________________ अइसेस 27 - अभिधानराजेन्द्रः - भाग 1 अइसेस कप्पम्मि दोण्णि पगया, पलबसुत्तं च मासकप्पे य। दो चेव य ववहारे, पढमे दसमे य जे भणिया॥ कल्पे कल्पाध्ययने द्वे प्रकृते, तद्यथा- प्रलम्बसूत्रं मासकल्प-सूत्रं च। व्यवहारे द्वे प्रकृते, ये भणिते प्रथमे आरोपणासूत्र दशमे पञ्चविधव्यवहारसूत्रम्। न केवलमेतदेव प्रकृतं, किंत्वन्यदपि। तथा चाऽऽहपीढियातो य सव्वातो चूलियातो तहेव य। निप्पत्ती कप्पनामस्स, ववहारस्स तहेव य॥ सर्वाः प्रकल्पकल्पादिगताः पीठिकास्तथा सर्वाश्चूलिकाः,तथा कल्पनाम्नो व्यवहारस्य च तथा चैवेति वचनादन्येषां च दशवैकालिकप्रभृतीनां च निर्युक्तयः प्रकृताः। अत्रैवाऽऽदेशान्तरमाह - अण्णो वि य आएसो, जो रायणितो य तत्थ सोयव्वे। अणुओगधम्मयाए, किइकम्मं तस्स कायव्वं // अन्योऽपि चाऽऽदेशो मतान्तरं, तत्र श्रोतव्ये यो रात्निको रत्नाऽधिकोऽनुभाषक इत्यर्थः / तस्य नन्द्यामुच्चारितायामनुयोगधर्मतया कृतिकर्म वन्दन कर्तव्यम्।तथाकेवलिमादी चोद्दस, दसनवपुत्वीय उट्ठणिज्जो उ। जे तेहि ऊणतरगा, समाणे अगुरुं न उहृति।। अर्थमपि कथयता समागच्छन् केवली अभ्युत्थातव्यः। आदिशब्दात् मनःपर्यवज्ञानी अवधिज्ञानीच परिगृह्यते तथा येतेभ्यो नवपूर्वधरादिभ्य ऊनतरास्तैर्नवपूर्वधरादिरभ्युत्थानीयः / तथाहि- कथको यदि कालिकश्रुतधारी, तर्हि तेनार्थमपि कथयता नवपूर्वी दशपूर्वी चतुर्दशपूर्वी वाऽभ्युत्थातव्यो नवपूर्विणा दशपूर्वी दशपूर्विणा चतुर्दशपूर्वीति / तथा यदि समागच्छन् समानः समानश्रुतोऽगुरुश्च, तदा नेतरेऽभ्युत्तिष्ठन्ति। तदेवं प्रवचने निर्जरा चेति द्वारद्वयं गतम् / इदानीं सापेक्षद्वारमाह - सावेक्खे निरवेक्खे, गच्छे दिटुंतगामसगडेण। राउलकजनिउत्तं,जह गामेणं कयं सगडं / / अस्सामिबुद्धियाए, पडियं सडियं वन विय रक्खंति। रण्णाणत्ते दंडो, सयं न दीसंति कजेसु // आचार्यस्य शिष्यैः प्रातीच्छिकैश्च सर्वं कर्त्तव्यं, तेच तथा कुर्वन्तःसापेक्षा उच्यन्ते, ये तु न कुर्वन्ति, ते निरपेक्षाः। तत्र सापेक्षे निरपेक्षे च गच्छे दृष्टान्तो ग्रामशकटेन, तद्यथा- एकस्मिन् ग्रामे ग्रामेयकैः पुरुषः राजकुलकार्य नियुक्तं शकटमेकं कृतं, ततो यत् तेन राजकुलेनाऽऽज्ञाप्यते- धान्यं घृतघटादि वा नेतव्यमानेतव्यं वाऽस्मिन् शकटे आरोप्य आनयन्ति नयन्ति वा / तथा नाऽस्य कश्चित् स्वामीत्यस्यामिबुद्ध्याऽऽत्मनोऽपि कार्याणि तेन कुर्वन्ति, अस्वामिबुद्ध्यैव पतितं शटितं वा, तस्य शकटस्य नाऽपि रक्षन्ति, ततः कालेन गच्छता भग्रम् / अन्यदा राजकुलेन ते आज्ञप्ता धान्यमानय, तैः शकटाऽभावात् नाऽऽनीतं, तत आज्ञाभङ्गोऽकारीति तेषां दण्डः कृतः। कार्येषु वा समापतितेषु स्वयं तेन दृष्यन्ते। एष दृष्टान्तः। अयमर्थोपनयः - एवं न करेंति सीसा, काहिंति पडिच्छयत्ति काऊण। ते वि य सीसत्ति ततो, हिंडणपेहादिसुं भिगो॥ एवं ग्रामेयकदृष्टान्तप्रकारेण शिष्याः प्रातीच्छिकाः करिष्यन्तीतिमत्वा न कुर्वन्तीति, तेऽपि च प्रातीच्छिकाः शिष्याः करिष्यन्तीति बुद्ध्या न कुर्वते / ततः सीदन्नाचार्यः स्वयं भिक्षामटति, स्वयं चोपकरणप्रेक्षादिकं विधत्ते, इति हिण्डने प्रेक्षादौ च निरपेक्षाः शिष्याः प्रातीच्छिकाश्च शकटनियुक्तभृत्या इव दण्डनीयाः भवन्ति, विनाशं चोपयान्ति / अथ सापेक्षे दृष्टान्तमाह - सारावियं जेहिं सगडं रण्णा ते उक्करा य कया। इय जे करेंति गुरुणो, निजरलाभो य कित्ती य / / अपरस्मिन् ग्रामे द्वितीयके ग्रामे ग्रामेयकैः राजकुलकार्यनियुक्तं शकट कृतं, तेन राजकीय धान्यघृतघटाद्यानयन्ति नयन्ति च, तच शकटं तैः सम्यक् सारापितं, ततो न कदाचिदाज्ञाभङ्गः कृतइति परितुष्टेन राज्ञा ते उत्कराः करविहीनाः कृताः / एष दृष्टान्तो-ऽयमर्थोपनय इति / एवमुक्तेन प्रकारेण शिष्याः प्रातीच्छिका-श्वात्मानुग्रहबुद्ध्या ये गुरोः कृत्यं कुर्वन्ति, तेषां महान् भूयान् ज्ञानादिलाभः कीर्तिश्च गतं सापेक्षद्वारम्। संप्रति भक्तिव्यवच्छेदद्वारमाहदव्वे भावे भत्ती, दव्वे गणिगा उ दूति जाराणं / भावम्मि सीसवग्गो, करेति भत्तिं सुयधरस्स। आचार्यस्य भक्तो क्रियमाणायां तीर्थस्याऽव्यवच्छे दो, भक्तावक्रियमाणायां तु तीर्थव्यवच्छेदः / सा च भक्तिर्द्विधाद्रव्ये भावे च। तत्र यन्नाम गणिका भुजङ्गानां भक्ति कुर्वन्ति, दुतयो वा जाराणाम्। सा द्रव्ये द्रव्यभक्तिर्भाव भावविषया भक्तिः पुनरियम्- यत् शिष्यवर्गः श्रुतधरस्य भक्तिं करोति। यद्यपि चाऽन्योऽपि गुरोर्भक्तिं करोति, तथाऽपि ममाऽपि निर्जरा स्याद, इत्यात्मानुग्रह-बुद्ध्याऽन्येनाऽपि भक्तिः कर्तव्येति लोहार्यगौतमदृष्टान्तेन भावयतिजइवि य लोहसमाणो, गेण्हइ खीणंतराइणो उंछं। तह वि य गोयमसामी, पारणए गेहए गुरुणो / / यद्यपि च लोहसमानो लोहार्यः क्षीणान्तरायस्य भगवतो वर्द्धमानस्वामिनः सदैवोञ्छ मेषणीयभक्तादिकं गृह्णाति / तस्य भगवढयावृत्त्यकरत्वात् उक्तं च / 'धन्नो सो लोहजो खंतिखमो पवरलोहसरिवन्नो जस्स जिणो पत्ता तो इच्छइ पाणीहिं भुत्तुं जे " तथापि गोतमः स्वामी स्वपारणके गुरोर्वर्द्धमानस्वामिनो योग्यं गृह्णाति, एवमन्येनाऽपि वैयावृत्त्यकरभावे यथायोग्यं गुरोः कर्तव्यम् / तदेवं भक्तियाख्याताऽधुना तस्यां क्रियमाणायां यथा तीर्थस्या-ऽव्यवच्छेदो भवति! तथाऽऽह - गुरुअणुकंपाए पुण, गच्छो अणुकंपितो महाभागो। गच्छाणुकंपयाए, अव्वोच्छित्ती कया तित्थे। गुरोरनुकम्पया अनुग्रहेण गच्छो महाचिन्त्यशक्तिरनुकम्पितो गृहीतो भवति, गच्छानुकम्पया चाव्यवच्छित्तिस्तीर्थस्य कृता। कह तेण नु होइ कयं, वेयावचं दसविहं जेण। तस्स पउत्ता अणुकंपितो उ थेरो थिरसहावो / कथं तेन दशविधं वैयावृत्त्यं कृतं, येन स्थविर आचार्यः स्थविरस्वभावोऽनुत्सुकस्तस्य दशविधस्य वैयावत्त्यस्य प्रयोक्ताऽनुकम्पितोऽनुगृहीतस्तत्करणे कृतं तेन दशविधमपि वैयावृत्त्य तत्प्ररूपणायास्तदधीनत्वादिति भावः। तदेवमव्यवच्छेदोऽपि भावितः / 'अधुना अतिसेसा पंच आयरिए' इति व्याख्यानयति -