________________ अइसेस 25 - अभिधानराजेन्द्रः - भाग 1 अइसेस आराहितो नरवती, तिहि उ पुरिसेहिं तेसिं संदिसति। अमुयपुरे सयसहस्स, घरं व एएसिं दायव्वं / / पट्टगे घेत्तूण गतो, उंडियं बितियो उ तइओ उभयं / निप्फलगा दोण्णि तहिं, मुद्दापट्टे उ सफलो उ॥ एको नरपतिस्त्रिभिः पुरुषैराराधितस्ततः परितुष्टः स नरपतिः तेषां प्रत्येकं संदिशति / यथा अमुकपुरे सुन्दरं गृहं शतं सहस्रं च दीनाराणामित्येषां प्रत्येकं दातव्यमिति तत्रैकोऽमुं संदेशं पट्टके गृहीत्वा लेखयित्वा गतो, द्वितीयः(उण्डिका)मुद्रांगृहीत्वा गतस्तृतीय उभयंपट्टके लेखयित्वा गतः। तत्र येन पट्टकं तद्व्यतिरेकेण मुद्राप्रतिबिम्बमात्रं गृहीतं, तौ द्वावपि निष्फलौ जातौ / तथाहि- ते त्रयोऽपि तन्नगरं गतास्तत्र य आयुक्तः, तस्य समीपमुपागताः / पट्टकं मुद्रामुभयं च दर्शयन्ति, तत्राऽऽयुक्तेन प्रथमो भणितो- मुद्रां न पश्यामि, कथं ददामि ? द्वितीयो भणितो- जानामि राज्ञो मुद्रां, न पुनर्जानामि राज्ञः संदेशं, किं दातव्यमिति। एवं तौ निष्फलौ जातौ, यस्य तृतीयस्य मुद्रा पट्टकश्च, स सफलः, तस्याऽऽयुक्तेन यथाऽऽज्ञप्तदानात् / एष दृष्टान्तः / सांप्रतमुपनयमाहएवं पट्टगसरिसं, सुत्तं अत्थो य उंडियट्ठाणे। उस्सग्गववायत्थो, उभयसरिच्छे य तेण बली।। एवममुना प्रकारेण पट्टकसदृशं पट्टकस्थानीयं सूत्रम्, उण्डिका मुद्रा, तत्स्थानीयोऽर्थः / उत्सर्गाऽपवादस्थ उभयसदृक्षस्तेन बली, तस्यो भयस्य भावात् / संप्रति 'अब्भुट्टाणे गुरुगा' इत्यस्य व्याख्यानार्थमाह - सुत्तस्स मंडलीए नियमा उट्ठति आयरियमादी। मुत्तूण पवायंतं, न उ अत्थे दिक्खण गुरुं पि॥ सूत्रमण्डल्या वाचयन्त आचार्यादय आचार्यों पाध्यायप्रभृतयः प्राघूर्णकादीनामागच्छता सर्वेषामपि नियमादुत्तिष्ठन्ति अभ्युत्थानं कुर्वन्ति, अर्थमण्डल्यां पुनरुपविष्टः सन्यस्य समीपेऽनुयोगः श्रुतस्तमेकं प्रवाचयन्तं मुक्त्वा अन्यं दीक्षणगुरुमपि नाऽभ्युत्तिष्ठति / यद्यभ्युत्तिष्ठति, तदा तस्य प्रायश्चित्तं चत्वारो गुरुकाः / श्रोतारोऽपि यद्याचार्ये अनभ्युत्तिष्ठत्यभ्युत्तिष्ठन्ति, तदा तेषामपि प्रायश्चित्तं चतुर्गुरुकं / यदि पुनर्यस्य समीपेऽनुयोगं श्रुतवान्, तस्य नाऽभ्युत्तिष्ठिति, तर्हि तदाऽपि तस्य चतुर्गुरुकम् / अत्र दृष्टान्तो राज्ञो देवी। तं भावयतिपतिलीलं करेमाणी, नोट्ठिया सातवाहणं। पुढवी नाम सा देवी, सोय रुट्ठो तहिं निवो // राज्ञः शा(लि)तवाहनस्य पृथिवी नाम अग्रमहिषी, अन्यदा सा क्वापि निर्गते राज्ञि शेषाभिरन्तःपुरिकाभिर्देवीभिः संपरिवृता शातवाहनवेषमाधाय राज्ञ आस्थानिकायामुपपतिलीला विडम्बमानाऽवतिष्ठते / राजा प्रत्यागतः प्रविष्टस्तस्मिन् प्रदेशे सा च पतिलीला कुर्वन्ती पुथिवी नाम देवी शातवाहनं राजानमायान्तमपि दृष्ट्वा नोत्थिता, तस्या अनुत्थाने शेषा अपि देव्यो नाऽभ्युत्थितवत्यस्ततः स नृपो राजा तत्र रुष्टो, ब्रूते- त्वं तावत् महादेवी, ततो महादेवीत्वेन नाऽभ्युत्थिता, एताः किं त्वया वारिता ? यन्नाऽभ्युत्थानमकापुंस्ततो न सुन्दरमेतदिति। ततो णं आह सा देवी, अत्थाणीए तव णाहा। दासा वि सामियं एतं, नोह्रति