________________ अइसेस 26 - अभिधानराजेन्द्रः - भाग 1 अइसेस किं त्वव्याक्षिप्त इति प्रतीतमेतत्। तथाऽप्युत्थाने क्रियमाणे व्याकुलना ततः सम्यक् श्रुतोपयोगो न भवति तदभावाच्च ज्ञानावरणीयस्य कर्मणो न निर्जरा / एतैः कारणैरभ्युत्थानं प्रतिकुष्टम। सांप्रतमेतदेव गाथाद्वयं विवरीषुः प्रथमतः "काउस्सग्गे विक्खेवयाय' इति भावयतिउचारियाए नंदीए, विक्खेवे गुरुतो भवे। अपसत्थे पसत्थे य, दिट्ठतो हत्थिलावका।। अनुयोगारम्भार्थ कायोत्सर्गे कृते नन्द्यां ज्ञानपञ्चकरूपायामुच्चारितायामभ्युत्थानेनान्येन वा प्रकारेण यो व्याक्षेपं करोति, तस्य प्रायश्चित्तं गुरुको मासस्तस्माद् व्याक्षेपो न कर्त्तव्यः / अत्राऽप्रशस्ते व्याक्षेपकरणे प्रशस्ते च व्याक्षेपकरणे दृष्टान्ताः हस्तिलावकाः, हस्तीच शालीनां लावकाश्च / तत्राऽप्रशस्ते प्रतिपादयति - जह सालिं लुणावेतो, कोइ अत्थारिएहि उ। सेयं हत्थिं तु दावेइ, धाविया ते य मग्गओ॥ न लूना अह सालीओ, वक्खेवेणेव तेण उ। वक्खेवावरयाणं तु, पोरिसीए व भज्जइ।। यथा कोऽपि कुटुम्बी निजे क्षेत्रे "अथारिएहि तु'' ये मूल्यप्रदानेन शालिलवनाय कर्मकराः क्षेत्रे क्षिप्यन्ते, ते आस्तारिकाः / तैलवियन् कथमपि सप्ताङ्गकप्रतिष्ठितं श्वेतमारण्यहस्तिनमागतं दृष्ट्वा दर्शयति, तद्दर्शिते च ते हस्तिनो मार्गतः पृष्ठतो धाविताः। आगतैरपि हस्तिनो रूपेण क्षिप्तैर्हस्तिरूपं वर्ण-यद्भिः, तेन व्याक्षेपेण ते शालयो न लूना एवमिहाऽपि अभ्युत्थानेन व्याक्षेपरताना पौरुषी भङ्गो भवति / व्याख्यानं पुनर्न किमपि याति, तस्माद्व्याक्षेपो न विधेयः। प्रशस्ते व्याक्षेपाऽकरणे दृष्टान्तः स्वयं भावनीयः / स चैवं एकः कौटम्बिकः शालिक्षेत्र लावयति तस्य सत्कया दास्या शालिं लूनन्त्या सप्ताङ्गप्रतिष्ठितः श्वेतो वनहस्ती चरन् दृष्टो, दास्या ज्ञातं- यदि शालिलावकानां कथयिष्यामि, ततो हस्तिनं दृष्ट्वा हस्तिनो रूपेणाक्षिप्ता हस्तिनो रूपं वर्णयन्त आसिष्यन्ते। एष च हस्ती दिनेऽस्मिन्नवकाशे दृश्यते, ततः शालिन भविष्यते, यदातु शालिः परिपूर्णो लूनोऽभवत्, तदा सा दासी स्वामिनः शालिलावकानां चाऽचकथत् / ततस्तैरुक्तं- किं तदा न ख्यातं ? तदा दासी प्राहशालिलवितव्यव्याघातो भविष्यतीति हेतोः। तत एषमुक्ते कौटुम्बिकः परितुष्टस्तेन च परितुष्टेन मस्तकप्रक्षालनतोऽदासी कृता / एवमिहाऽपि व्याक्षेपो न करणीयस्तथा च सति भग-वदाज्ञापरिपालनतः कर्मक्षयेण शिलामस्तकरथो भवति। संप्रति विकथादिपदव्याख्यानार्थमाह - विकहा चउव्विहा वुत्ता, इंदिएहिं विसोतिया। अंजलीपग्गहो चेव, दिट्ठी बुद्धवजुत्तया॥ विकथा स्त्रीकथादिभेदाच्चतुर्विधोक्ता विश्रोतसिका इन्द्रियैरुपलक्षणमेतत् मनसा वाचा प्रयता अञ्जलीप्रग्रहो गुरोर्मुखे दृष्टिर्बुद्ध्युपयुक्तता च। उपनयव्याकुलनेति व्याख्यानयति - नस्सते वाउलाना सो, अन्नहा वोवणिज्जइ। नायं वा करणे वा वि० पुच्छा अद्धा व भस्सइ॥ अभ्युत्थानेनाऽन्येन धा व्याकुलनायां स दर्शितः उपनयो नश्यति, विस्मृतियाति, यदि वा व्याकुलनया अन्यथोपनीयते, ज्ञातंया व्याकरणं वा पृच्छा या कर्तुमारब्धा अद्धा वा पौरुषीलक्षणा भ्रश्यति / आक्षेपव्याख्यानार्थमाह - भासतो भावतो वावि, तिव्वं से जायमाणसो। लभंतो ओहिलंभादी, जहा मुडिंवगो मुणी।। निरन्तरमतिच्छेदेन भाषकः श्रावको वा उत्तरविशिष्टावगाहनतस्तीवसंजातमानसो जातपरमोत्क्षेपो यद्यभ्युत्थाने व्याक्षेपो नाभविष्यत् ततोऽवधिलाभादिकमलप्स्यतयथा मुडिम्बको मुनिस्तथा मुडिम्बक आचार्यः परमकाष्ठीभूते शुभध्याने प्रवृत्तोऽवध्यादिलब्धिमलप्स्यत यदि तस्य पुष्पमित्रेण ध्यानविघ्नो नाऽकरिष्यत, परं सर्वसाधुसाध्वीप्रभृत्याकुलमभवदिति तेन ध्यानव्याघातः कृतः। अधुना "आरोवणा परूवणेति" व्याख्यानार्थमाह - आरोवणमक्खेवं, दाउं कामो तहिं तु आयरितो। वाउलणाए फिट्टइ, उत्थेत्तुमणे न ओगेण्हे॥ आरोपणां प्रायश्चित्तं तत्रार्थमण्डल्यामाचार्यो दातुकामः प्ररूपयतुकाम इति तात्पर्यार्थः / यद्यभ्युत्थानं करोति, ततो व्याकुलनया स्फिटति, व्याकुलनेन प्रायश्चित्तप्ररूपणा न तिष्ठतीति भावः / तथा अवग्रहीतुमना अभ्युत्थानेन व्याकुलनातो नाऽवगृह्णाति। एकग्गो ओगिण्हइ, विक्खिप्पंतस्स विस्सुतिं जाइ। इंदपुरे इंददत्तो, अजुणतेणो य दिटुंतो।। एकाऽग्रः सन् अवगृह्णाति, अभ्युत्थानेन पुनव्याक्षिप्यमाणस्याऽवगृहीतमपि विस्मतिं याति, कुतोऽनवगृहीतार्थावग्रहण-व्याक्षेपाश्च विस्मृतिगमने इन्द्रपुरपत्तने इन्द्रदत्तस्य राज्ञः सुताः दृष्टान्तस्तथा च तेषां कला अभ्यस्यतां प्रमादविकथादि- व्याक्षेपात् न किमप्यवगृहीतमभूत्, यदपि किंचिदवगृहीत, तदपि विस्मृतिमुपगतमत एव, तै राधावेधो न कर्तुं शकितः / तथा अर्जुनस्तेनश्च दृष्टान्तस्तथाहिसोऽर्जुनकस्तेनोऽगडदत्तेन सह युध्यमानो न कथमप्यगडदत्तेन पराजेतु शक्यते, ततो निजभार्याऽतीव रूपवती सर्वालंकारविभूषिता रथस्य तुण्डे निवेशिता ततः स्त्रीरूपदर्शनव्याक्षेपात्युद्धकरणं विस्मृति-मुपगतमिति सोऽगडदत्तेन विनाशितः। एवमिहाऽपि व्याक्षेपात् श्रुतोपयोगः प्राणविनाशमाप्नोति / एए चेव य दोसा, अब्भुट्ठाणे वि होंति नायव्वा। नवरं अब्भुट्ठाणं, इमेहिं तिहिं कारणेहिं तु / / यस्मात् श्रवणे कर्तव्ये व्याक्षेपादिषु क्रियमाणेष्वेते- ऽनन्तरोक्ता दोषास्तस्माद्व्याक्षेपादिरहितैः श्रोतव्यम्। एते एव च व्याक्षेपादयो दोषा अभ्युत्थानेऽपि क्रियमाणे भवन्ति, तस्मादभ्युत्थानमपि न कर्त्तव्यं, नवरमभ्युत्थानमेभिर्वक्ष्य-माणैस्त्रिभिः कारणैः कर्त्तव्यं, तान्येवाह - पगयसमत्ते काले, अज्झयणूद्देस अंगसुयग्वंधे। एएहिं कारणेहिं, अब्भुट्ठाणं तु अणुयोगो।। प्रकृते समाप्ते तथा काले समाते अध्ययनोद्देशाङ्ग श्रुतस्कन्धेषु वा समाप्तेषु यदि प्राघूर्णकाद्यागमनं भवति तदैतैः कारणैरभ्युत्थान-मनुयोगो भवति, तर कालोऽध्ययनादिकं च प्रतीतं न प्रकृतमिति / कल्पे व्यवहारे च प्रकृतप्रतिपादनार्थमाह -