________________ अइसेस 24 - अभिधानराजेन्द्रः - भाग 1 अइसेस पावयणी खलु जम्हा, आयरितो तेण तस्स कुणमाणो। महतीए निज्जराए, वहति साहू दसविहम्मि॥ पावयणी प्रावचनिकः खलु यस्मादाचार्यः, तेन तस्य वैयावृत्त्यं कुर्वन् साधुर्महत्यां निर्जरायां वर्तते एवं दशविधेऽपि वैयावृत्त्ये महानिर्जराकत्वं भावनीयम् / संप्रति यदुक्तं- भावे शुद्धे अशुद्धे च तदनुसारतो निर्जरा भवतीति / तत्र भावो व्यवहारतः शुद्धवस्तुप्रभावाद् भवतीति प्रतिपिपादयिषुराहजारिसगं जंवत्थु, सुयं च तिण्हं च ओहिमादीणं / तारिसतो च्चिय भावो, उप्पज्जति वत्थुतो जम्हा॥ यादृशं यद् वस्तु प्रतिमादिकं, यस्य यावच्च श्रुतं त्रयाणां चाऽवृद्ध्यादीनां स्वस्थाने ये विशेषाः,तस्माद् वस्तुनः श्रुताद् विशेषात् तादृशात् भावः परिणामो व्यवहारस्तादृश उत्पद्यते, तदनुसारेण च निर्जरा, ततः पूर्व श्रुतचिन्तायामर्थचिन्तायां तथा जिनानां च यथोत्तरं बलिका निर्जरोक्ता। तथा चैवमेव व्यवहार-नयं प्रतिपिपादयिषुराह - गुणभूइटे द्रव्व-म्मि जेण मत्ताहियत्तणं भावे। इति वत्थूतो इच्छति, ववहारो निज्टर विउलं॥ यत् यतो गुणभूयिष्ठं द्रव्यं, ततस्तस्मिन् येन कारणेन मात्रा-ऽधिकत्वं परिणाम इति अस्मात् कारणात् वस्तुनः प्रतिमा-श्रुतादेर्यथोत्तरं गुणभूयिष्ठात् विपुलां निर्जरामिच्छति व्यवहारो व्यवहारनयः / एतदेव स्पष्टतरं भावयतिलक्खणजुत्ता पडिमा, पासादीया समत्तलंकारा। पल्हायति जह व मणं,तह निज्टर मो वियाणाहि।। या प्रतिमा लक्षणयुक्ता प्रसादी मनःप्रसादकारणं समस्ता- ऽलंकारा, तां पश्यतो यथैव मनः प्रह्लादते, तथा निर्जरां विजानीहि / यद्यधिकं मनःप्रहत्तिस्ततो महती निर्जरा, मन्दमनःप्रहृत्तौ तु मन्देति भावः - सुयवं अतिसयजुत्तो, सुहोचितो तह वि तवगुणुज्जुत्तो। जो सो मणप्पसातो, जायइ सो निज्टर कुणति / / श्रुतवानेषः अत्राप्यने के भेदास्तथा अतिशययुक्तोऽवध्याधतिशयोपेतोऽत्राऽप्यवध्यादिविषये बहवस्तरतमविशेषाः सुखोचितोऽपि तपसि स बाह्याऽभ्यन्तरेगुणे ज्ञानादौ उद्युक्तः, तपोगुणोद्यत इत्येवं योऽसौ यादृशो मनःप्रसादो मनःप्रसत्ति-परिणामो जायते, स तादृशीं निर्जरां करोति / तस्माद् वस्तुनो निर्जरेति व्यवहारनयः / तदेवमुक्तं व्यवहारनयमतम्। अधुना निश्चयनयमतमाह - निच्छयतो पुण अप्पे,जस्स वत्थुम्मि जायते भावो। तत्तो सो निज्जरगो, जिणगोयम सीहआहरणं / / निश्चयतः पुनरल्पेऽपि महागुणाः, गुणाऽन्तराद् हीनगुणेऽपि वस्तुनि यस्य जायते तीव्रः शुभो भावः, तस्मात् महागुणतर-विषयभावयुक्तात् स हीनगुणविषयतीव्रशुभभावो निर्जरको महानिर्जरतरः सद्भावस्याऽतीव शुभत्वात्। अत्र जिनगौतम- सिंह उदाहरणम्। तचैवम् "तिविद्वत्तणे भयवया वद्धमाणसामिणा सीहो निहतो, अधिति करेइखुडलगेण निहतोऽहमिति परि-भवतो गोयमेणं सारहित्तणेणभणुसासितो- मा अधितिं करेह, तुमं पसुसीहो नरसीहेण मारियस्स तुब्भ को परिभवो? एवं सोअणुसासिज्जंतो मतो। ततो संसार भमिऊण भयवतो वद्धमाणसामिस्स चरमतित्थगरभावे रायगिहे नयरे कविलस्स बंभणस्स य बडगो जातो, सो अण्णया समोसरणे आगतो भयवंतं दद्रूण धमधम्मेइ / ततो भयवया गोयमसामी पेसितो, जहाउवसामेह / ततो गतो अणुसासितो य, जहा- एस महप्पा तित्थंकरो एयम्मि जो पडिनिवसति, सो दुग्गइं जाति / एवं सो उवसामितो तस्स दिक्खा गोयमसामीणा दिन्ना / एतदेवाऽऽह - सीहो तिविट्ठनिहतो, भमिउं रायगिहे कविलबडुग त्ति। जिणवरकहणमणुवसम, गोयमोवसमे दिक्खा य॥ सिंहस्त्रिपृष्टन निहतः संसारं भ्रमित्वा राजगृहे कपिलस्य ब्राह्मण-स्य बटुकोऽभूत, जिनस्य वीरस्य कथनं, तथाऽपि तस्याऽनुप- शमो गौतमेन चाऽनुशासने कृतेऽभूत् उपशमो दीक्षा च।अत्र भगवदपेक्षया हीनगुणेऽपि गौतमे तस्य गुरुपरिणामो जायते, इति महती निर्जराऽभवदिति। संप्रति 'सुत्तत्थे' इत्यस्य व्याख्यानमाह - सुत्ते अत्थे तदुभए, पुट्विं भणिया जहोत्तरं बलिया। मंडलिए पुण भयणा, जइ जाणइ तत्थ भूयत्थं // सूत्रे अर्थे तदुभयस्मिन् स्वस्थाननिर्जरा पूर्व यथोत्तरं बलिका बलवती भणिता। संप्रति पुनः सूत्राऽर्थतदुभयेषु युगपचिन्त्य-मानेषु यथोत्तरं निर्जरा बलवती। सांप्रतं 'मंडली चेवत्ति' व्याख्यानार्थमाह- (मंडलीए पुण इत्यादि) मण्डल्यां पुनर्भजना विकल्पना / यदि जानाति तत्र मण्डल्यां भूतार्थ सद्भूतमर्थं, तदा स महानिर्जरकः / इयमत्र भावनामण्डल्यां पठन्ति पाठयन्ति च तत्राऽऽवश्यकादि पठता यथोत्तरं पठन्तो बलिकाः / अथ जानाति वैयावृत्त्यकरो, यथाऽधस्तनसूत्रपाटकोज्ञानादिभिर्गुणैरधिकतरस्ततो-ऽधस्तनश्रुतपाठकस्य वैयावृत्त्यकरणे महती निर्जरा, ददतां मध्ये य उपरितनश्रुतवाचकः, स ज्ञानादिभिरधिकतर इति तद्वैयावृत्त्यकरणे महती निर्जरा / अथ जानाति वैयावृत्त्यकरो यथाऽधस्तनश्रुतवाचको ज्ञानादिभिरधिकतरस्ततोऽधस्तनश्रुतवाचकस्य वैयावृत्त्यकरणे बलवती निर्जरा। वाचक-प्रातीच्छिकानां मध्ये यो वाचक-स्तद्वैयावृत्त्यकरणे महती निर्जरा, अथ वैयावृत्त्यकरो जानात्येष प्रातीच्छिक आचार्यों वाच्यते, तत्प्रत्युज्ज्वालनमात्रं यावता सर्वमेतस्याऽऽयाति सूत्रतोऽर्थत- श्वाऽधिकरतर इति, तदा तस्य प्रातीच्छिकस्य वैयावृत्त्यकृते महती निर्जरा / इह सूत्रेऽर्थे तदुभये च यथोत्तरं बलवती निर्जरा, इत्युक्तम् / तत्र यथोत्तरं निर्जराया बलवत्तां भावयतिअत्थो उ महड्डित्तो, करणेणं घरस्स निप्पत्ती। अब्भुट्ठाणे गुरुगा, रण्णो याणे य देवी य॥ दृष्टान्तः - सूत्रात् केवलात् अर्थाद्वा स सूत्राऽर्थो महर्द्धिकः, किं कारणमिति चेत् ? उच्यते- अत्र कृतकरणेन गृहस्य निष्पत्तिः / इतश्च सूत्रादर्थः, ससूत्रो महर्द्धिकः / सूत्रमण्डल्यामाचार्यादयः प्राघूर्णकप्रभृतीनामभ्युत्थान कुर्वन्ति, अर्थमण्डल्या पुनर्यस्य समीपे अनुयोग श्रुतवान्, तमेकं मुक्त्वा अन्यस्य दीक्षा-गुरोरभ्युत्थानं चत्वारो गुरुकाः प्रायश्चित्तं, ततः सूत्रादर्थो बली-यान् / अत्राऽर्थे राज्ञः शातवाहनस्य याने निर्गमने देवी दृष्टान्तः / एष गाथाऽक्षरार्थः / सांप्रतमेनामेव विवरीषुः कृतकरणेन गहस्य निष्पत्तिरिति द्रष्टान्तं भावयति