________________ अइसेस 23 - अभिधानराजेन्द्रः - भाग 1 अइसेस अध्वनि सार्थेन समं व्रजतामसंस्तरणे भिक्षार्थमाचार्यो हिण्डते / अथवा ते सहायाः अको विदाः सार्थे च प्रलम्बान्यविकरणीकृतान्यखण्डीकृतानि लभ्यन्ते, तत आचार्यः स्वयमेव हिण्डमानः, तानि विकरणानि कृत्वा सन्निवर्तते। अथवा ददतामुपदेशं ददाति-विकरणानि कृत्वा ददध्वमिति / एवमको विदानां सहायानां भावे प्रलम्बविकरणनिमित्तमाचार्यो गच्छति। एवमेव कर्कशेऽपि क्षेत्रे भिक्षार्थ गमनमाचार्यस्य भवति, तत्राऽन्यसंस्तरणे अकोविदाः सहायभावे प्रलम्बविकरणाय वा गच्छन्तीति तथा असतीति नाम सहायकान सन्ति, ततः स्वयमेव भिक्षामटति। बहुया तत्थऽतरंता, अह गिल्लाणस्स सो परं लहति। एमेव य आदेसे, सेसेसु विभासबुद्धीए॥ बहवस्तत्र गच्छे अतरन्तो ग्लानास्ततः सर्वेषां गच्छसाधवः | प्रायोग्यमुत्पादयितुमशक्ता अथवाग्लानस्य परं प्रायोग्यमन्या न लभन्ते, किंतु स एवाचार्यस्ततः स हिण्डत। एवमेवादेशेषु प्रग्लानकेषु शेषेषु च बालवृद्धासहेषु विभाषा विभाषणं तच बुद्ध्या कर्त्तव्यं तचैवं यद्यादेशादयो बहवः सर्वेषां साधवः कर्तुं न शक्नुवन्ति, यदि वा स एवादेशादिप्रायोग्य लभते,नाऽन्यः कोऽपि, ततः स हिण्डते। संप्रति "संथरमाणे भइओ इति" व्याख्यानयतिअन्मुजयपरिकम्म, कुणमाणो जा गणं न वोसिरिति। ताव सयं सो हिंडइ, इति भयणाऽसंथरंतम्मि / / अभ्युद्यतविहारपरिकर्म कुर्वन्यावत् गणं न व्युत्सृजति, तावत्स्वयं स | आचार्यो हिण्डते, इत्येषा भजनाऽसंस्तरति गच्छे। अद्धाणादिसुवेहं, सुहसीलत्तेण जो करेज्जाहि। गुरुगा य जंच जत्थ व, सव्वपयत्तेण कायव्वं / / अध्वादिषु अध्वकर्कशादिष्वसंस्तरति गच्छेत्, सुखशीलत्वेन सुखमाकाशमाण आचार्योऽहमित्यालम्बनमाधाय य उपेक्षामाचार्यः करोति, भिक्षां न हिण्डते, इत्यर्थस्तस्य प्रायश्चित्तं चत्वारो गुरुकाः / यच्च तत्र वा अनागाढपरितापनादि साधवः प्राप्नुवन्ति, तन्निष्पन्नमपि तस्य प्रायश्चित्तं, तस्मात् सर्व-प्रयत्नेनाऽध्वादिष्वसंस्तरणे भिक्षाटनं कर्तव्यम्। सांप्रतमसंस्तरणयतनामाह - असती पडिलोमंतु, सग्गामे गमणदाणसड्डेसु / पेसति बितिए दिवसे, आवज्जइ मासियं गुरुयं / / असति अवमौदर्यादिना गच्छसंस्तरणाभावे प्रतिलोमं गणा- | वच्छे दकादारभ्य प्रतिकूलगमनमवसातव्यं, तद्यथा- प्रतिवृषभादिनाऽसंस्तरणे गणावच्छेदकः प्रतिवृषभादिभिः सह हिण्डते, तथाऽप्यसंस्तरणे, स्थविरोऽपि / तथाऽप्यसंस्तरणे प्रवर्तकोऽपि, तथाऽप्यसंस्तरणे उपाध्यायोऽपि, तथा चेत् न संस्तरति, तर्हि स्वग्रामे दानश्राद्धेषु कुलेष्वाचार्यगमनं भवति, तथापि चेदसंस्तरणं, तत आचार्योऽन्यान्यपि गृहाणि / तथा केनाऽपि साधुना कस्मिंश्चित् कुले ग्लानप्रायोग्यं किमपि द्रव्यं याचितं, परं न लब्धम् / अथवा तद्रव्यं तस्मिन् गृहे प्रभूतमस्ति, अन्यत्र च न विद्यते, तत्र यदि द्वितीये दिवसे तस्मिन् कुले येन न लब्धं, तमेवाचार्यः प्रेषयति, ततो गुरुकं मासिक प्रायश्चित्तम् / तस्मिन् कुले प्रतिलोम प्रेषयति / तद्यथा- प्रथम गणावच्छेदकः प्रेष्यस्तेनाऽलब्धे स्थविरस्तेनाऽप्यलब्धे प्रवर्तकस्तेनाऽप्यलब्धे उपाध्यायस्तेना-ऽप्यलब्धे स्वयमाचार्यो व्रजति / यदि वा सगृहप्रभुर्यस्य गौरवं करोति,सप्रेषयितव्यः। सांप्रतमस्या एव गाथायाः पूर्वार्द्ध भावयति - गणावछेदओ पुव्वं, ठवणकुलेसुं व हिंडइ सगामे। एवं थेरपवित्ती, अभिसेयं गुरुयपडिलोमं॥ पूर्व गणावच्छे दकः स्वग्रामे स्थापनाकुलेषु हिण्डते, एवं गणावच्छेदकादारभ्य प्रतिलोम वक्तव्यं, तद्यथा-असंस्तरणे स्थविरोऽपि हिण्डते, तथाऽप्यसंस्तरणे अभिषेक उपाध्यायः, तथापि संस्तरणाऽभावे गुरुरपि / अधुना 'पेसति बितिए दिवसे'' इत्यादि भावयति ओभासिय पडिसिद्धं, तं चेव न तत्थ पट्ठवेज्जाउ। पडिलोमं गणिमादी, गारवं जत्थ वा कुणति / / केनापि साधुना ग्लानप्रायोग्यं किमपि द्रव्यं कस्मिंश्चित् कुले अवभाषितं याचितमित्यर्थः। तच्च गृहप्रभुणा प्रतिषिद्धमन्यत्र तत् द्रव्यं नास्ति, किंतु तस्मिन्नेव गृहे, ततो द्वितीयदिवसे तरकुलेन तमेव प्रेषयेत्, किंतु प्रतिलोमं गणाऽवच्छेदकप्रभृ-तिकं यथोक्तं प्राक्, यत्र वा गृहप्रभुर्गौरवं करोति,तं वा प्रेषयेत्। तित्थकर त्ति समत्तं, अहुणा पावयणनिज्जरा चेव / वचंति दो व समगं, दुवालसंग पवयणं तु / / तीर्थकर इति द्वार समाप्तम्। अधुना प्रवचनं निर्जरा चेति द्वे अपि द्वारे समकमेककाल व्रजतः, तत्र प्रवचन नाम द्वादशाङ्ग-गणिपिटकम् / तं तु अहिज्जंताणं, वेयावच्चे उ निजरा तेसिं। कस्स भवे केरिसिया, सुत्तत्थे जहोत्तरं बलिया।। ननु द्वादशाङ्गं गणिपिटकमधीयानानां वैयावृत्त्ये क्रियमाणे तेषां वैयावृत्त्यकराणां महती निर्जरा, तदावरणीयस्य कर्मणः क्षयकरणात महापर्यवसानः, पुनरन्यनवकर्मबन्धाभावात्। अत्र शिष्यः प्राह-कस्य कीदृशी निर्जरा भवति? आचार्यः प्राह-सूत्रे अर्थे च यथोत्तरं बलिका। एतदेव विभावयिषुराहसुत्तावस्सगरादी, चोहसपुव्वाण तह जिणाणं च। भावे सुद्धमसुद्धं सुत्तत्थे मंडली चेव // सूत्रमावश्यकादि यावच्चतुर्दशपूर्वाणि, एतद्द्वारा यथोत्तरं महती महत्तरा निर्जरा एवमर्थेऽपि भावनीयम्। तथा जिनाना-मप्येवंविधजिनप्रभृतीनां यथोत्तरं बलिका निर्जरा / इयमत्र भावना- एक आवश्यकसूत्रधरस्य वैयावृत्त्यं करोति, अपरो दशवैकालिकसूत्रधरवैयावृत्त्यकरः, तस्य आवश्यककरात् महती निर्जरा एवमधस्तनाऽधस्तनतरश्रुतधरवैयावृत्त्यकरादुपर्यु परितरश्रुतधरवैयावृत्त्यकरो यथोत्तरं महानिर्जरः, तावदवसेयो यावत् त्रयोदशपूर्वधरवैयावृत्त्यकराच्चतुर्दशपूर्वधरवैयावृत्त्यकरो महानिर्जरः / एवमर्थेऽपि भावनीयं तदुभयचिन्तायां ग्लानवैयावृत्त्य-करादर्थवैयावृत्त्यकरो महर्द्धि को, नवरं निशीथकल्पव्यवहा-रार्थधराणां वैयावृत्त्यकरो महानिर्जरः / तथा श्रुतज्ञानिवैयावृत्त्य-करः / तथा भावः परिणामः, तस्मिन् शुद्धे अशुद्धे च तदनुसारेण निर्जरा प्रवर्तते / तथा सूत्राऽर्थे युगपच्चिन्त्यमाने यथोत्तरं बलिका। तथा मण्डली-सूत्राऽर्थाऽवधिकृत्य विचारणीया। इहाऽऽचार्यः प्रस्तुतः, तमधिकृत्य वैयावृत्त्यकरणे महती निर्जरा। तामाह -