अवि पत्थिवं / / ततो राजोक्त्यनन्तरं सा पृथिवी नाम देवी राजानमाह- तवाsऽस्थानिकायामुपविष्टा दासा अपि नाथाः संपूर्णगुणाः पार्थिवमपि स्वामिनमागच्छन्तंनाऽभ्युत्तिष्ठन्ति। तवाऽऽस्थानिकायाः प्रभाव एवैषः। तथाहितुं वावि गुरुणो मोत्तुं, न वि उट्टेसि कस्सइ। न ते लीला कया होंती, उट्टती हं स तोसितो।। त्वमप्यस्यामास्थानिकायामुपविष्टो गुरून् मुक्त्वा नाऽन्यस्य कस्याऽपि महीयसोऽप्युत्तिष्ठसि, अहमपि तवाऽऽस्थानिकायां त्वदीयां लीलां धरन्ती समुपविष्टा, ततो न सपरिवाराऽभ्युत्थिता यदि पुनस्ते तव लीलान कृतास्यात्, ततोऽहमभ्युत्तष्ठेयमित्येवं राजा देव्या तोषितः / एवमत्राऽपि तीर्थकरस्थानीय आचार्यो-ऽर्थमण्डल्यामुपविष्टः सन् न कस्याऽप्यभ्युत्तिष्ठति। अमुमेवाऽर्थ गौतमदृष्टान्तेन दृढयतिकहं ते गोयमो अत्थं, मोत्तुं तित्थगरं सयं / नवि उट्टेइ अन्नस्स, तग्गयं चेव गम्मति / / न खलु भगवान् गौतमोऽर्थ कथयन् स्वकमात्मीयं तीर्थकरं मुक्त्वा अन्यस्य कस्याऽपि उत्तिष्ठति, अभ्युत्थानं कृतवान् / तद्गतं चेदानीं सर्वैरपि गम्यते, तदनुष्ठितं सर्वमिदानीमनुष्ठीयते / ततोऽर्थ कथयन् न कस्याऽप्युत्तिष्ठेत्। संप्रति श्रवणविधिमाह - सोयव्वे उ विही पुण, अव्वक्खेवादि होइ नायवो / विक्खेवम्मि य दोसा, आणादीया मुणेयव्वा।। श्रोतव्ये पुनरयं विधिरव्याक्षेपादिर्भवति ज्ञातव्यः, आदिशब्दाद् विकथादिपरिग्रहस्तव्याक्षेपे पुनराज्ञादयः / आज्ञानवस्थामिथ्यात्वविराधनारूपदोषा ज्ञातव्याः। अत एवाऽभ्युत्थानमपिन क्रियते तस्मिन् सति व्याक्षेपादिसंभवात्। तथा चैतदर्थमेव द्वारगाथाद्वयेनाऽऽह - काउस्सग्गे विक्खे - वया य विकहा विसोतिया पयते। उवणय वाउलणा वि य, अक्खेवो चेव आहरणं // आरोवणा परूवण, उग्गह निज्जरा य वाउलणा। एएहि कारणेहिं, अब्भुट्ठाणं तु पडिकुटुं / / अनुयोगारम्भनिमित्तं कायोत्सर्गे कृते एतैः कारणैरभ्युत्थानं प्रतिकुष्टं निराकृतम् / कैः कारणैरत आह- "विक्खेवया य इति' व्याक्षेपस्य व्याक्षेपशब्दस्य भावः प्रवृत्तिनिमित्तं व्याक्षेपः / इत्यर्थः / अभ्युत्थाने क्रियमाणे व्याक्षेपो भवति, व्याक्षेपाच्च विकथा चतुर्विधा प्रवर्तते, तत्प्रवृत्तौ चेन्द्रियैर्मनसा विश्रोतसिका संयमस्थानप्लावनमिति भावः / तस्मादभ्युत्थानमकुर्वन् प्रयतः शृणुयात् / प्रयतो नाम कृताऽञ्जलिप्रग्रहो दृष्ट्या सूरि-मुखारविन्दमेवेक्षमाणो बुद्ध्यु-पयुक्तः / तथाऽभ्युत्थाने क्रियमाणे उपनयस्य विषये व्याकुलना उपनयः कस्याऽप्यर्थ न क्रियेत / उपनयग्रहणमुपलक्षणं, तेन यद् ग्रहणं जातं, तत् व्याकुलनात् भ्रश्यति, पृच्छा वा कर्तुमारब्धा विस्मृतिमुपयाति, कालो वा व्याख्यानस्य त्रुट्यतीति / तथा निरन्तरमविच्छे देन भाषमाणेऽस्य शृण्वतो महान् व्याक्षेपस्तीव्र-शुभपरिणामरूपो जायते, अभ्युत्थाने च तद्व्याघातस्तथा च सति शुभपरिणाम भावतो योऽवध्यादिलाभः संभाव्यते, तस्य विनाशो-ऽत्राऽर्थे चाऽऽहरणं ज्ञातं वक्तव्यम्। तथा आरोपणायाः प्रायश्चित्त-प्ररूपणे क्रियमाणे अभ्युत्थाने व्याघातो भवति, व्याघाताच सम्यगव- ग्रहो ग्रहणं न भवति / न खलु व्याक्षिप्तोऽवग्रहीतुं शक्नोति,