्षालनेऽग्निपटुताजाठराऽग्नि- प्राबल्यं मतिपटुता वाक्पटुता च नयनपादादिप्रक्षालने “अणोत्तप्पया" अलज्जनीयशरीरता भवति / एष गुणो मुखा-ऽऽदिप्रक्षालने एते चातिशयाः पञ्च / उपलक्षणमन्यदपि यथायोगमाचार्यस्य कर्त्तव्यम्। तथा चाऽऽह - असढस्स जेण जोगा-ण संधाणं जह उ होइथेरस्स। तं तं करेंति तस्स उ, जह सेजोगा न हायति / / यथा स्थविरस्याऽशठस्य सतो येन येन क्रियमाणेन योगानां सन्धान भवति, तत्तत्तस्याऽऽचार्यस्य साधवः कुर्वन्ति / यथा (से) तस्याऽऽचार्यस्य योगा न हीयन्ते, न हानिमुपगच्छन्ति। एए पुण अतिसेसे, उवजीवे न यावि को वि दढदेहो। निदरिसणं एत्थ भवे, अन्जसमुदाय मंगू अ / / एतान् पुनरतिशयान कोऽप्याचार्यो दृढदेहः सन् नोपजीवति, यस्त्वदृढदेहः, सोऽशठो भूत्वा उपजीवति, न तु तैरतिशयैर्गर्वं करोति, हर्ष वा मनसि मन्यते / अत्र निदर्शनं भवत्यार्यसमुद्रो मङ्वाचार्यश्च / एतदेव निदर्शनद्वयं भावयतिअजसमुद्दा दुब्बल, कितिकम्मा तिण्णि तस्स कीरंति! सुत्तत्थपोरिसिसमु-ट्ठियाण तइयं तु चरमाए।। आर्य समुद्राः सूरयो दुर्बला दुर्बलशरीरास्ततस्तेऽतिशयाऽनुपजीवितवन्तोऽनुपजीवने योगसंधानकरणाशक्तेः,तथा च तस्य प्रतिदिवसं त्रीणि कृतकर्माणि विश्रामणारूपाणि क्रियन्ते। तद्यथा- 2 सूत्रार्थपौरुषीसमुपस्थितानां तृतीयं कृतकर्म चरमायां पौरुष्यामियमत्र भावना- सूत्रपौरुषीसमाप्त्यनन्तरं यावन्निषद्या क्रियते, तावत्प्रथम विश्रामणा 1, द्वितीया-ऽर्थपौरुषीसमाप्त्यनन्तरं 2, तृतीया चरमपौरुषी पर्यन्ते, काल-प्रतिक्रमणाऽनन्तरम् 3 / सड्ढकुलेसु य तेसिं, दो वंगादी उ वीसु घेप्पंति। मंगुस्स न किइकम्म, न य वीसुंघेप्पए किं वि।। श्राद्धकुलेषु भक्तेषु तेषामार्यसमुद्राणामाचार्याणां योग्यानि कूरादीनि द्वितीयाङ्गादौ मात्रकादौ विष्वक् गृह्यन्ते, आर्यमङ्गोः पुनराचार्यस्य न कृतिकर्म क्रियत, नाऽपि तद्योग्य पाँद्गलिकादिकिञ्चित् विष्वक् मात्रके गृह्यते, किन्तु यदापि श्राद्धकुलेष्वपि भक्तेषूत्कृष्ट लभ्यते, तदपि गृहीत्या ज्ञातोत्थपतद्गृहे क्षिप्यते। विष्वगानीतमपि न भुक्ते, तौ च द्वावण्याचार्य विहरन्तावन्यदा सौपारके गतौ, तत्र च द्वौ श्रावकावेकः शाकटिकोऽपरो वैकटिकः।